________________
• अहिंसादीनां सर्वतन्त्रव्यापकत्वम् • ____५५७ अहिंसा सत्यमस्तेयं ब्रह्मचर्यमसङ्ग्रहः । यमास्तु कथिताश्चैते नियमानपि मे श्रुणु ।। सन्तोष-शौच-स्वाध्यायास्तपश्चेश्वरभावना । नियमाः कौरवश्रेष्ठ ! फलसंसिद्धिहेतवः ।।
6 (य.ध.सं.पृ.४१) इत्येवं विश्वेश्वरसरस्वत्योक्तम् । पातञ्जलयोगसूत्रे अपि → अहिंसा-सत्याऽस्तेयब्रह्मचर्यापरिग्रहा यमाः ८, (पा.यो.सू.२/३०) → शौच-सन्तोष-तपः-स्वाध्यायेश्वरप्रणिधानानि नियमाः 6 (पा.यो.सू.२/३२) इत्युक्तम् । एतेषां स्वरूपञ्चाग्रे (भा.५,पृ.१४२०,१४७६) वक्ष्यते । → अहिंसा सत्यमस्तेयं ब्रह्मचर्याऽपरिग्रहौ। यमाः - (कू.पु.२/११/१३) इति कूर्मपुराणे। याज्ञवल्क्यस्मृतौ तु → ब्रह्मचर्यं दया क्षान्तिर्दानं सत्यमकल्कता । अहिंसाऽस्तेयमाधुर्ये दमश्चेति यमाः स्मृताः ।। स्नानं मौनोपवासेज्या स्वाध्यायोपस्थनिग्रहाः । नियमा गुरुशुश्रूषा शौचाऽक्रोधप्रमादता ।।
6 (या.व.प्रायश्चि.३१२/३१३) इत्युक्तं यम-नियमस्वरूपम् । यम-नियमस्वरूपं मण्डलब्राह्मणोपनिषदि तु → शीतोष्णाऽऽहार-निद्राविजयः, सर्वदा शान्ति-निश्चलत्वे, विषयेन्द्रियनिग्रहश्चैते यमाः । गुरुभक्तिः सत्यमार्गाऽनुरक्तिः, मुखायातवस्त्वनुभवश्च, तद्वस्त्वनुभवेन तुष्टिः, निःसङ्गता, एकान्तवासो, मनोनिवृत्तिः, फलानभिलाषी वैराग्यभावश्च नियमाः - (मण्ड.१/१) इत्यावेदितम् ।
जाबालदर्शनोपनिषदि च → अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयाऽऽर्जवम् । क्षमा धृतिर्मिताहारः शौचं चैव यमा दश ।। तपः सन्तोषाऽऽस्तिक्यं दानमीश्वरपूजनम् । सिद्धान्तश्रवणञ्चैव ह्रीमतिश्च जपो व्रतम् ।। एते च नियमाः प्रोक्ताः ।
6 (जाबा.२/१-२) इत्याधुक्तम् । वराहोपनिषदि अप्येवमेव यम-नियमस्वरूपमावेदितम् । शाण्डिल्योपनिषदि अपि →
तत्राऽहिंसा सत्याऽस्तेय-ब्रह्मचर्य-दयाऽऽर्जव-क्षमा-धृति-मिताहार-शौचानि चेति यमा दश । तपःसन्तोषाऽऽस्तिक्य-दानेश्वरपूजन-सिद्धान्तश्रवण-होम-जप-व्रतानि दश नियमाः ।
- (शांडि.१/१-२) इत्युक्तम् । मार्कण्डेयपुराणे च → अहिंसा सत्यमस्तेयं ब्रह्मचर्यं सुसंयमः । मद्य-मांस-मधुत्यागो रात्रिभोजनवर्जनम् ।। 6 (मा.पु. ) इत्येवमहिंसादीनां मोक्षसाधनतोपदर्शिता । धर्मसाधनन्तु याज्ञवल्क्यस्मृतौ → अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । दानं दया दमः शान्तिः सर्वेषां धर्मसाधनम् ।। - (या.व.५/१२२) इत्युक्तम् । नारदपरिव्राजकोपनिषदि च → अहिंसा सत्यमस्तेय-ब्रह्मचर्याऽपरिग्रहाः - (ना.परि.४/१०) इत्यादिना यतिधर्म उपदर्शितः । प्रकृते → अहिंसा सत्यमस्तेयमकाम-क्रोध-लोभता । भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिकः ।। - (भा.पु.११/१७/२१) इति भागवतपुराणवचनमपि स्मर्तव्यम् । → अहिंसा सत्यमस्तेय-ब्रह्मचर्याऽपरिग्रहाः । अक्रोधो गुरुशुश्रूषा शौचं सन्तोष आर्जवम् ।। अमानित्वमदम्भित्वमास्तिकत्वमहिंस्रता । एते सर्वे गुणा ज्ञेयाः सात्त्विकस्य विशेषतः ।। 6- (शा.१-२) इति शारीरकोपनिषदुक्तिरपि न विस्मर्तव्या । संन्यासगीतायां → अहिंसा सत्यमस्तेयं ब्रह्मचर्यं तपः परम् । क्षमा दया च सन्तोषो व्रतान्यस्य विशेषतः ।। - (सं.गी. ६/ १०९) इत्येवं यतिधर्मः कथित इत्यवधेयम् । चाणक्यसूत्रेऽपि → अहिंसालक्षणो धर्मः - (चा.सू.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org