________________
• भगवतोऽमूढलक्ष्यता •
५५३ अत्र ज्ञातं हि भगवान् यत्स नाऽभाव्यपर्षदि । दिदेश धर्ममुचिते देशेऽन्यत्र दिदेश च ।।७।।
अत्रेति । अत्र देशाद्यपेक्षायां ज्ञातं = उदाहरणं हि भगवान् श्रीवर्धमानस्वामी, यत् स न 'अभाव्यपर्षदि = प्रथमसमवसरणेऽयोग्यसदसि धर्म दिदेश । अन्यत्र 'चोचिते प्रतिबोध्यजनकलिते देशे धर्म दिदेश ।।७।।
प्रकृतमेवोदाहरणद्वारा समर्थयति- 'अत्रे'ति । यत् = यस्मात् कारणात् स वर्धमानस्वामी न = नैव प्रथमसमवसरणे अयोग्यसदसि = विरतिपरिणामाऽनर्हसभायां धर्मं विस्तरतो दिदेश । क्षणमात्रं देशना तत्र दत्ता, तथाकल्पत्वात् । तदुक्तं श्रीगुणचन्द्रगणिभिः महावीरचरित्रे → जइवि हु एरिसनाणेण जिणवरो मुणइ जोग्गयारहियं । कप्पोत्ति तहवि साहइ खणमेत्तं धम्मपरमत्थं ।। - (म.च.गु.प्रस्ताव७, पृष्ठ.२५१-ए/१५) इति । श्रीनेमिचन्द्रसूरिभिस्तु महावीरचरित्रे → पवज्जाइगुणाणं पडिवत्तिखमो न कोइ इह अत्थि । इय नाउं खणमेगं केवलमहिमं सुरेहिं कयं ।। जीयं ति अणुभवेउं (म.च.नेमि.पृ.५९/८६-८७) इत्याधुक्तमित्यवधेयम् ।
कल्पसूत्रसुबोधिकायां तु श्रीविनयविजयोपाध्यायेन → समुत्पन्नकेवलेन श्रीवर्धमानस्वामिना प्रथमसमवसरणे एव देशना दत्ता, न च तया कस्यापि विरतिपरिणामो जातः - (क.सू.सु. द्वितीयक्षणसूत्र-१८ पृ.६६) इति व्याख्यातम् । अन्यत्र च प्रतिबोध्यजनकलिते = सर्वविरतिपरिणामाऽर्हपुरुषपरिकलिते देशे = अपापापुर्यां धर्म दिदेश । तदुक्तं कल्पसूत्रसुबोधिकायामेव → मिलितेषु सुरासुरेषु स्थले वृष्टिमिव निष्फलां देशनां क्षणं दत्त्वा प्रभुरपापापुर्यां महासेनवने जगाम - (क.सू.क्षण-६/ सू.१२१-पृ.३१७) इत्यादि ।
ननु सर्वविरतिपरिणामाऽर्हसत्त्वाऽसत्त्वे किं तीर्थङ्करो देशनां नैव दत्ते? उच्यते - सर्व-देश-विरतिसम्यक्त्वान्यतरपरिणामार्हप्राणिसत्त्वे एव तीर्थङ्करो महता प्रबन्धेन धर्मदेशनां दत्ते, अन्यथा तु न, → सव्वं च देसविरतिं सम्मं घेच्छति व होति कहणा उ । इहरा अमूढलक्खो न कहेइ - (आ.नि.५६४) इति आवश्यकनियुक्तिवचनात् पूर्वोक्तात् (पृ.२९४)। इदञ्च तीर्थोत्पत्त्यनन्तरकालापेक्षयाऽवगन्तव्यम् ।
तीर्थानुत्पत्तिकाले तु सर्वविरतिपरिणामार्हपुरुषसत्त्व एव स महता प्रबन्धेन धर्मदेशनामातनोति । अत एव महासेनवने प्रथमदेशना विशेषरूपेण न चरमतीर्थकृता दत्ता । इदमेवाभिप्रेत्य आवश्यकवृत्ती
વિશેષ બળવાન લાભ ન થાય તો વાદ ન કરવો, ન બોલવું. - આ વાત જણાવી ગયા તેના સમર્થનમાં ગ્રન્થકારશ્રી જણાવે છે કે –
ગાથાર્થ :- પ્રસ્તુત વાતમાં ઉદાહરણ છે શ્રમણ ભગવાન મહાવીર. તેમણે અભાવ્ય = અયોગ્ય સભામાં ધર્મદેશના ન કરી અને અન્યત્ર ઉચિત સ્થાને ધર્મદેશના કરી. (૮૭)
ટીકાર્થઃ-દેશ-કાળ વગેરેની અપેક્ષાએ વાદ કરવો જોઈએ. આ વાતમાં ઉદાહરણ તરીકે શ્રી મહાવીરસ્વામી ભગવાન જાણવા. કારણ કે વિરતિધર્મ માટે પ્રથમ સમવસરણમાં રહેલ પર્ષદા અયોગ્ય હોવાથી તેમણે ધર્મદેશના આપી ન હતી. તથા વિરતિધર્મ માટે યોગ્ય જીવોવાળા અન્ય સ્થાનમાં તેમણે ધર્મદેશના કરી હતી.(૮૭) १. हस्तादर्श 'अभव्य...' इति पाठः । २. हस्तादर्श 'च चि..' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org