Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 318
________________ • अर्थसमाजसिद्धत्वविमर्शः • ५८१ तद्धिंसा । इयं ह्यात्मनोऽव्ययेऽप्युपपत्स्यते । अतिसान्निध्यादेव हि शरीरखण्डनादात्माऽपि खण्डित इति लोकानामभिमानः, नाऽयं विशेषदर्शिभिरादरणीय' इति चेत् ? ___न, तत्त्वस्य = उक्तध्वंसत्वस्य अर्थसमाजतः = अर्थवशादेव सिद्धेः, स्मृतिहेत्वभावादेव स्मृत्यजननाच्चरममनःसंयोगस्याऽपि संयोगान्तरवदेव नाशात् । जनक-ज्ञानजनकमनःसंयोगस्य = स्मृत्यजनकत्वे सति शरीराऽवच्छिन्नज्ञानजनको य आत्माऽनुयोगिको मनःप्रतियोगिकः संयोगः तस्य ध्वंसः = विनाश एव आत्मनो मरणम् । सुषुप्तिपूर्वकालीनमनोयोगस्य स्मृतिजनकत्वान्न सुषुप्त्याद्यक्षणे मरणव्यवहारप्रसङ्गः । सुषुप्तिकालीनमनोयोगस्य ज्ञानाऽजनकत्वान्न जागरदशाऽऽद्यक्षणे मृत्युव्यवहृतिप्रसक्तिः । मरणाऽव्यवहितपूर्वक्षणीयमनोयोगस्य ज्ञानकारणत्वेऽपि स्मृत्यकारणत्वात्तन्नाशे मृत्युव्यवहारसङ्गतिरेव । तत् = तादृशमरणमेव आत्मनो हिंसा व्यवह्रियते । इयं हि हिंसा आत्मनः अव्ययेऽपि = अविनाशेऽपि उपपत्स्यते, गगनघटसंयोगध्वंसवत् । न च गगनस्य नित्यत्वेऽपि घटस्याऽनित्यत्वात्तत्संयोगस्य ध्वंससम्भवेऽपि प्रकृताऽऽत्ममनःसंयोगस्य ध्वंसो न सम्भवति, उभयोरेव नित्यत्वादिति वाच्यम्, गगन-परमाणूनां नित्यत्वेऽपि गगनानुयोगिक-परमाणुप्रतियोगिकसंयोगविशेषनाशोपलब्धेः प्रकृतेऽपि तत्सम्भवे बाधकाऽभावात् । ___ अत्र स्याद्वादी उत्तरयति 'नेति । उक्तध्वंसत्वस्य = स्मृत्यजनकदेहाऽवच्छिन्नज्ञानजनकमनःसंयोगध्वंसत्वस्य अर्थसमाजतः = अर्थवशादेव = नानासामग्रीबलादेव सिद्धेः । तथाहि- मरणाऽव्यवहितपूर्वक्षणीयमनोयोगस्य स्मृत्यजनकत्वं हि स्मृतिहेत्वभावादेव, तत एव तेन स्मृत्यजननात् । चरममनःसंयोगस्य = मरणाऽव्यवहितपूर्वाऽऽत्ममनोयोगस्य संयोगाऽन्तरवदेव = अचरममनःसंयोगस्येव आत्ममनःसंयोगनाशकसामग्र्या नाशात्, न तत्राऽधिकं किञ्चित् प्रविशति । ततश्च नैव शृङ्गग्राहिकान्यायेन कस्याऽपि प्रतिनियतस्य हिंसकत्वव्यवहारसम्भवः । यथा नीलरूपसामग्र्यभावाद् घटे नीलरूपाऽजनने घटनाशकसामग्र्या घटध्वंसजननेऽनीलघटनाशत्वमर्थसमाजसिद्धं भवति तथा ज्ञानजनकाऽऽत्ममनोयोगनाशकसामग्र्या चरममनःसंयोगध्वंसजनने स्मृतिसामग्र्यभावाच्चरममनःसंयोगे स्मृतिकारणत्वविरहेण स्मृत्यजनकज्ञानजनकमनःसंयोगध्वंसत्वमर्थसमाजसिद्धं भवति । न च तत् शृङ्गग्राहिकया कस्या अपि सामग्र्याः कार्यताऽवच्छेदकं અને તે જ આત્માની હિંસા કહેવાય. આત્માનો નાશ ન થવા છતાં પણ આવી હિંસા સંગત થઈ શકે છે. વાસ્તવમાં આત્માનો નાશ ન થવા છતાં આત્મા અને શરીર અતિનજીક હોવાના કારણે શરીરનો નાશ થવાથી “આત્મા પણ મરી ગયો’ આ પ્રમાણે સામાન્ય જીવોને મિથ્યા અભિમાન થાય છે - પરંતુ આત્મા અને શરીર વચ્ચેના ભેદને જોનારા વિદ્વાનોએ તેવું ફોગટ અભિમાન આદરવા લાયક નથી.” - ઉપરોક્ત તૈયાયિક કથન વ્યાજબી ન હોવાનું કારણ એ છે કે સ્મૃતિઅજનક જ્ઞાનજનક-મનોયોગધ્વંસત્વ અર્થસમાજથી જ સિદ્ધ થાય છે. આનું કારણ એ છે કે ચરમ મનસંયોગનો નાશ પણ અન્ય મનસંયોગના નાશની જેમ જ ઉત્પન્ન થાય છે. ફક્ત સ્મૃતિનો હેતુ ન હોવાથી જ તે ચરમ મનસંયોગ સ્મૃતિજનક બનતો નથી. એટલા માત્રથી કાંઈ તેવા મનોયોગનો નાશ કાંઈ તાત્ત્વિક હિંસાના વ્યવહારનું સમર્થન Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372