________________
• दशविधाऽकुशलस्वरूपविभावनम् •
५५९
आदिपदाच्च ब्रह्मादिपदग्रहः, एतान्येव वैदिकादिभिर्ब्रह्मादिपदेनाऽभिधीयन्ते इति ।। ९ । मुख्यवृत्त्या क्व 'युज्यन्ते न वैतानि क्व दर्शने । विचार्यमेतन्निपुणैरव्यग्रेणाऽन्तरात्मना ।। १० ।। हिंसादीनां तदविनाभावित्वविवक्षया दशविधाऽकुशलनिर्वचनमपि नैव विरुध्यते । तदुक्तं मज्झिमनिकाय एवाग्रे महावत्सगोत्रसूत्रे (१) पाणातिपातो खो वच्छ ! अकुसलं, पाणातिपाता वेरमणी कुसलं; (२) अदिन्नादानं खो वच्छ ! अकुसलं, अदिन्नादाना वेरमणी कुसलं; (३) कामेसु मिच्छाचारो खो, वच्छ ! अकुसलं, कामेसुमिच्छाचारा वेरमणी कुसलं; (४) मुसावादो खो, वच्छ, अकुसलं, मुसावादा वेरमणी कुसलं; (५) पिसुणा वाचा खो वच्छ ! अकुसलं, पिसुणाय वाचाय वेरमणी कुसलं; (६) फरुसा वाचा खो वच्छ ! अकुसलं, फरुसाय वाचाय वेरमणी कुसलं; (७) सम्फप्पलापो खो वच्छ ! अकुसलं, सम्फप्पलापा वेरमणी कुसलं; (८) अभिज्झा खो वच्छ ! अकुसलं, अनभिज्झा कुसलं; (९) ब्यापादो खो वच्छ ! अकुसलं, अब्यापादो कुसलं; (१०) मिच्छादिट्ठि खो वच्छ ! अकुसलं, सम्मादिट्ठी कुसलं इति खो वच्छ ! इमे दस धम्मा अकुसला, दस धम्मा कुसला ← ( म.नि. महावच्छगोत्त-२-३-३-१९४, पृ. १६७ ) इति ।
मध्यमविवक्षया तु पञ्चशीलमपि बौद्धैः मुक्तिकारणतयोच्यते । तदुक्तं पेतवत्थुनाम्नि बौद्धग्रन्थे → पाणातिपाता विरमामि खिप्पं लोके अदिन्नं परिवज्जयामि । अमज्जपो नो च मुसा भणामि, सकेण दारेण च होमि तुट्ठो ।। ← (पे. व. ४ / २ / ८४) इति । कुशलकर्मपथपदेनाऽपीम एवोच्यन्ते । तदुक्तं दीघनिकाये पाथिकवर्गे दस कुसलकम्मपथा - (१) पाणातिपाता वेरमणी, (२) अदिन्नादाणा वेरमणी, (३) कामेसु मिच्छायारा वेरमणी, (४) मुसावादा वेरमणी, (५) पिसुणाय वाचाय वेरमणी, (६) फरुसाय वाचाय वेरमणी, (७) सम्फप्पलावा वेरमणी, (८) अनभिज्झा, (९) अब्यापादो, (१०) सम्मादिट्ठि ← (दी.नि. ३।१०।३४७, पृ. ३१४) विवक्षाभेदेन नानासङ्ख्याकधर्मसाधनोक्तौ न कश्चि- दोषः । एतेन → पाणातिपातो, अदिन्नादानं, मुसावादो च वुच्चति । परदारगमनं चेव नप्पसंसन्ति पण्डिता ।। ← ( दी. नि.३/८/१) इति दीघनिकायवचनमपि व्याख्यातम् । अष्टकप्रकरणेऽपि पञ्चैतानि पवित्राणि सर्वेषां ब्रह्मचारिणाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ।। ← ( अ.१३/२) इत्येवं सर्वतन्त्रसिद्धधर्मसाधनान्युक्तानि इति पूर्वं (पृ. ५२१ ) दर्शितमेव ।।८ / ९ ॥
મૂળ ગાથામાં રહેલ ‘આદિ’ શબ્દથી બ્રહ્મ વગેરે પણ લઈ લેવા. વૈદિક લોકો અહિંસા વગેરેને ब्रह्म उहे छे. (८/९)
विशेषार्थ :- अहिंसा, सत्य, अयौर्य, ब्रह्मयर्य अने अपरिग्रह - जा पाय तत्त्वने सामान्यथी સર્વ દર્શનશાસ્ત્રો ધર્મસાધન તરીકે સ્વીકારે છે. કોઈ તેને વ્રત કહે, કોઈ યમ કહે. કોઈ મહાવ્રત કહે.
આ વાત અલગ છે. પરંતુ અહિંસા વગેરે પાંચેયને ધર્મસાધન રૂપે સર્વ દર્શનકારો સ્વીકારે છે. તેથી ધર્મવાદમાં આ બાબતની ચર્ચા કરવી જોઈએ કે અહિંસા વગેરે ધર્મસાધનો કયા ધર્મમાં વાસ્તવિક રીતે સંગત થાય છે ? આ વાતને ગ્રન્થકારશ્રી આગલી ગાથામાં જણાવે છે. (૮/૯)
गाथार्थ ::- મુખ્ય વૃત્તિથી અહિંસા વગેરે પાંચ ધર્મસાધન કયા ધર્મમાં-દર્શનમાં યુક્તિપૂર્વક સંગત થાય
१. हस्तादर्शे 'वेदि...' इति पाठः । २ मुद्रितप्रतौ 'युज्ययन्ते' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org