Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 237
________________ ५०२ • ब्रह्मचारिणोऽपि संन्यासाधिकारित्वम् • द्वात्रिंशिका-७/२१ तत् = तस्माद् 'वेदमधीत्य स्नायादेवे'त्यनवधारणाद् असावर्थो 'गृहस्थतां = कलत्रसङ्ग्रहलक्षणां हीनां = औत्सर्गिकमैथुनपरिहाराऽपेक्षया जघन्यामापवादिकी ब्रूते । तदुक्तंवेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ।। 6 (मनु.३/ २) इति मनुस्मृतौ अप्यध्याहृत एवकारोऽधीत्यपदोत्तरं योज्यः । याज्ञवल्क्यस्मृतौ तु → गुरवे तु वरं दत्त्वा स्नायाद्वा तदनुज्ञया। वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा ८ (या.व.आचाराध्याय १/५१) इत्येवं स्पष्टमेव वेद-व्रततदुभयान्यतमसमभिव्याहृत एवकारः कण्ठत उक्तः । ततश्चाऽऽकौमाराद्यतित्वपालनसहिष्णोस्संन्यासाश्रमोपादानमेव श्रेय इति द्योतितम् । इत्थमेव सहिष्णुमुद्दिश्य → अधीत्य च गुरोर्वेदान् वेदौ वा वेदमेव वा। गुरवे दक्षिणां दद्यात् संयमी ग्राममावसेत् ।। - (ल.हा.३/१०) इति लघुहारीतस्मृतिप्रतिपादितं सङ्गच्छेत । → वेदानधीत्यानुज्ञात उच्यते गुरुणाऽऽश्रमी 6 इति (कुं.१) इति कुण्डिकोपनिषद्यपि 'अधीत्य'पदोत्तरमेवकारोऽध्याहार्यः । वात्स्यायनेनाऽपि कामसूत्रे → ब्रह्मचर्यमेव त्वाऽऽविद्याग्रहणात् + (का.सू.२/६) इत्येवमेवकारोपदर्शनाद् ब्रह्मचर्यप्राधान्यमाविष्कृतम् । तदुक्तं जयमङ्गलाख्यायां तट्टीकायां यशोधरेणाऽपि → यावद् विद्या न गृह्यते तावत्कामं न सेवेत, अन्यथा ह्यधर्मः तद्ग्रहणविघाततः - (का.सू.२/६ ज.मं.) इत्युक्तम् । → भग्नशून्याऽमरौकःसु वासिनो ब्रह्मचिन्तकाः । एते परमहंसा वै नैष्ठिका ब्रह्मभिक्षवः ।। (बृ.परा.१२/१७३) इति बृहत्पराशरस्मृतेः, → निवृत्तिमार्ग-निष्कामकर्मणोः सर्वथा क्षमः । संन्यासधर्म एवाऽस्ति सर्वश्रेष्ठोऽत्र भूतले ।। - (सं.गी.५/३) इति संन्यासगीतायाः चाऽनुपपत्तेः 'वेदमधीत्य स्नायादेवे'त्यनवधारणात् । किञ्च यदि 'स्नायादेवे'त्यभिमतं स्यात, न स्यात्तदा ब्रह्मचर्याश्रम-वानप्रस्थाश्रमद्वयमात्रानन्तरं वैकल्पिकः चतुर्थाश्रमाङ्गीकारोपदेशः, प्रतिपादितश्च स “आश्रमत्रयधर्मान्वा चरित्वा प्राक् द्विजास्ततः । द्वयस्य वा ततः पश्चाच्चतुर्थाश्रममाचरेत् ।।" (बृ.परा.१२/१२०) इत्यादिना बृहत्पराशरस्मृतौ । परमहंसपरिव्राजकोपनिषदि → ब्रह्मचर्यं समाप्य गृही भवेत् । गृहाद् वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् + (पर.हं.१) इति यदुक्तं, यच्च → ब्रह्मचर्यं समाप्य गृही भवेत्, गृही भूत्वा वनी भवेत्, वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद् 6 (ना.परि.३/७६, जाबा.४/ १) इत्यादिना नारदपरिव्राजकोपनिषदि जाबालोपनिषदि चोक्तं तदपि औत्सर्गिमैथुनपरिहारापेक्षया गृहस्थतां जघन्यां आपवादिकी वृत्तिं ब्रूते । गृहस्थाश्रमस्याऽवश्यकरणीयत्वे तु → यदहरेव विरजेत् तदहरेव નથી. (અર્થાત્ “પત્નીનો સ્વીકાર કરવો હોય તો વેદોને ભણીને જ પત્ની નિમિત્તક સ્નાન કરવું. પત્નીનો સ્વીકાર ન કરવો હોય તો તગ્નિમિત્તક સ્નાન વેદપાઠ પછી પણ ન કરવામાં આવે તો તે ઉત્તમ જ છે.) આવા પ્રકારનો “જ' કારનો પ્રયોગ સૂચવે છે કે સંન્યાસ કે અખંડબ્રહ્મચર્યધારણની અપેક્ષાએ લગ્ન કરીને સંસાર માંડવો તે હીન જ છે. ઔત્સર્ગિક રીતે મૈથુનત્યાગ એ જ કર્તવ્ય છે. તેની અપેક્ષાએ લગ્ન કરવા, ગૃહસ્થાશ્રમ માંડવો તે નિમ્ન કક્ષાએ છે, આપવાદિતુલ્ય ભૂમિકામાં છે. १. हस्तादर्श 'गृहस्थ.' इति पाठः । २. 'जघन्यमा...' इत्यशुद्धः पाठो मुद्रितप्रतौ । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372