________________
५८६ • विन्ध्यवासिमतमीमांसा •
द्वात्रिंशिका-८/१७ परः शङ्कतेकृष्णः- “धर्मेण गमनमूर्ध्वं, गमनमधस्ताद् भवत्यधर्मेण । ज्ञानेन चापवर्गो, विपर्ययादिष्यते बन्धः ।। (साङ्ख्यकारिका-४४)” तथा “पञ्चविंशतितत्त्वज्ञो, यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः ।।"( ) इति 6 (अष्टक.प्र १४/६ वृत्ति) इति। ततश्च → अतति = सातत्येन सर्वत्र गच्छतीति आत्मा (ऐ.आ.सा.भा.२/४/१/२१) इति ऐतरेयारण्यकसायणभाष्योक्तात्मपदव्युत्पत्तिरपि न सङ्गच्छेत । इत्थञ्च 'स्वविषमूर्छितो भुजङ्गम आत्मानमेव दशति' इति न्यायोऽत्र प्रसरति ।
अथ विभुत्वेन संसरणाऽभावेऽपि यदोर्ध्वलोके स्वहेतोरेव भोगाऽऽयतनमस्य भवति तदोर्ध्वगतिरपदिश्यते यदा त्वधस्तदाऽधोगतिरित्येवं भोगाऽऽयतनद्वारेणोर्ध्वगत्यादिरात्मनो भविष्यतीत्याशङ्कायामाह अष्टकप्रकरणकारः → भोगाऽधिष्ठानविषयेऽप्यस्मिन् दोषोऽयमेव तु । तद्भेदादेव भोगोऽपि, निष्क्रियस्य कुतो भवेत् ?।। - (अ.प्र. १४/७) इति । तद्वृत्तिस्त्वेवम् → भोगो = विषयप्रतिभासिनो मनस आत्मनि स्फटिकोपाधिन्यायेन प्रतिबिम्बनम् । तथा चोक्तं विन्ध्यवासिना “पुरुषोऽविकृतात्मैव, स्वनिर्भासमचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा ।।"( ) स्वनिर्भासमिति स्वाकारवन्तं पुरुषं मनः कर्तृभूतं करोतीति। “ततश्चेदृक्परिणतौ, बुद्धौ भोगोऽस्य कथ्यते। प्रतिबिम्बोदयः स्वच्छे, यथा चन्द्रमसोऽम्भसि ।।” ( ) तस्य भोगस्याधिष्ठानमायतनं = भोगाधिष्ठानं यत्र बुद्ध्यहङ्कारेन्द्रियादौ प्रकृतिविकारे सति पुरुषस्य भोगो भवति तद् भोगाधिष्ठानं = शरीरम् । तद् विषयो यत्र संसारे स तथा । तत्रापि = भोगाधिष्ठानविषयेऽपि, न केवलं भोगायतनकल्पनारहिते इत्यपिशब्दार्थः, अस्मिन् इति संसारे दोषो = दूषणं अयमेव = एष एवानन्तरोदित ऊर्ध्वगत्यादिसंसाराऽपारमार्थिकत्वलक्षणः, यतो भोगाधिष्ठानं शरीरमेव, तेन च सह सम्बन्धो निष्क्रियत्वेनाऽऽत्मनो न युक्तः। तदभावात्तद्वारकः संसार औपचारिक एवेति । तुशब्दः पादपूरणे, तथा भोगाऽधिष्ठानकल्पनमसङ्गतमेव, भोगस्यैवात्मनोऽयुज्यमानत्वादित्येतदाह, तभेदादेवेति । इह तच्छब्देन क्रिया परामृश्यते, ततः क्रियाभेदादेव क्रियाविशेषत्वादेव भोगस्य, भोगो हि क्रियाविशेष एव। अतः भोगोऽपि = विषयोपभोगोऽपि, न केवलं भोगाधिष्ठानविषयः संसार इत्यपिशब्दार्थः, निष्क्रियस्य = सकलक्रियाकलापविप्रहीणस्यात्मनः कुतः = कस्माद्धेतोः भवेत् = जायेत? न कुतोऽपीति भावः - (अ.प्र.१४/७ वृत्ति)। गगनरोमन्थन्यायाक्रान्तप्रतिबिम्बभोगवादाऽपाकरणं विस्तरतस्तु पातञ्जलयोगलक्षणद्वात्रिंशिकायां करिष्यामः (द्वा.द्वा.११/२२-२७,भा.३,पृ.७९२-८११) तथापि प्रकृते → अह अण्णे सुखदुक्खे अण्णो आतत्ति अणुहवो कस्स ?। आबाललोगसिद्धो ? तप्पडिबिंबातो तस्सेव ।। फलिहमणिस्साऽलत्तगजोगातो रत्तयव्व एयंपि । तस्सेव तहापरिणाम-विरहतो सव्वहाऽ(न?)जुत्तं ।। तस्स य तहपरिणामे परिणामित्तं पसज्जती तह य । ल्हायादि सहावत्ता तद्धम्मत्तं सुहादीणं ।। सुहदुक्खे सातेतरकम्मोदयजे जिणेहि पण्णत्ते । आयपरिणामरूवे ऊहाविन्नाणगम्मे त्ति ।। एवं अणुहवसिद्धो घडपडसंवेदणादिभेदोऽवि । एगंतणिच्चपक्खे न संगतो बंध-मोक्खो य ।। ण य णाणं णाणिस्सा एगंतेणेव जुज्जते अण्णं । पडिवत्तादी ण तओ तस्स हवेज्जा जहऽन्नस्स ।।
( (धर्म.सं.२१४-२१९) इति धर्मसङ्ग्रहणिवचनानि विभावनीयानि जिज्ञासुभिः ।।८/१७ ।। ગ્રંથકારશ્રી નૈયાયિકની શંકા રજૂ કરીને તેનું નિરાકરણ કરવા માટે કહે છે કે –
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org