________________
५५८
• कुशलविभागेऽनेकान्तवादप्रसरः • द्वात्रिंशिका-८/९ कुशलधर्मपदेन च बौद्धैरभिधीयन्ते, यदाहुस्ते → “दशाकुशलानि, तद्यथा- हिंसा-स्तेयाऽन्यथाकामं पैशून्यं परुषाऽनृतम् । सम्भिन्नाऽऽलापं व्यापादमभिध्या दृग्विपर्ययम् ।। पापकर्मेति दशधा कायवाङ्मानसैस्त्यजेत्" ( ) - इति । अत्र चाऽन्यथाकामः = पारदार्य सम्भिन्नाऽऽलापः = असम्बद्धभाषणं, व्यापादः = परपीडाचिन्तनं, 'अभिध्या = धनादिष्वसन्तोषः परिग्रह इति यावत्, दृग्विपर्ययो = मिथ्याभिनिवेशः, एतद्विपर्ययाच्च दश कुशलधर्मा भवन्तीति । ५६१) इत्युक्तम् । →
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता । अक्रोधो गुरुशुश्रूषा शौचं सन्तोषमार्जवम् ।। अहिंसाद्या यमाः पञ्च यतीनां परिकीर्तिताः । अक्रोधाद्याश्च नियमाः सिद्धि-वृद्धिकराः स्मृताः ।। 6 (शिवो.७/१००-१) इति तु शिवोपनिषदि दर्शितम् ।
विष्णुभक्तिचन्द्रोदये तु → ब्रह्मचर्यमहिंसा च सत्यमामिषवर्जनम् । व्रते चैतानि चत्वारि चरितव्यानि नित्यशः ।। 6 (वि.भ. च. ) इत्युक्तम् । नीतिशतके च भर्तृहरिणा → प्राणाघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यं, काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् । तृष्णास्रोतोविभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा, सामान्यः सर्वशास्त्रेष्वनुपहतविधिः श्रेयसामेषः पन्थाः ।। - (नि.श.२६) इत्युक्तम् । एतेषामहिंसादीनां स्वरूपं त्वग्रे मित्राद्वात्रिंशिकायां (भा.५,पृ.१४२०) वक्ष्यते ।
_ 'दशाऽकुशलानी'ति । ननु मज्झिमनिकाये महावच्छगोत्तसुत्ते → (१) लोभो खो वच्छ ! अकुसलं, अलोभो कुसलं; (२) दोसो खो वच्छ ! अकुसलं, अदोसो कुसलं; (३) मोहो खो वच्छ ! अकुसलं, अमोहो कुसलं, इति खो वच्छ ! इमे तयो धम्मा अकुसला, तयो धम्मा कुसला । - (म.नि. २,३,३,१९४ पृ.१६७) इत्येवं त्रीणि कुशलानि दर्शितानि भवद्भिश्चात्र दश कुशलान्युच्यन्त इति कथं न विरोध इति चेत् ?
अत्रोच्यते - यथा जैनानां राग-द्वेष-मोहानामेव मृषावादकारणत्वेऽपि दशवैकालिकनियुक्तौ → कोहे माणे माया लोभे पेज्जे तहेव दोसे । हास-भए अक्खाइय उवघाए निस्सिआ दसमा ।। - (द.वै.नि.२७४) इत्येवमनादिसिद्धतया दशविधा मृषा भाषा क्रोध-मानादीनां रागाद्यविनाभावविवक्षयोपदर्शिता → रागेण व दोसेण व मोहेण व भासई मुसं भासं । तहवि दसहा विभागो अणाइणिद्देससंसिद्धा ।। - (भा.र.५३) इति पूर्वोक्त(पृ.२१५) भाषारहस्यवचनात् तथैव लोभ-द्वेष-मोहानामेवाऽकुशलत्वेऽपि
બૌદ્ધ લોકો અહિંસા વગેરેને કુશળધર્મ કહે છે. તેમના ગ્રંથમાં જણાવેલ છે કે “દશ અકુશલ छ. ते ॥श - (१) हिंसा, (२) योरी, (3) अन्यथाम(५२स्त्री. मन), (४) पैशुन्य (या. यूगदी), (५) 580२ दूध, (६) संमिनाला५ (असमंस. १३वास), (७) व्या५६ (५२पी30 ४२वानो वियार), (८) अमिथ्या (धन वगैरेमा असंतोष = परियड) () है। विपर्यय (मिथ्या अभिनिवेशકદાગ્રહ) અને (૧૦) પાપ કર્મ. આ દશ પ્રકારના અકુશલને મન-વચન-કાયાથી છોડવા જોઈએ. દશ અકુશલનો ત્યાગ તે કુશલ ધર્મ થાય છે.” १. हस्तादर्श 'अधिभिध्या' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org