SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ५५६ • यम-नियमादिस्वरूपविमर्शः • द्वात्रिंशिका - ८/९ यमाः” ( ) इति । धर्मपदेन तु पाशुपतैः यतस्ते दश धर्मानाहुः - "अहिंसा सत्यवचनमस्तैन्यं चाप्यकल्पना । ब्रह्मचर्यं तथाऽक्रोधो ह्यार्जवं शौचमेव च ।। ( ) सन्तोषो गुरुशुश्रूषा इत्येते दश कीर्तिताः”( ), साङ्ख्यैः - व्यासमतानुसारिभिश्च यमपदेनाभिधीयन्ते - “पञ्च यमाः पञ्च नियमाः । तत्र यमाः अहिंसा सत्यमस्तैन्यं ब्रह्मचर्यमव्यवहारश्चेति; नियमास्तु अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम्, अप्रमादश्च " ( ) इति । → अथेमानि व्रतानि भवन्ति - अहिंसा सत्यमस्तैन्यं मैथुनस्य च वर्जनं त्याग इत्येव (बौ.ध.२/१८/२)। पञ्चोपव्रतानि भवन्ति अक्रोधो गुरु-शुश्रूषाऽप्रमादश्शौचमाहारशुद्धिश्चेति ← (बौ.ध. २/१८/३) इति बौधायनधर्मसूत्रमपि स्मर्तव्यम् । 'धर्मपदेन' तु पाशुपतैः उपलक्षणात् मन्वनुयायिभिश्च । नारदपरिव्राजकोपनिषदि संन्यासगीतायां मनुस्मृतौ च → धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ।। अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । एनं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः ।। ← (ना.परि.३/२४, सं.गी. ९/५४, मनु.६ / ९२,१०/६३ ) इत्युक्तम् । महाभारतेऽपि अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम्। पञ्चस्वेतेषु वाक्येषु सर्वे धर्माः प्रतिष्ठिताः ← । । ( म.भा.शां. ५) इत्युक्तम् । पञ्च यमाः पञ्च नियमा इति । तदुक्तं विष्णुपुराणे ब्रह्मचर्यमहिंसां च सत्याऽस्तेयाऽपरिग्रहान् । सेवेत योगी निष्कामो योग्यतां स्वमनो नयन् ।। स्वाध्याय-शौच-सन्तोष-तपांसि नियतात्मवान् । कुर्वीत ब्रह्मणि तथा परस्मिन् प्रवणं मनः || एते यमाः सनियमाः पञ्च पञ्च प्रकीर्तिताः । विशिष्टफलदाः काम्या निष्कामाणां विमुक्तिदाः ।। ← (वि.पु.६/७/३६-३७-३८) इति । मनुस्मृतौ तु आनृशंस्यं क्षमा सत्यमहिंसा दममस्पृहा । ध्यानं प्रसादो माधुर्यमार्जवं च यमा दश ।। ← (म.स्मृ.४/२०५) इत्येवमुक्तम् । अत्रिसहितायां च आनृशंस्यं क्षमा सत्यमहिंसा-दम आर्जवम् । प्रीतिः प्रसादो माधुर्यमक्रोधश्च यमा दश ।। ← (अ.सं.४८) इत्येवं दशधा यमा उक्ताः । पितामहेन तु अहिंसा - सत्यमस्तेयं ब्रह्मचर्याऽपरिग्रहौ । अक्रोधो गुरुशुश्रूषा शौचं दुर्भुक्तिवर्जितम् ।। ← ( पिता . ) इत्येवं दशधा यमा दर्शिताः । वराहोपनिषदि त्रिशिखिब्राह्मणोपनिषदि च → अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयाऽऽर्जवम् । क्षमा धृतिर्मिताहारः शौचं चेति यमा दश ।। ← (वरा.५/१२-१३, त्रि.ब्रा. ३२-३३) इत्येवं दशधा यमाः कथिताः । यतिधर्मसङ्ग्रहे तु ધર્મ કહે છે. કારણ કે તે લોકો દશ પ્રકારના ધર્મને કહે છે. તેમના ગ્રંથોમાં કહેલ છે કે ‘(૧) અહિંસા, (२) सत्यवयन, (3) अयौर्य, (४) अल्पना, (4) ब्रह्मयर्य, (ह) खोध, (७) खर्भव- सरणता, (८) शौय-पवित्रता, (८) संतोष खने (१०) गुरुशुश्रूषा આ દશ ધર્મ કહેવાયેલ છે.’ સાંખ્ય અને વ્યાસધર્માનુયાયીઓ વડે આ અહિંસા વગેરે પાંચેય ‘યમ’ શબ્દ દ્વારા જણાવાય છે. તેમના ગ્રંથમાં જણાવેલ छे } 'पांय यम जने पांय नियम धर्मसाधन छे. तेमां यम सेटले अहिंसा, सत्य, अयौर्य, ब्रह्मयर्य, अव्यवहार (व्यापारत्याग) तथा नियम खेटले सोध, गुरुशुश्रूषा, शौय ( पवित्रता), आहारघटाडो अने सप्रमाह. ' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy