Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 322
________________ • निष्क्रियस्य देहसंयोगाऽसम्भवः • योजनीयम् । तदिदमुक्तं "शरीरेणाऽपि सम्बन्धो नाऽत एवाऽस्य सङ्गतः । तथा सर्वगतत्वाच्च संसारश्चाप्यकल्पितः ।।" (अष्टक.१४/५) इति ।।१७ ।। तदिदमुक्तं अष्टकप्रकरणेऽपि 'शरीरेणे'ति । तवृत्तिश्चैवम् → न केवलमहिंसादयो नित्ये सत्यात्मनि न सङ्गच्छन्ते, शरीरेणापि = देहेनापि सह सम्बन्धः = संयोगः न = नैव अत एव = निष्क्रियत्वादेव हेतोः, निष्क्रियस्य हि सम्बन्धक्रिया नोपपद्यते। अथवा अत एवेति नित्यत्वादेवेत्यर्थः । नित्यस्य हि शरीरसम्बन्धः पूर्वरूपत्यागे वा स्यादत्यागे वा ? अत्यागे चेत्तदा शरीरेणाऽसम्बद्ध एवासौ स्याच्छरीराऽसम्बद्धत्वलक्षणस्य पूर्वरूपस्य तदवस्थत्वात् । त्यागे चेत्तदा तदनित्यत्वम् स्वभावत्यागस्याऽनित्यत्वलक्षणत्वात्, अस्य इति नित्यात्मनः न = नैव सङ्गतो = युक्तः। तथा इति वाक्यान्तरोपक्रमार्थः, सर्वगतत्वात् = सकलभुवनव्यापकत्वात् । इष्यते च कैश्चिदात्मनो विभुत्वम् । यदाह“मदीयेनात्मना युक्तं, दूरदेशादिवर्त्यपि । क्षित्यादि मूर्तिमत्त्वादेरस्मदीयशरीरवत् ।।” ( ) चकारान्निष्क्रियत्वान्नित्यत्वाद्वा । किमित्याह संसारश्चापि, न केवलं शरीरसम्बन्धोऽस्य न सङ्गतः, संसारश्चापि तिर्यङ्-नर-नारक-नाकिनिकायसंसरणलक्षणो न सङ्गतः। संसरणं ह्यसर्वव्यापकस्यैव युज्यते सक्रियस्य कथञ्चिदनित्यस्य चेति । चापि इति निपातद्वयमपि समुच्चयार्थम, अपि च इत्यादिवत् । तथाहि सर्वगतत्वे निष्क्रियत्वे नित्यत्वे वा सत्यात्मनः सर्वत्र सर्वदा च भावान्न संसारः सङ्गतः। किं सर्वथा न सङ्गतः ? इत्यत आह अकल्पितः = तात्त्विकः । कल्पितस्तु सङ्गच्छमानोऽपि न हेयोपादेयकोटिमारोहति नभोऽम्भोरुहवदिति - (अष्टकवृत्ति १४/५) । ___ एवं च विभुत्वेन संसाराऽभावे सति यदापन्नं तदुक्तं अष्टके → ततश्चोर्ध्वगतिर्धर्मादधोगतिरधर्मतः । ज्ञानान्मोक्षश्च वचनं, सर्वमेवौपचारिकम् ।। - (अ.प्र.१४/६) इति । तद्वृत्तिस्त्वेवम् → ततश्च = एवं संसाराऽभावे सति ऊर्ध्वगतिः = स्वर्गाद्यवाप्तिलक्षणा धर्मात् = अहिंसाधनुष्ठानलक्षणात्, तथा अधोगतिः = नारकाद्यवाप्तिरूपा अधर्मतो = अधर्माद्धिंसाधनुष्ठानरूपात्, तथा ज्ञानात् = पञ्चविंशतितत्त्वाऽवबोधरूपात् मोक्षो = निखिलकर्मनिर्मुक्तिलक्षणः, चशब्दः उक्तसमुच्चये, इतिशब्दोऽत्र लुप्तो द्रष्टव्यस्तेन इतिवचनम् = एतदर्थप्रतिपादनम् । किमित्याह- सर्वमेव = निरवशेषमेव, औपचारिक = काल्पनिकमपारमार्थिकमित्यापन्नम्, अभ्युपगम्यते चोर्ध्वगतिर्धर्मादित्यादि साङ्ख्यैः । आह च ईश्वर४ न संमवे. (विभुत्वेन च संसारः कल्पितः भावो श६. मानवाना पहले 'विभुत्वे न च संसारः' આ મુજબ શાબ્દિક આનુપૂર્વી સ્વીકારીને પ્રસ્તુત અર્થઘટન થઈ શકે છે.) અને આત્માને વિભુ માનવા છતાં જો સંસાર સંભવી શકતો હોય તો તે સંસાર કાલ્પનિક જ હોય, વાસ્તવિક ન જ હોય. આ બાબતમાં કોઈ સંદેહ જ નથી. - આ પ્રમાણે બીજી રીતે પણ અર્થયોજના કરી શકાય છે. માટે તો શ્રી અષ્ટકજીમાં હરિભદ્રસૂરીશ્વરજી મહારાજે જણાવેલ છે કે “એકાન્તનિત્ય હોવાથી જ આત્માનો શરીર જોડે સંબંધ સંભવતો નથી. તથા નૈયાયિકમાન્ય આત્મા સર્વવ્યાપી હોવાથી અકલ્પિત = वास्तवि: संसार ५९ संभव नह.' (८/१७) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372