Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 323
________________ ५८६ • विन्ध्यवासिमतमीमांसा • द्वात्रिंशिका-८/१७ परः शङ्कतेकृष्णः- “धर्मेण गमनमूर्ध्वं, गमनमधस्ताद् भवत्यधर्मेण । ज्ञानेन चापवर्गो, विपर्ययादिष्यते बन्धः ।। (साङ्ख्यकारिका-४४)” तथा “पञ्चविंशतितत्त्वज्ञो, यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः ।।"( ) इति 6 (अष्टक.प्र १४/६ वृत्ति) इति। ततश्च → अतति = सातत्येन सर्वत्र गच्छतीति आत्मा (ऐ.आ.सा.भा.२/४/१/२१) इति ऐतरेयारण्यकसायणभाष्योक्तात्मपदव्युत्पत्तिरपि न सङ्गच्छेत । इत्थञ्च 'स्वविषमूर्छितो भुजङ्गम आत्मानमेव दशति' इति न्यायोऽत्र प्रसरति । अथ विभुत्वेन संसरणाऽभावेऽपि यदोर्ध्वलोके स्वहेतोरेव भोगाऽऽयतनमस्य भवति तदोर्ध्वगतिरपदिश्यते यदा त्वधस्तदाऽधोगतिरित्येवं भोगाऽऽयतनद्वारेणोर्ध्वगत्यादिरात्मनो भविष्यतीत्याशङ्कायामाह अष्टकप्रकरणकारः → भोगाऽधिष्ठानविषयेऽप्यस्मिन् दोषोऽयमेव तु । तद्भेदादेव भोगोऽपि, निष्क्रियस्य कुतो भवेत् ?।। - (अ.प्र. १४/७) इति । तद्वृत्तिस्त्वेवम् → भोगो = विषयप्रतिभासिनो मनस आत्मनि स्फटिकोपाधिन्यायेन प्रतिबिम्बनम् । तथा चोक्तं विन्ध्यवासिना “पुरुषोऽविकृतात्मैव, स्वनिर्भासमचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा ।।"( ) स्वनिर्भासमिति स्वाकारवन्तं पुरुषं मनः कर्तृभूतं करोतीति। “ततश्चेदृक्परिणतौ, बुद्धौ भोगोऽस्य कथ्यते। प्रतिबिम्बोदयः स्वच्छे, यथा चन्द्रमसोऽम्भसि ।।” ( ) तस्य भोगस्याधिष्ठानमायतनं = भोगाधिष्ठानं यत्र बुद्ध्यहङ्कारेन्द्रियादौ प्रकृतिविकारे सति पुरुषस्य भोगो भवति तद् भोगाधिष्ठानं = शरीरम् । तद् विषयो यत्र संसारे स तथा । तत्रापि = भोगाधिष्ठानविषयेऽपि, न केवलं भोगायतनकल्पनारहिते इत्यपिशब्दार्थः, अस्मिन् इति संसारे दोषो = दूषणं अयमेव = एष एवानन्तरोदित ऊर्ध्वगत्यादिसंसाराऽपारमार्थिकत्वलक्षणः, यतो भोगाधिष्ठानं शरीरमेव, तेन च सह सम्बन्धो निष्क्रियत्वेनाऽऽत्मनो न युक्तः। तदभावात्तद्वारकः संसार औपचारिक एवेति । तुशब्दः पादपूरणे, तथा भोगाऽधिष्ठानकल्पनमसङ्गतमेव, भोगस्यैवात्मनोऽयुज्यमानत्वादित्येतदाह, तभेदादेवेति । इह तच्छब्देन क्रिया परामृश्यते, ततः क्रियाभेदादेव क्रियाविशेषत्वादेव भोगस्य, भोगो हि क्रियाविशेष एव। अतः भोगोऽपि = विषयोपभोगोऽपि, न केवलं भोगाधिष्ठानविषयः संसार इत्यपिशब्दार्थः, निष्क्रियस्य = सकलक्रियाकलापविप्रहीणस्यात्मनः कुतः = कस्माद्धेतोः भवेत् = जायेत? न कुतोऽपीति भावः - (अ.प्र.१४/७ वृत्ति)। गगनरोमन्थन्यायाक्रान्तप्रतिबिम्बभोगवादाऽपाकरणं विस्तरतस्तु पातञ्जलयोगलक्षणद्वात्रिंशिकायां करिष्यामः (द्वा.द्वा.११/२२-२७,भा.३,पृ.७९२-८११) तथापि प्रकृते → अह अण्णे सुखदुक्खे अण्णो आतत्ति अणुहवो कस्स ?। आबाललोगसिद्धो ? तप्पडिबिंबातो तस्सेव ।। फलिहमणिस्साऽलत्तगजोगातो रत्तयव्व एयंपि । तस्सेव तहापरिणाम-विरहतो सव्वहाऽ(न?)जुत्तं ।। तस्स य तहपरिणामे परिणामित्तं पसज्जती तह य । ल्हायादि सहावत्ता तद्धम्मत्तं सुहादीणं ।। सुहदुक्खे सातेतरकम्मोदयजे जिणेहि पण्णत्ते । आयपरिणामरूवे ऊहाविन्नाणगम्मे त्ति ।। एवं अणुहवसिद्धो घडपडसंवेदणादिभेदोऽवि । एगंतणिच्चपक्खे न संगतो बंध-मोक्खो य ।। ण य णाणं णाणिस्सा एगंतेणेव जुज्जते अण्णं । पडिवत्तादी ण तओ तस्स हवेज्जा जहऽन्नस्स ।। ( (धर्म.सं.२१४-२१९) इति धर्मसङ्ग्रहणिवचनानि विभावनीयानि जिज्ञासुभिः ।।८/१७ ।। ગ્રંથકારશ્રી નૈયાયિકની શંકા રજૂ કરીને તેનું નિરાકરણ કરવા માટે કહે છે કે – Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372