________________
५५४
• भगवद्देशनासाफल्यादिमीमांसा •
द्वात्रिंशिका- ८/८
विषयो धर्मवादस्य धर्मसाधनलक्षणः । स्वतन्त्रसिद्धः प्रकृतोपयुक्तोऽसद्ग्रहव्यये ।।८।। विषय इति । धर्मवादस्य विषयो धर्मसाधनलक्षणः स्वतन्त्रसिद्धः = साङ्ख्यादीनां षष्टितन्त्रादिशास्त्रसिद्धः ।
श्रीहरिभद्रसूरिभिः
भगवतो ज्ञानरत्नोत्पत्तिसमनन्तरमेव देवाः चतुर्विधा अप्यागता आसन्, तत्र च प्रव्रज्याप्रतिपत्ता न कश्चिद्विद्यत इति भगवान् विज्ञाय विशिष्टधर्मकथनाय न प्रवृत्तवान् ← ( आ. वृ.५३९) इत्युक्तम्। न हि परमविशुद्धौचित्याऽमोघदेशनादिसामर्थ्यशालिनः तीर्थङ्कराः श्रोतॄणामप्रतिबोधनियतिमतिक्रमितुं यतन्ते । एतेन नियतिं न विमुञ्चन्ति महान्तो भास्करा इव ← ( महो. ४/२०) इति महोपनिषद्वचनमपि व्याख्यातम् । न हि महत्यपि कृते यत्ने सर्वथैव प्रकृतिविपरीतं कस्मैचिद् रोचतेऽपि । तदुक्तं भर्तृहरिणाऽपि शृङ्गारशतके यद् यस्य नाभिरुचितं न तत्र तस्य स्पृहा मनोज्ञेऽपि । रमणीयेऽपि सुधांशौ न नाम कामः सरोजिन्याः ।। ← (शृं. श. १०५ ) इति । ततश्च यथा श्रीवर्धमानस्वामिना प्रथमसमवसरणसमागतामभाव्यपर्षदमपहायाऽन्यत्राऽकारि विशिष्टा धर्मदेशना तथान्येनाप्यनुचितदेशादिकं स्वपरोपकाराऽभावञ्चावगम्याऽन्यत्र धर्मवाद उत्सर्गतः कार्यः शुष्कवाद-विवादौ चापवादत इति ।
इत्थमेव प्रेक्षावत्तोपपत्तेः, सर्वत्र गुरुलाघवाऽऽलोचनपूर्वकप्रवृत्तिकत्वविरहे तत्त्वहान्यापत्तेः । तदुक्तं अष्टकप्रकरणे देशाद्यपेक्षया चेह, विज्ञाय गुरुलाघवम् । तीर्थकृज्ज्ञातमालोच्य वादः कार्यो विपश्चिता ।। ← (अ.प्र. १२ / ८) इति ।।८/७।।
औत्सर्गिककर्तव्यताऽऽपन्नस्य धर्मवादस्य विषयमाह - 'विषय' इति । धर्मवादस्य व्यावर्णितस्वरूपस्य विषयः गोचरः धर्मसाधनलक्षणः धर्मस्य संवर- निर्जरालक्षणस्य श्रुत चारित्रलक्षणस्य वा दुर्गतिपतज्जन्तुधारणलक्षणस्य वा धर्मव्यवहारविषयस्य धर्मपदप्रवृत्तिनिमित्तशालिनो वा साधनानि अहिंसादीनि कारणानि लक्षणं स्वभावो यस्य स तथेति । स्वतन्त्रसिद्ध इत्यत्र स्वपदेन साङ्ख्य- भागवत-वैदिकाद्यास्तिकदर्शनवादिग्रहणं तन्त्रपदेन च तेषां शास्त्राणि ग्राह्याणीति साङ्ख्यादीनां षष्टितन्त्रादिशास्त्रसिद्धः = साङ्ख्याद्यभ्युपगतषष्टितन्त्रादिशास्त्रप्रसिद्धः ।
વિશેષાર્થ :- વિરતિધર્મ માટે યોગ્ય જીવો છે કે નહિ ? આનો વિચાર ધર્મદેશના કરતી વખતે કરવો જરૂરી ગણાય-એવું ઉપરોક્ત દષ્ટાન્તના આધારે ફલિત થાય છે. જો ધર્મદેશના અંગે પણ આ વિચાર કરવો જરૂરી હોય તો વાદ માટે તો દેશ-કાળ વગેરેનો વિચાર કરવો અતિજરૂરી ગણાય એ સમજી શકાય તેવી બાબત છે. (૮/૭)
આ ધર્મવાદના વિષયની વિચારણા
ગાથાર્થ :- કદાગ્રહ રવાના થતાં પ્રસ્તુતમાં ઉપયોગી બને તેવા તથા પોતાના ધર્મશાસ્ત્રથી સિદ્ધ એવા ધર્મસાધનો ધર્મવાદના વિષય છે. (૮/૮)
ટીકાર્થ :- સાંખ્ય વગેરેના ષષ્ટિતંત્ર વગેરે પોતપોતાના ધર્મશાસ્ત્રોમાં પ્રસિદ્ધ એવા જે ધર્મના સાધનો અહિંસા આદિ તે ધર્મવાદનો વિષય છે.
Jain Education International
For Private & Personal Use Only
=
=
www.jainelibrary.org