________________
५६८ • अर्थव्यवस्थायां प्रमाणं प्रयोजकं न तु तल्लक्षणम् • द्वात्रिंशिका-८/१२
वैद्यके' रोगादिलक्षणवद् व्याकरणादौ शब्दादिवच्च व्यवस्थोपपत्तेः, तत्रापि सम्मुग्धव्यवहारमाश्रित्य लक्षणैरेव व्युत्पादनादिति” (किरणावली-पृथिवीवैधर्म्यनिरूपण-पृष्ठ-१२३) ।
स त्वत्र न शोभते, यतो वयं प्रमाणस्याऽर्थव्यवस्थापकत्वे व्यवहारव्यवस्थापकत्वे वा लक्षणं वदित्यर्थः व्यवस्थोपपत्तेः । यथा चरकसंहिताया अम्लोद्गार-मुखदुर्गन्धादेरजीर्णलक्षणत्वाऽवगमेऽजीर्णगतयाथातथ्यलक्षणनिर्णयकृते चिकित्साशास्त्रान्तरगवेषणेनाऽनवस्था नाऽऽपद्यते वैद्यकवचनप्रामाण्यादेव रोगलक्षणप्रामाण्याऽवगमात् तथा प्रकृतेऽपि लोकव्यवहारात्प्रमाणलक्षणबोधे प्रमाणाऽन्तरगवेषणेनानवस्था नैव प्रसज्यते, प्रमाणलक्षणप्रतिपादकशास्त्रप्रामाण्यादेव प्रमाणलक्षणप्रामाण्यावगमादिति भावः ।
उदयनाचार्य उदाहरणान्तरेणैतद्विशदयति- व्याकरणादौ शब्दादिवच्च = व्याकरणाद्युक्तप्रातिपदिकादिलक्षणवच्च व्यवस्थोपपत्तेः । यथा प्रातिपदिक-प्रयोगसाधुत्वाऽसाधुत्वादिके व्याकरणादवगते तद्व्याकरणदर्शितशब्दप्रयोगसाधुत्वादिनिर्णयकृते व्याकरणान्तरं नायितव्यमिति यद्वा ‘सुप्तिङन्तं पदमिति (पा.१ । ४।१४) पाणिनिव्याकरणसूत्रात्पदलक्षणावगमे तन्निश्चयकृते व्याकरणान्तरं नैवापेक्षितव्यमिति नानवस्था तद्वत्प्रकृतेऽपि बोध्यम् । तत्रापि = व्याकरणादावपि सम्मुग्धव्यवहारमाश्रित्य = वैयाकरणेतरकृत-प्रसिद्धनानाविधशब्दप्रयोगमवलम्ब्य लक्षणैरेव व्युत्पादनात् = तथा प्रतिपादनात् । यथा प्रसिद्धलौकिकशब्दप्रयोगमुपजीव्य व्याकरणे पद-वाक्यादिकं तत्तल्लक्षणैः केवलं व्युत्पाद्यते इति नानवस्था एवमेव प्रकृते नाऽनवस्थाप्रसङ्ग इत्यनुषज्यते । वर्धमानस्तु ‘तच्छास्त्रादेव ज्ञातेन धर्मेण तत्र व्यवस्था स्यादेवेति नानवस्था' (कि.प्र.पृ.१९९) इत्याह । साम्प्रतं किरणावल्यां मुद्रितप्रतौ 'तत्रापि सम्बन्धव्यवहारमाश्रित्य लक्षणेनैव व्युत्पत्तिः' (किर.पृ.१२३) इति पाठो लभ्यते इति ध्येयम्।
स = उदयनाचार्यापादितोपालम्भः तु अत्र = जैनदर्शने न शोभते यतः = यस्मात्कारणात् वयं स्याद्वादिनः “प्रमाणमर्थव्यवस्थापकं तद्व्यवहारस्थापकञ्च, प्रमाणस्य अर्थव्यवस्थापकत्वे = प्रतिनियतपदार्थस्वरूपादिव्यवस्थाकारित्वे व्यवहारव्यवस्थापकत्वे वा = प्रातिस्विकपदार्थगोचरव्यवहारव्यवस्थाकारित्वे પદ વગેરેના લક્ષણને નિશ્ચાયક માનવામાં અનવસ્થા દોષ નથી આવતો. તેમ પ્રસ્તુતમાં પણ સમજવું. (કહેવાનો આશય એ છે કે રોગનું જે લક્ષણ ચરકસંહિતામાં બતાવેલ છે તેના નિશ્ચય માટે આર્યભિષકુ વગેરે અન્ય વૈદ્યકશાસ્ત્રની જરૂર પડતી નથી. એક વૈદ્યકશાસ્ત્રમાં જણાવેલ તે તે રોગના તથાવિધ લક્ષણ દ્વારા તે તે રોગનો निश्चय 25 : . व्या४२९१मा ४९ue 'विभक्त्यन्तं पदम्' ॥ सूत्र द्वा२॥ ५६नी व्यवस्था 25 3 . તેના નિર્ણય માટે અન્ય વ્યાકરણની જરૂર પડતી નથી. માટે અનવસ્થા આવતી નથી.) વ્યાકરણશાસ્ત્રનું મોટું જોયા વગર સામાન્ય લોકોમાં વિભક્તિ, પદ, વાક્ય વગેરેના પ્રયોગો થતા હોય છે. તેનો આધાર-આશ્રય લઈને તથાવિધ વિશેષ લક્ષણો દ્વારા લોકવ્યવહારનું વ્યુત્પાદન કરાય છે. તે જ રીતે પ્રસ્તુતમાં લોકોમાં પ્રચલિત થયેલ = લોકપ્રસિદ્ધ સંમુગ્ધ વ્યવહારનો આશ્રય કરીને પ્રમાણના લક્ષણ દ્વારા લોકમાં પ્રમાણનું વ્યુત્પાદન કરાય છે. તે રીતે અર્થનો-પદાર્થનો નિશ્ચય કરવામાં અનવસ્થા આવવાની કોઈ શક્યતા નથી.
ઉદયનાચાર્યના આક્ષેપનું નિરાક્રણ જ स त्वत्र. । अन्थ२श्री
यनायार्य द्वारा ४२वामां मावेल माक्षे५ नो सामे शोभास्प६ १. किरणावल्यां 'वैद्यकादौ' इति पाठो वर्तते । २. हस्तादर्श 'व्यवस्थापकत्वे' इति पाठः त्रुटितः । हस्तादर्शान्तरे च 'व्यवहारव्यवस्थापकत्वे' इति पाठो नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org