Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 332
________________ • नैयायिकमते गौरवम् ५९५ तथा (च), आत्मनः क्रियां विना नियतशरीराऽनुप्रवेशाऽनभ्युपगमे सर्वेषां शरीराणां संयोगाऽविशेषेण सर्वभोगाऽवच्छेदकत्वाऽऽपत्तिभिया तदात्मभोगे तदीयाऽदृष्टविशेषप्रयोज्यसंयोगभेदादिकल्पनाऽपि कथं युज्यते ? • २०, शर.१८) इति पारमात्मिकोपनिषत्-श्वेताश्वतरोपनिषत्-कठोपनिषत् शरभोपनिषदां वचनं, अणीयान् व्रीहेर्वा यवाद्वा ← (छां.उ. ३/१४/३) इति छान्दोग्योपनिषद्वचनं, अणोरणीयानहमेव ← (कै.२०) इति कैवल्योपनिषद्वचनं, एषोऽणुरात्मा ← (मुं.३/१/९) इति च मुण्डकोपनिषद्वचनं परेषामनुपपन्नमेव । ततश्च व्यक्त्या सङ्कोच - विकासशाली देहव्यापक एवात्माऽभ्युपगन्तुमर्हति । यथोक्तं पञ्चलिङ्गिप्रकरणे सो वि य संकोय-विकाससंगओ देहवावगो नियमा । भोगायणेणवि तस्स हंदि जोगो समो इहरा ।। ← (पं.लि. ८३ ) इति । ततश्च द्रव्यतो व्यक्त्या आत्मवैभवसाधनं पाटच्चरविलुण्टिते वेश्मनि यामिकजागरणन्यायमनुसरति । किञ्चात्मनो विभुत्वे स्वस्मिन् क्रियादिप्रतीतिः, तीर्थगमनादेरदृष्टहेतुत्व श्रवणादिकं च कथमुपपादनीयम् ? आत्मनो विभुत्वकल्पने च ज्ञानादीनामव्याप्यवृत्तित्वकल्पनागौरवमप्यतिरिच्यत इत्यधिकमस्मत्कृतभानुमत्याम् ( न्यायालोकटीका प्र.१/पृ.७९ टीका) । आत्मनो निष्क्रियत्वे दोषान्तरमाह 'तथे 'ति । नैयायिकैरात्मनि क्रिया नाभ्युपगम्यते । तां विना च नियतशरीराऽनुप्रवेशोऽपि नाऽभ्युपगन्तुं शक्यते । ततश्च स्वसंयुक्तत्वसम्बन्धेन सर्वे एव देहाः सर्वेषामात्मनां साधारणा एवात्मविभुत्वपक्षे । एवञ्च शरीरस्य भोगायतनत्वराद्धान्तात् सर्वाण्येव शरीराणि सर्वेषामेवात्मनां भोगाऽऽयतनानि = सुख-दुःखान्यतरानुभवलक्षणभोगाऽवच्छेदकानि स्युः । तथा च सर्वेषामेवात्मनां भोगे सर्वेषामेव शरीराणामवच्छेदकविधया कारणत्वाऽऽपत्तिरपरिहार्या । तद्भिया = तद्भयनिवारणकृते च नैयायिकैः ‘समवायसम्बन्धेन तदात्मभोगत्वाऽवच्छिन्नं प्रति तदीयाऽदृष्टविशेषप्रयोज्यसंयोगविशेषसम्बन्धेन शरीरस्य कारणते 'ति वक्तव्यं स्यात् । परन्तु तदात्मभोगे = तदात्मसमवेतसुख-दुःखान्यतराऽनुभवं प्रति तदीयाऽदृष्टविशेषप्रयोज्यसंयोगभेदादिकल्पनाऽपि = कारणताऽवच्छेदकसम्बन्धविधया तदात्मसमवेत-शरीराऽऽरम्भक-विजातीयाऽदृष्टप्रयोज्यविलक्षणसंयोगादिस्वीकृतिरपि कथं केन प्रकारेण युज्यते ? नैव सङ्गच्छत इत्यर्थः । तदयुक्तत्वं कथमिति चेत् ? उच्यते, आत्मनो विभुत्वेऽपि तच्छरी = तथा । तेभ ४ खात्माने सर्वथा नित्य भने विलु मानवामां मेड जील तडसीई से छे उ સર્વવ્યાપી આત્મામાં ક્રિયા નહિ થઈ શકવાથી ‘અમુક ચોક્કસ શરીરમાં જ આત્માનો (પાણી દૂધમાં ભળે તે રીતે) પ્રવેશ થયો છે, અન્ય શરીરમાં નહિ.' આવું સ્વીકારી શકાતું નથી. તથા આત્મા તો નૈયાયિક મતે સર્વવ્યાપી હોવાથી તમામ શરીરો સાથે આત્માનો સંયોગ તો એકસરખો જ છે. તેથી બધા જ શરીરો ભોગાવચ્છેદક બની જવાની સમસ્યા આવશે. અર્થાત્ એક જ દેહમાં સુખ-દુઃખનો ભોગવટો આત્મા નહિ કરી શકે પરંતુ તમામ દેહમાં એક જ આત્માને સુખ-દુઃખનો અનુભવ થવાની સમસ્યા સર્જાશે. કારણ કે, વિવક્ષિત શરીરની જેમ બાકીના તમામ શરીરો સાથે સર્વવ્યાપી આત્માનો સંયોગ તો સરખો જ છે. (તેથી નારકશ૨ી૨અવચ્છેદેન જે આત્માને દુઃખાનુભવ થતો હશે તે જ આત્માને દેવશરીરાવચ્છેદેન તે જ સમયે સુખાનુભવ થવા લાગશે. આત્માને વિભુ માનવામાં આ સૌથી મોટો ભય છે.) સર્વશ૨ી૨ાવચ્છેદેન સુખ-દુઃખ અનુભવ થવાની સમસ્યાના ભયથી જો નૈયાયિક એમ કહે Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372