Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• निषिद्धनिवृत्तिफलपरामर्शः .
४८३ ____वस्तुतो निषिद्धनिवृत्तिर्न धर्मजननी किन्त्वधर्माऽभावप्रयोजिका, निषिद्धप्रवृत्तेरधर्महेतुत्वेन तद
भावे तदनुत्पत्तेः । निवृत्तिपदं चाऽत्र पारिव्राज्यपरमेव, सर्वकर्मसन्न्यासरूपस्य तस्य महाफलत्वोपपत्तेरिति न कोऽप्यत्र दोषः इति चेत् ?
ननु 'प्रसक्तं प्रतिषिध्यते' इति न्यायादत्यन्ताभावे आरोपितप्रसङ्गस्यैव निषेधः क्रियते इति 'हृदे वह्निः स्यात्तर्हि उपलभ्येते'ति प्रसक्तिं सम्पाद्य = आरोप्य तत्र तत्प्रतिषेधान्न तत्र तत्सिद्धिप्रसङ्ग इत्याशङ्कायामाह - 'वस्तुत' इति । निषिद्धनिवृत्तिः = शास्त्रनिषिद्धप्रतियोगिकनिवृत्तिः न धर्मजननी किन्तु कारणाऽभावविधया अधर्माभावप्रयोजिका, तदभावे = निषिद्धप्रवृत्तिविरहे तदनुत्पत्तेः = अधर्मोत्पत्त्यसम्भवात् । न हि कारणमृते कार्यजन्म स्यात्, कार्यकारणभावभङ्गाऽऽपातात् । न चैवं निवृत्तेमर्दाफलत्वबोधिका स्मृतिर्बाधिता स्यात्, धर्माऽनर्जने महाफलत्वानुपपत्तेरिति शङ्कनीयम्, यतो निवृत्तिपदं च अत्र = 'निवृत्तिस्तु महाफला' इत्यत्र पारिव्राज्यपरमेव = पारिव्राज्यबोधजननेच्छयैवोच्चरितम् । न च निवृत्तिपदस्य पारिव्राज्यपरत्वं कुतोऽवगतमिति शङ्कनीयम्, शास्त्रादेव तदवगमात् । तथाहि →
वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ।। फलमूलाशनैर्मेध्यैर्मुन्यन्नानां च भोजनैः । न तत्फलमवाप्नोति यन्मांसपरिवर्जनात् ।।
- (मनु.५/५३-५४) इति मनुस्मृतिवचनात् यावज्जीवं मांसभक्षणवर्जकस्य महाफलभाजनत्वावगमात्, गृहस्थतायां च यावदधिकारं प्रोक्षितमांसाऽभक्षणे प्रत्यवायस्य 'यथाविधि नियुक्तस्तु...' इत्यादिनोपदर्शनात् निवृत्तिपदस्य पारिव्राज्यपरकत्वमनाविलम् । निवृत्तिपदलक्ष्यीभूतस्य सर्वकर्मसंन्यासरूपस्य = सकलकाम्यादिकर्मनिवृत्तिरूपस्य तस्य = पारिवाज्यस्य महाफलत्वोपपत्तेरिति हेतोः न = नैव अत्र = निवृत्तिपदस्य पारिव्राज्यपरत्वमते 'न मांसभक्षणे दोष' इत्यत्र मांसभक्षणसामान्ये दोषाभावबाधलक्षणः प्रसक्तप्रतिषेधन्यायेन मांसभक्षणनिवृत्त्यसम्भवः प्रोक्षितमांसादननिवृत्तिनिमित्तकदुरितप्रचयार्जनात्मकः पारिव्राज्याभावे मांसभक्षणनिवृत्तिनैष्फल्यस्वरूपो वा कोऽपि दोषः सम्भवति इति चेत् ? માંસભક્ષણ પણ પ્રત્યક્ષ વગેરે પ્રમાણોથી પ્રસિદ્ધ છે. તેનો નિષેધ કરી તેની નિવૃત્તિ મહાફલવાળી છે.” -એમ મનુસ્મૃતિના “નિવૃત્તિસ્તુ મહાફલા” આ વચનનો તાત્પર્યાર્થ છે.)
નિષિદ્ધના ત્યાગમાં પાપનો અભાવ હ 'वस्तुतो.। वास्तवम तो निषिद्ध वस्तुनी निवृत्ति धनी = पुष्य वगैरेनी ४ नथी, परंतु अपना = પાપના અભાવની પ્રયોજક છે. કારણ કે શાસ્ત્રનિષિદ્ધ ચીજમાં પ્રવૃત્તિ કરવાથી પાપ બંધાતું હોવાથી તેની निवृत्ति द्वारा पानी निवृत्ति थवी स३४ छे. तेथी मनुस्मृतिना दोभा 'निवृत्तिस्तु महाफला' मा प्रभारी જે કહેલ છે તેનો અર્થ માંસભક્ષણની નિવૃત્તિ મહાફલવાળી છે એમ નથી. પરંતુ “પરિવ્રાજકપણું મહાફળવાળું છે.” આવો તેનો અર્થ છે. મતલબ કે નિવૃત્તિ’ શબ્દનો અર્થ માંસભક્ષણનિવૃત્તિ નહિ પણ સંસારની નિવૃત્તિ = સંન્યાસીપણું = દીક્ષિતપણું એમ સમજવું. પરિવ્રાજકપણું = સંન્યાસીપણું હિંસા-જૂઠ-ચોરી વગેરે સર્વ કર્મોના ત્યાગરૂપ હોવાથી તે સંન્યાસદશા મહાફલવાન છે” આવો અર્થ સ્વીકારવામાં કોઈ દોષ નથી. १. हस्तादर्श 'तदभव' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'सर्वकर्मन्यास...' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372