Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 291
________________ ५५४ • भगवद्देशनासाफल्यादिमीमांसा • द्वात्रिंशिका- ८/८ विषयो धर्मवादस्य धर्मसाधनलक्षणः । स्वतन्त्रसिद्धः प्रकृतोपयुक्तोऽसद्ग्रहव्यये ।।८।। विषय इति । धर्मवादस्य विषयो धर्मसाधनलक्षणः स्वतन्त्रसिद्धः = साङ्ख्यादीनां षष्टितन्त्रादिशास्त्रसिद्धः । श्रीहरिभद्रसूरिभिः भगवतो ज्ञानरत्नोत्पत्तिसमनन्तरमेव देवाः चतुर्विधा अप्यागता आसन्, तत्र च प्रव्रज्याप्रतिपत्ता न कश्चिद्विद्यत इति भगवान् विज्ञाय विशिष्टधर्मकथनाय न प्रवृत्तवान् ← ( आ. वृ.५३९) इत्युक्तम्। न हि परमविशुद्धौचित्याऽमोघदेशनादिसामर्थ्यशालिनः तीर्थङ्कराः श्रोतॄणामप्रतिबोधनियतिमतिक्रमितुं यतन्ते । एतेन नियतिं न विमुञ्चन्ति महान्तो भास्करा इव ← ( महो. ४/२०) इति महोपनिषद्वचनमपि व्याख्यातम् । न हि महत्यपि कृते यत्ने सर्वथैव प्रकृतिविपरीतं कस्मैचिद् रोचतेऽपि । तदुक्तं भर्तृहरिणाऽपि शृङ्गारशतके यद् यस्य नाभिरुचितं न तत्र तस्य स्पृहा मनोज्ञेऽपि । रमणीयेऽपि सुधांशौ न नाम कामः सरोजिन्याः ।। ← (शृं. श. १०५ ) इति । ततश्च यथा श्रीवर्धमानस्वामिना प्रथमसमवसरणसमागतामभाव्यपर्षदमपहायाऽन्यत्राऽकारि विशिष्टा धर्मदेशना तथान्येनाप्यनुचितदेशादिकं स्वपरोपकाराऽभावञ्चावगम्याऽन्यत्र धर्मवाद उत्सर्गतः कार्यः शुष्कवाद-विवादौ चापवादत इति । इत्थमेव प्रेक्षावत्तोपपत्तेः, सर्वत्र गुरुलाघवाऽऽलोचनपूर्वकप्रवृत्तिकत्वविरहे तत्त्वहान्यापत्तेः । तदुक्तं अष्टकप्रकरणे देशाद्यपेक्षया चेह, विज्ञाय गुरुलाघवम् । तीर्थकृज्ज्ञातमालोच्य वादः कार्यो विपश्चिता ।। ← (अ.प्र. १२ / ८) इति ।।८/७।। औत्सर्गिककर्तव्यताऽऽपन्नस्य धर्मवादस्य विषयमाह - 'विषय' इति । धर्मवादस्य व्यावर्णितस्वरूपस्य विषयः गोचरः धर्मसाधनलक्षणः धर्मस्य संवर- निर्जरालक्षणस्य श्रुत चारित्रलक्षणस्य वा दुर्गतिपतज्जन्तुधारणलक्षणस्य वा धर्मव्यवहारविषयस्य धर्मपदप्रवृत्तिनिमित्तशालिनो वा साधनानि अहिंसादीनि कारणानि लक्षणं स्वभावो यस्य स तथेति । स्वतन्त्रसिद्ध इत्यत्र स्वपदेन साङ्ख्य- भागवत-वैदिकाद्यास्तिकदर्शनवादिग्रहणं तन्त्रपदेन च तेषां शास्त्राणि ग्राह्याणीति साङ्ख्यादीनां षष्टितन्त्रादिशास्त्रसिद्धः = साङ्ख्याद्यभ्युपगतषष्टितन्त्रादिशास्त्रप्रसिद्धः । વિશેષાર્થ :- વિરતિધર્મ માટે યોગ્ય જીવો છે કે નહિ ? આનો વિચાર ધર્મદેશના કરતી વખતે કરવો જરૂરી ગણાય-એવું ઉપરોક્ત દષ્ટાન્તના આધારે ફલિત થાય છે. જો ધર્મદેશના અંગે પણ આ વિચાર કરવો જરૂરી હોય તો વાદ માટે તો દેશ-કાળ વગેરેનો વિચાર કરવો અતિજરૂરી ગણાય એ સમજી શકાય તેવી બાબત છે. (૮/૭) આ ધર્મવાદના વિષયની વિચારણા ગાથાર્થ :- કદાગ્રહ રવાના થતાં પ્રસ્તુતમાં ઉપયોગી બને તેવા તથા પોતાના ધર્મશાસ્ત્રથી સિદ્ધ એવા ધર્મસાધનો ધર્મવાદના વિષય છે. (૮/૮) ટીકાર્થ :- સાંખ્ય વગેરેના ષષ્ટિતંત્ર વગેરે પોતપોતાના ધર્મશાસ્ત્રોમાં પ્રસિદ્ધ એવા જે ધર્મના સાધનો અહિંસા આદિ તે ધર્મવાદનો વિષય છે. Jain Education International For Private & Personal Use Only = = www.jainelibrary.org

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372