Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 346
________________ • दुष्टसङ्कल्पात्मकहिसामीमांसा • ननु 'हन्मी 'ति सङ्कल्प एव हिंसा, तद्योगादेव च हिंसकत्वं तदभावाच्चाऽहिंसायास्ततश्च तद्वृत्तिभूतसत्यादीनां नाऽनुपपत्तिरिति चेत् ? = अहिंसा तावन्न युज्यत एव इत्यपिशब्दार्थः, तत्त्वतः = परमार्थतः । कुत एतदेवमित्यत आह अस्याः अहिंसायाः संरक्षणार्थं तु = परिपालनायैव, तुशब्द एवकारार्थः, यत् = यस्मात् एतानि = सत्यादीनि जगतो मन्ता जिनः जगौ गदितवान् । न हि सस्यादिपालनीयाऽभावे वृत्तौ विद्वान् = मुनिः यतते ← (अ.प्र. १५/८वृत्ति ) इति अष्टकप्रकरणे चैवोक्तमन्यत्र = = = । अभावे सर्वथैतस्या, अहिंसापि न तत्त्वतः 1 = = सत्यादीन्यपि सर्वाणि, नाऽहिंसासाधनत्वतः ।। ← (अ.प्र. १४ / ३ ) । तद्वृत्तिः अभावे अविद्यमानत्वे सर्वथा सर्वप्रकारैः एतस्याः हिंसायाः अहिंसापि हिंसानिवृत्तिलक्षणा न नैव तत्त्वतः = परमार्थेन उपपद्यते इत्यनुवर्तते । न केवलमात्मनो निष्क्रियत्वाद्धिंसा नोपपद्यते तदभावेऽहिंसाऽपि नोपपद्यत इत्यपिशब्दार्थः । अथ मोपपद्यतामहिंसा, सत्यादीनि धर्मसाधनानि भविष्यन्तीत्याशङ्कानिराकरणायाह न केवलमहिंसा नोपपद्यते सत्यादीन्यपि मृषावादनिवृत्त्यादीन्यपि, आदिशब्दाच्छेषधर्मसाधनसङ्ग्रहः, सर्वा निरवशेषाणि न नैव उपपद्यन्त इत्यनुवर्त्तते। कुत इत्याह- अहिंसासाधनत्वतः = अहिंसाप्रसाधकत्वात्तेषाम् । साध्याऽभावे हि साधनाऽनुष्ठानमनर्थकमेव । न हि व्योमाऽरविन्दसंरक्षणाय प्राकारादियत्नाः कर्तुं युज्यन्ते। अहिंसासाधनानि च सत्यादीनीति सर्वास्तिकानां सम्मतमेव, विशेषतो जैनानाम् । यथोक्तम्- “ एक्कं चिय इत्थ वयं, निद्दिट्ठ जिणवरेहिं सव्वेहिं । पाणाइवायविरमणमवसेसा तस्स रक्खट्ठा ।। ( ) ← (अ.प्र. १४ / ३ वृत्ति ) इति । = एवञ्च दशविधकुशलपरिपालनमपारमार्थिकं मोहसङ्गतं वा स्यात् । ततश्चाऽजाकृपाणीयन्यायोऽत्र लब्धाऽवसरः । यथा कण्डूयनार्थं स्तम्भादौ शिथिलबन्धखड्गे छागी ग्रीवां प्रसारयति यदृच्छया च तस्या ग्रीवा च्छिद्यते तथैकान्तवादिभिर्मुक्तयेऽहिंसादिः सर्वथानित्याद्यात्मनि कक्षीक्रियते तदनुपपत्त्या च तच्छ्रेयः छिद्यत इति । - 1 = ६०९ = For Private & Personal Use Only = अत्रैव पुनः सौगतः शङ्कते नन्विति । तद्योगादेव = सङ्क्लेशसम्बन्धादेव च हिंसकत्वं, तदभा - वाच्च = हननसङ्क्लेशविरहाद्धि बुद्धस्याऽनन्तरक्षणोत्पादकत्वेऽपि नैव हिंसकता, 'हन्म्येनमिति सङ्क्लेशाद् लुब्धकादिक्षणो हिंसकः प्रकल्प्यते, क्लिष्टविज्ञानक्षणस्यैव क्लिष्टकर्मक्षणहेतुत्वात् । युक्तञ्चैतत् मृगमव्यापादयन्नपि ‘मृगं हन्तीति सङ्क्लेशपरिणतः पापेन बध्यते, यतमानश्च विचरन्ननाभोगाद् घ्नन्नपि कथञ्चिल्लघुप्राणिनं पापेन न बध्यते त्वसङ्क्लिष्ट इत्यन्वयव्यतिरेकदर्शनात् । हिंसकत्वव्यवहारस्तु तथाविधविकल्परूपः सांवृतं नाशमादायैवेति नाऽतिप्रसङ्गः । घातसङ्क्लेशविरहाद् अहिंसाया नानुपपत्तिः । ततश्च = अहिंसासम्भवाच्च तद्वृत्तिभूतसत्यादीनां नानुपपत्तिरिति चेत् ? બૌદ્ધ :- ‘હું આને મારું- હણું' આવો સંકલ્પ જ હિંસા છે. તેવા સંક્લેશના કારણે જ વ્યક્તિ હિંસક બને છે. તેવો ક્લિષ્ટ સંકલ્પ ન હોવાથી અહિંસાનો સંભવ થશે. તથા અહિંસા સંભવિત થવાના લીધે સત્ય, અચૌર્ય વગેરે ધર્મસાધનો પણ અસંગત નહિ થાય. આમ ક્ષણિકવાદમાં પણ અહિંસા, સત્ય આદિ સુસંભવિત જ છે. Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372