Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 339
________________ • सन्तानभेदजनकस्य हिंसकत्वविचारः • ६०२ विकल्प्याऽऽद्ये दोषमाह न च सन्तानभेदस्य जनको हिंसको मतः । सांवृतत्वादजन्यत्वाद् भावत्वनियतं हि तत् ।। २१ ।। न चेति । न च सन्तानभेदस्य हिंस्यमार्नशूकरक्षणसन्तानच्छेदेनोत्पत्स्यमानमनुष्यादिक्षणसन्तानस्य जनको लुब्धकादि: हिंसको (मतः ) भवेत्, तद्विसदृशसन्तानोत्पादकत्वेनैव तद्धिंसकत्वसन्तानस्य क्षणस्य वा ? इति विकल्पयामलमुपतिष्ठते । ग्रन्थकारो निरुक्तरीत्या विकल्प्य आ 'सन्तानस्य जनक एव हिंसक' इति विकल्पे दोषमाह 'न चे 'ति । इयमपि कारिका अध्यात्मसारे (अ.सा. १२/३४) ग्रन्थकृतोपदर्शिता । = इदञ्चात्राऽवधेयम्- सौगततन्त्रे द्विविधा सन्तानाऽपराभिधाना सन्ततिरभ्युपगम्यते सभागा विसभागा च । समानाः = सदृशाः भागाः सान्तानिकाः यस्याः सा सन्ततिः सभागा, विसदृशसान्तानिका च विभागा । प्रकृते विसभागसन्ततिजनकस्य हिंसकत्वं प्रथमविकल्पाऽभ्युपगतं निराकर्तुमभिप्रेतम् । तदुक्तं बौद्धमतनिराकरणप्रसङ्गे अष्टकेऽपि न च सन्तानभेदस्य, जनको हिंसको भवेत् । सांवृतत्वान्न जन्यत्वं, यस्मादस्योपपद्यते ।। ← (अ.प्र. १५ / ४ ) इति । तद्वृत्तिस्तु न च = नैव भ इति भेदः सन्तानश्चासौ भेदश्च सन्तानभेदः तस्य सन्तानभेदस्य क्षणप्रवाहविशेषस्य हिंस्यमानहरिणक्षणसन्तानच्छेदेनोत्पत्स्यमानमनुष्यादिक्षणसन्तानस्य, जनकः = उत्पादको लुब्धकादिः हिंसको हिंसाकारी भवेत् = जायेत । कुत एतदित्याह, संवृतौ = कल्पनायां भवः = सांवृतः, तस्य भावस्तत्त्वं तस्मात्, न = नैव जन्यत्वं उत्पादनीयत्वं यस्मात् कारणात् अस्य = सन्तानभेदस्य उपपद्यते घटते । प्रयोगश्चैवम्- यज्जन्यं न भवति तस्य जनको नास्ति वियदम्भोजस्येव । अजन्यश्च सन्तानभेद इति न तस्य जनकोऽस्ति । तदभावाच्च हिंसकाऽभावः । न चाजन्यत्वं सन्तानस्यासिद्धम्, सांवृतत्वात्। यत्सांवृतं तदजन्यं वियदिन्दीवरवत् । सांवृतश्च सन्तान इत्यजन्यः, सांवृतत्वं च सन्तानस्य सन्तानिभ्यो भेदाऽभेदविकल्पद्वारेण चिन्त्यमानस्याऽयुज्यमानत्वादिति ← (अ.प्र. १५ / ४ वृत्ति) । किञ्च निर्हेतुके नाशे, हिंसकत्वं न युज्यते । व्यापाद्यते सदा यस्मान्न कश्चित् केनचित् क्वचित् ।। ← (शा.वा.स. ६ /१२ ) इति । अध्यात्मोपनिषदि च अनित्यैकान्तपक्षेऽपि हिंसादिकमसङ्गतम् । स्वतो विनाशशीलानां क्षणानां नाशकोऽस्तु कः ? ।। ← (अ.उप. १ / ५६ ) इत्युक्तम् । तदुक्तं शास्त्रवार्तासमुच्चयेऽपि ⇒ = = = द्वात्रिंशिका-८/२१ = १. हस्तादर्शे 'शूकीय...' इति पाठः । हस्तादर्शान्तरे च 'शूकिण' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only = ગાથાર્થ :- વિશેષ પ્રકારના સંતાનના જનકને તમે હિંસક માની શકતા નથી. કારણ કે સંતાન जौद्धमते अस्यनि छे. तेथी ते अन्य छे. ४न्यत्व = કાર્યત્વ તો ભાવત્વને વ્યાપ્ય છે, ભાવત્વને व्यायीने रहेनार छे. (८/२१) ટીકાર્થ :- શિકારી ભૂંડને બાણ મારે ત્યારે ભૂંડક્ષણની જે ધારા = ભૂંડસંતતિ ચાલી રહી હતી તેનો ઉચ્છેદ થાય અને મનુષ્યક્ષણ-મનુષ્યક્ષણપ્રવાહ = મનુષ્યસંતતિ ઉત્પન્ન થાય તો (અર્થાત્ લોકવ્યવહારની ભાષામાં શિકારી દ્વારા હણાતું ભૂંડ મરીને માણસ બને તો) શિકારી મનુષ્યક્ષણ-સંતતિનો જનક હોવાથી તે શિકારી ભૂંડક્ષણનો નાશક = હિંસક થાય છે. કારણ કે ‘ભૂંડસંતતિથી વિલક્ષણ એવી મનુષ્યસંતતિનો www.jainelibrary.org

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372