Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
६१०
• सर्वथाक्षणिकस्य कालान्तरभाविफलजनकत्वाऽसङ्गतिः • द्वात्रिंशिका-८/२४ न, हन्मीति सङ्कल्पक्षणस्यैव सर्वथाऽनन्वये कालान्तरभाविफलजनकत्वाऽनुपपत्तेः, कथञ्चिदन्वये चाऽस्मत्सिद्धान्तप्रवेशाऽऽपाताच्च इति । अधिकमन्यत्र ।।२४।।
स्याद्वाद्याह न, 'हन्मीति सङ्कल्पक्षणस्यैव = सङ्क्लेशक्षणस्यैव बौद्धदर्शनेऽनुपपत्तेः । तदुक्तं शास्त्रवार्तासमुच्चये सुगतमतनिरासप्रसङ्गे → 'हन्म्येनमिति सङ्क्लेशाद्धिंसकश्चेत्प्रकल्प्यते । नैव त्वन्नीतितो यस्मादयमेव न युज्यते ।। सङ्क्लेशो यद्गुणोत्पाद: स चाऽक्लिष्टान्न केवलम् । न चान्यसचिवस्यापि तस्यानतिशयात्ततः ।। तं प्राप्य तत्स्वभावत्वात्ततः स इति चेन्ननु । नाशहेतुमवाप्यैवं नाशपक्षेऽपि न क्षतिः।।
6 (शा.वा.स.६/१६-१७-१८) इति। अस्तु वा यथाकथञ्चित् तथाविधसङ्क्लेशसम्भवः तथापि तेनैवाऽऽनन्तर्यस्याऽन्यथासिद्धिः, → सङ्क्लेशेन विशेषश्चेदानन्तर्यमपार्थकम् । न हि तेनापि सङ्क्लिष्टमध्ये भेदो विधीयते ।। 6 (अ.उप.१/५८) इति अध्यात्मोपनिषद्वचनात् ।
किञ्च सुगतसिद्धान्ते निरन्वयनाशाऽभ्युपगमात् सङ्क्लेशक्षणस्यैव तदुत्तरं सर्वथाऽनन्वये = सोपादानकारणनाशे = स्वोपादानकारणमुपादाय नाशे बौद्धन्यायप्राप्ते सति 'गृहीत्वाऽर्थं गताश्चौरा कस्तानाच्छेत्तुमर्हती'ति न्यायेन कालाऽन्तरभाविफलजनकत्वाऽनुपपत्तेः = व्यवहितकालसम्भविकार्योत्पादकत्वायोगात् । न हि निरन्वयनाशप्रतियोगि स्वध्वंसोत्तरकालीनकार्यजनकं भवितुमर्हति, अतिप्रसङ्गात् । इत्थञ्च सुन्दोपसुन्दन्यायेन नैयायिक-बौद्धौ मिथ एव हतौ । ततश्च बौद्धमते निरन्वयनाशतः सङ्क्लेशरूपाया हिंसाया अभ्युपगमेऽपि तस्या दुःखजनकतानुपपत्तिः । एवं सति → इत एकनवतौ कल्पे शक्त्या मे पुरुषो हतः । तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ! ।। - (शास्त्रवार्तासमुच्चय ४/१२४) इति सुगतोक्तिरप्यसम्भवा स्यात् कफोणिगुडायितन्यायेन । न चोत्तरकालं ‘हन्मीति सङ्कल्पक्षणस्य कथञ्चिदन्वयोऽभ्युपगम्यत इति तत्रैव कालान्तरे फलोत्पादोपपत्तिरिति वक्तव्यम्, इत्थमुत्तरकालं कथञ्चिदन्वये = स्वतत्त्वानुवेधे स्वीक्रियमाणे सति च सौगतस्य 'शिरशः च्छेदेऽपि शतं न ददाति, विंशतिपञ्चकं तु प्रयच्छत्येवेति शाकटिकन्यायेन अस्मत्सिद्धान्तप्रवेशाऽऽपातात् = स्यादन्वयवादिस्याद्वादितन्त्रप्रवेशप्रसङ्गात् । स्याद्वादिभिरस्माभिरात्मादेर्द्रव्य-पर्यायाभ्यां नित्यत्वाऽनुविद्धाऽनित्यत्वाभ्युपगमात् । ___ इत्थञ्चाऽभ्युपगन्तव्यं यदुत तथा तथाऽभिव्यज्यमानस्य सततप्रवर्त्तनात्मनो भावस्याऽकौटस्थ्यं सततसम्प्रवृत्तिरूपं नित्यत्वञ्चेति (द्वा.न.च.अर-५/पृ.५२०) व्यक्तं द्वादशारनयचक्रे । ततश्च → तदपि हि नित्यं यस्मिन् तत्त्वं न विहन्यते - (पा.म.भा.१/१/१) इति पातञ्जलमहाभाष्यवचनमप्यनेकान्त
જેન:- આ વાત પણ વ્યાજબી નથી. કારણ કે હું અને મારું- હણું- આવા પ્રકારના સંકલ્પરૂપી ક્ષણનો પણ બૌદ્ધ મતે તો નિરન્વય = સર્વથા નાશ જ થવાનો હોય તો કાલાન્તરભાવી દુઃખાદિ ફળનું તે કોઈ પણ રીતે જનક બની ના જ શકે. તથા જો કોઈક રીતે તે સંકલ્પષણનો અન્વય-વિદ્યમાનતા બૌદ્ધ વિદ્વાનો સ્વીકારે તો અમારા સ્યાદ્વાદીના સિદ્ધાન્તમાં બૌદ્ધ વિદ્વાનોનો પ્રવેશ થવાની સમસ્યા સર્જાશે. આ બાબતમાં અધિક જિજ્ઞાસાવાળા વાચકવર્ગને ગ્રંથકારશ્રીના અન્ય ગ્રંથો - સ્યાદ્વાદ કલ્પલતા - ન્યાયખંડખાદ્ય વગેરે જોવાની ગ્રંથકારશ્રી પોતે જ ભલામણ કરે છે. (૮(૨૪)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372