Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 294
________________ • अहिंसादीनां सर्वतन्त्रव्यापकत्वम् • ____५५७ अहिंसा सत्यमस्तेयं ब्रह्मचर्यमसङ्ग्रहः । यमास्तु कथिताश्चैते नियमानपि मे श्रुणु ।। सन्तोष-शौच-स्वाध्यायास्तपश्चेश्वरभावना । नियमाः कौरवश्रेष्ठ ! फलसंसिद्धिहेतवः ।। 6 (य.ध.सं.पृ.४१) इत्येवं विश्वेश्वरसरस्वत्योक्तम् । पातञ्जलयोगसूत्रे अपि → अहिंसा-सत्याऽस्तेयब्रह्मचर्यापरिग्रहा यमाः ८, (पा.यो.सू.२/३०) → शौच-सन्तोष-तपः-स्वाध्यायेश्वरप्रणिधानानि नियमाः 6 (पा.यो.सू.२/३२) इत्युक्तम् । एतेषां स्वरूपञ्चाग्रे (भा.५,पृ.१४२०,१४७६) वक्ष्यते । → अहिंसा सत्यमस्तेयं ब्रह्मचर्याऽपरिग्रहौ। यमाः - (कू.पु.२/११/१३) इति कूर्मपुराणे। याज्ञवल्क्यस्मृतौ तु → ब्रह्मचर्यं दया क्षान्तिर्दानं सत्यमकल्कता । अहिंसाऽस्तेयमाधुर्ये दमश्चेति यमाः स्मृताः ।। स्नानं मौनोपवासेज्या स्वाध्यायोपस्थनिग्रहाः । नियमा गुरुशुश्रूषा शौचाऽक्रोधप्रमादता ।। 6 (या.व.प्रायश्चि.३१२/३१३) इत्युक्तं यम-नियमस्वरूपम् । यम-नियमस्वरूपं मण्डलब्राह्मणोपनिषदि तु → शीतोष्णाऽऽहार-निद्राविजयः, सर्वदा शान्ति-निश्चलत्वे, विषयेन्द्रियनिग्रहश्चैते यमाः । गुरुभक्तिः सत्यमार्गाऽनुरक्तिः, मुखायातवस्त्वनुभवश्च, तद्वस्त्वनुभवेन तुष्टिः, निःसङ्गता, एकान्तवासो, मनोनिवृत्तिः, फलानभिलाषी वैराग्यभावश्च नियमाः - (मण्ड.१/१) इत्यावेदितम् । जाबालदर्शनोपनिषदि च → अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयाऽऽर्जवम् । क्षमा धृतिर्मिताहारः शौचं चैव यमा दश ।। तपः सन्तोषाऽऽस्तिक्यं दानमीश्वरपूजनम् । सिद्धान्तश्रवणञ्चैव ह्रीमतिश्च जपो व्रतम् ।। एते च नियमाः प्रोक्ताः । 6 (जाबा.२/१-२) इत्याधुक्तम् । वराहोपनिषदि अप्येवमेव यम-नियमस्वरूपमावेदितम् । शाण्डिल्योपनिषदि अपि → तत्राऽहिंसा सत्याऽस्तेय-ब्रह्मचर्य-दयाऽऽर्जव-क्षमा-धृति-मिताहार-शौचानि चेति यमा दश । तपःसन्तोषाऽऽस्तिक्य-दानेश्वरपूजन-सिद्धान्तश्रवण-होम-जप-व्रतानि दश नियमाः । - (शांडि.१/१-२) इत्युक्तम् । मार्कण्डेयपुराणे च → अहिंसा सत्यमस्तेयं ब्रह्मचर्यं सुसंयमः । मद्य-मांस-मधुत्यागो रात्रिभोजनवर्जनम् ।। 6 (मा.पु. ) इत्येवमहिंसादीनां मोक्षसाधनतोपदर्शिता । धर्मसाधनन्तु याज्ञवल्क्यस्मृतौ → अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । दानं दया दमः शान्तिः सर्वेषां धर्मसाधनम् ।। - (या.व.५/१२२) इत्युक्तम् । नारदपरिव्राजकोपनिषदि च → अहिंसा सत्यमस्तेय-ब्रह्मचर्याऽपरिग्रहाः - (ना.परि.४/१०) इत्यादिना यतिधर्म उपदर्शितः । प्रकृते → अहिंसा सत्यमस्तेयमकाम-क्रोध-लोभता । भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिकः ।। - (भा.पु.११/१७/२१) इति भागवतपुराणवचनमपि स्मर्तव्यम् । → अहिंसा सत्यमस्तेय-ब्रह्मचर्याऽपरिग्रहाः । अक्रोधो गुरुशुश्रूषा शौचं सन्तोष आर्जवम् ।। अमानित्वमदम्भित्वमास्तिकत्वमहिंस्रता । एते सर्वे गुणा ज्ञेयाः सात्त्विकस्य विशेषतः ।। 6- (शा.१-२) इति शारीरकोपनिषदुक्तिरपि न विस्मर्तव्या । संन्यासगीतायां → अहिंसा सत्यमस्तेयं ब्रह्मचर्यं तपः परम् । क्षमा दया च सन्तोषो व्रतान्यस्य विशेषतः ।। - (सं.गी. ६/ १०९) इत्येवं यतिधर्मः कथित इत्यवधेयम् । चाणक्यसूत्रेऽपि → अहिंसालक्षणो धर्मः - (चा.सू. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372