________________
• निष्क्रियस्य देहसंयोगाऽसम्भवः • योजनीयम् । तदिदमुक्तं
"शरीरेणाऽपि सम्बन्धो नाऽत एवाऽस्य सङ्गतः । तथा सर्वगतत्वाच्च संसारश्चाप्यकल्पितः ।।" (अष्टक.१४/५) इति ।।१७ ।।
तदिदमुक्तं अष्टकप्रकरणेऽपि 'शरीरेणे'ति । तवृत्तिश्चैवम् → न केवलमहिंसादयो नित्ये सत्यात्मनि न सङ्गच्छन्ते, शरीरेणापि = देहेनापि सह सम्बन्धः = संयोगः न = नैव अत एव = निष्क्रियत्वादेव हेतोः, निष्क्रियस्य हि सम्बन्धक्रिया नोपपद्यते। अथवा अत एवेति नित्यत्वादेवेत्यर्थः । नित्यस्य हि शरीरसम्बन्धः पूर्वरूपत्यागे वा स्यादत्यागे वा ? अत्यागे चेत्तदा शरीरेणाऽसम्बद्ध एवासौ स्याच्छरीराऽसम्बद्धत्वलक्षणस्य पूर्वरूपस्य तदवस्थत्वात् । त्यागे चेत्तदा तदनित्यत्वम् स्वभावत्यागस्याऽनित्यत्वलक्षणत्वात्, अस्य इति नित्यात्मनः न = नैव सङ्गतो = युक्तः। तथा इति वाक्यान्तरोपक्रमार्थः, सर्वगतत्वात् = सकलभुवनव्यापकत्वात् । इष्यते च कैश्चिदात्मनो विभुत्वम् । यदाह“मदीयेनात्मना युक्तं, दूरदेशादिवर्त्यपि । क्षित्यादि मूर्तिमत्त्वादेरस्मदीयशरीरवत् ।।” ( ) चकारान्निष्क्रियत्वान्नित्यत्वाद्वा । किमित्याह संसारश्चापि, न केवलं शरीरसम्बन्धोऽस्य न सङ्गतः, संसारश्चापि तिर्यङ्-नर-नारक-नाकिनिकायसंसरणलक्षणो न सङ्गतः। संसरणं ह्यसर्वव्यापकस्यैव युज्यते सक्रियस्य कथञ्चिदनित्यस्य चेति । चापि इति निपातद्वयमपि समुच्चयार्थम, अपि च इत्यादिवत् । तथाहि सर्वगतत्वे निष्क्रियत्वे नित्यत्वे वा सत्यात्मनः सर्वत्र सर्वदा च भावान्न संसारः सङ्गतः। किं सर्वथा न सङ्गतः ? इत्यत आह अकल्पितः = तात्त्विकः । कल्पितस्तु सङ्गच्छमानोऽपि न हेयोपादेयकोटिमारोहति नभोऽम्भोरुहवदिति - (अष्टकवृत्ति १४/५) ।
___ एवं च विभुत्वेन संसाराऽभावे सति यदापन्नं तदुक्तं अष्टके → ततश्चोर्ध्वगतिर्धर्मादधोगतिरधर्मतः । ज्ञानान्मोक्षश्च वचनं, सर्वमेवौपचारिकम् ।। - (अ.प्र.१४/६) इति । तद्वृत्तिस्त्वेवम् → ततश्च = एवं संसाराऽभावे सति ऊर्ध्वगतिः = स्वर्गाद्यवाप्तिलक्षणा धर्मात् = अहिंसाधनुष्ठानलक्षणात्, तथा अधोगतिः = नारकाद्यवाप्तिरूपा अधर्मतो = अधर्माद्धिंसाधनुष्ठानरूपात्, तथा ज्ञानात् = पञ्चविंशतितत्त्वाऽवबोधरूपात् मोक्षो = निखिलकर्मनिर्मुक्तिलक्षणः, चशब्दः उक्तसमुच्चये, इतिशब्दोऽत्र लुप्तो द्रष्टव्यस्तेन इतिवचनम् = एतदर्थप्रतिपादनम् । किमित्याह- सर्वमेव = निरवशेषमेव, औपचारिक = काल्पनिकमपारमार्थिकमित्यापन्नम्, अभ्युपगम्यते चोर्ध्वगतिर्धर्मादित्यादि साङ्ख्यैः । आह च ईश्वर४ न संमवे. (विभुत्वेन च संसारः कल्पितः भावो श६. मानवाना पहले 'विभुत्वे न च संसारः' આ મુજબ શાબ્દિક આનુપૂર્વી સ્વીકારીને પ્રસ્તુત અર્થઘટન થઈ શકે છે.) અને આત્માને વિભુ માનવા છતાં જો સંસાર સંભવી શકતો હોય તો તે સંસાર કાલ્પનિક જ હોય, વાસ્તવિક ન જ હોય. આ બાબતમાં કોઈ સંદેહ જ નથી. - આ પ્રમાણે બીજી રીતે પણ અર્થયોજના કરી શકાય છે.
માટે તો શ્રી અષ્ટકજીમાં હરિભદ્રસૂરીશ્વરજી મહારાજે જણાવેલ છે કે “એકાન્તનિત્ય હોવાથી જ આત્માનો શરીર જોડે સંબંધ સંભવતો નથી. તથા નૈયાયિકમાન્ય આત્મા સર્વવ્યાપી હોવાથી અકલ્પિત = वास्तवि: संसार ५९ संभव नह.' (८/१७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org