________________
• सन्तानभेदजनकस्य हिंसकत्वविचारः •
६०२
विकल्प्याऽऽद्ये दोषमाह
न च सन्तानभेदस्य जनको हिंसको मतः । सांवृतत्वादजन्यत्वाद् भावत्वनियतं हि तत् ।। २१ ।। न चेति । न च सन्तानभेदस्य हिंस्यमार्नशूकरक्षणसन्तानच्छेदेनोत्पत्स्यमानमनुष्यादिक्षणसन्तानस्य जनको लुब्धकादि: हिंसको (मतः ) भवेत्, तद्विसदृशसन्तानोत्पादकत्वेनैव तद्धिंसकत्वसन्तानस्य क्षणस्य वा ? इति विकल्पयामलमुपतिष्ठते । ग्रन्थकारो निरुक्तरीत्या विकल्प्य आ 'सन्तानस्य जनक एव हिंसक' इति विकल्पे दोषमाह 'न चे 'ति । इयमपि कारिका अध्यात्मसारे (अ.सा. १२/३४) ग्रन्थकृतोपदर्शिता ।
=
इदञ्चात्राऽवधेयम्- सौगततन्त्रे द्विविधा सन्तानाऽपराभिधाना सन्ततिरभ्युपगम्यते सभागा विसभागा च । समानाः = सदृशाः भागाः सान्तानिकाः यस्याः सा सन्ततिः सभागा, विसदृशसान्तानिका च विभागा । प्रकृते विसभागसन्ततिजनकस्य हिंसकत्वं प्रथमविकल्पाऽभ्युपगतं निराकर्तुमभिप्रेतम् । तदुक्तं बौद्धमतनिराकरणप्रसङ्गे अष्टकेऽपि न च सन्तानभेदस्य, जनको हिंसको भवेत् । सांवृतत्वान्न जन्यत्वं, यस्मादस्योपपद्यते ।। ← (अ.प्र. १५ / ४ ) इति । तद्वृत्तिस्तु न च = नैव भ इति भेदः सन्तानश्चासौ भेदश्च सन्तानभेदः तस्य सन्तानभेदस्य क्षणप्रवाहविशेषस्य हिंस्यमानहरिणक्षणसन्तानच्छेदेनोत्पत्स्यमानमनुष्यादिक्षणसन्तानस्य, जनकः = उत्पादको लुब्धकादिः हिंसको हिंसाकारी भवेत् = जायेत । कुत एतदित्याह, संवृतौ = कल्पनायां भवः = सांवृतः, तस्य भावस्तत्त्वं तस्मात्, न = नैव जन्यत्वं उत्पादनीयत्वं यस्मात् कारणात् अस्य = सन्तानभेदस्य उपपद्यते घटते । प्रयोगश्चैवम्- यज्जन्यं न भवति तस्य जनको नास्ति वियदम्भोजस्येव । अजन्यश्च सन्तानभेद इति न तस्य जनकोऽस्ति । तदभावाच्च हिंसकाऽभावः । न चाजन्यत्वं सन्तानस्यासिद्धम्, सांवृतत्वात्। यत्सांवृतं तदजन्यं वियदिन्दीवरवत् । सांवृतश्च सन्तान इत्यजन्यः, सांवृतत्वं च सन्तानस्य सन्तानिभ्यो भेदाऽभेदविकल्पद्वारेण चिन्त्यमानस्याऽयुज्यमानत्वादिति ← (अ.प्र. १५ / ४ वृत्ति) । किञ्च निर्हेतुके नाशे, हिंसकत्वं न युज्यते । व्यापाद्यते सदा यस्मान्न कश्चित् केनचित् क्वचित् ।। ← (शा.वा.स. ६ /१२ ) इति । अध्यात्मोपनिषदि च अनित्यैकान्तपक्षेऽपि हिंसादिकमसङ्गतम् । स्वतो विनाशशीलानां क्षणानां नाशकोऽस्तु कः ? ।। ← (अ.उप. १ / ५६ ) इत्युक्तम् ।
तदुक्तं शास्त्रवार्तासमुच्चयेऽपि
⇒
=
=
=
द्वात्रिंशिका-८/२१
=
१. हस्तादर्शे 'शूकीय...' इति पाठः । हस्तादर्शान्तरे च 'शूकिण' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
=
ગાથાર્થ :- વિશેષ પ્રકારના સંતાનના જનકને તમે હિંસક માની શકતા નથી. કારણ કે સંતાન जौद्धमते अस्यनि छे. तेथी ते अन्य छे. ४न्यत्व = કાર્યત્વ તો ભાવત્વને વ્યાપ્ય છે, ભાવત્વને व्यायीने रहेनार छे. (८/२१)
ટીકાર્થ :- શિકારી ભૂંડને બાણ મારે ત્યારે ભૂંડક્ષણની જે ધારા = ભૂંડસંતતિ ચાલી રહી હતી તેનો ઉચ્છેદ થાય અને મનુષ્યક્ષણ-મનુષ્યક્ષણપ્રવાહ = મનુષ્યસંતતિ ઉત્પન્ન થાય તો (અર્થાત્ લોકવ્યવહારની ભાષામાં શિકારી દ્વારા હણાતું ભૂંડ મરીને માણસ બને તો) શિકારી મનુષ્યક્ષણ-સંતતિનો જનક હોવાથી તે શિકારી ભૂંડક્ષણનો નાશક = હિંસક થાય છે. કારણ કે ‘ભૂંડસંતતિથી વિલક્ષણ એવી મનુષ્યસંતતિનો
www.jainelibrary.org