Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 266
________________ ५३१ • अध्यात्मविशुद्ध्या अहिंसकता • “अज्झत्थविसोहीए' जीवनिकाएहिं संथडे लोए । देसियमहिंसगत्तं जिणेहिं तेलुक्कदंसीहिं ।।" (ओ.नि.७४७) तथा "तस्स 'असंचेयओ संचेयओ अ जाइं सत्ताई ।। जोगं पप्प विणसंति णत्थि हिंसाफलं तस्स ।।" (ओ.नि.७५१) अयतनावतो = यतनावर्जितस्य अपीडनेऽपि = दैवात्परप्राणिपीडनाऽभावेऽपि तत्त्वतः पीडैव भवेत् । तदुक्तंदित्याशङ्कायां ओघनियुक्तिसंवादमाह - ‘अज्झत्थे'ति । द्रोणाचार्यकृततद्व्याख्या चैवम् → नन्विदमुक्तमेव यदुत अध्यात्मविशुद्धया सत्युपकरणे निर्ग्रन्थाः साधवः । किञ्च- यद्यध्यात्मविशुद्धिर्नेष्यते ततः 'जीवनिकाएहिं संथडे लोए' त्ति जीवनिकायैः = जीवसङ्घातैरयं लोकः संस्तृतो वर्त्तते । ततश्च जीवनिकायसंस्तृते = व्याप्ते लोके कथं नग्नकश्चक्रमन् वधको न भवति यद्यध्यात्मविशुद्धिर्नेष्यते, तस्मादध्यात्मविशुद्ध्या देशितमहिंसकत्वं जिनैस्त्रैलोक्यदर्शिभिरिति 6 (ओ.नि.७४७ वृत्ति) । ओघनिर्युक्तो एवाग्रे उक्तं → उच्चालियम्मि पाए ईरियासमियस्स संकमट्ठाए । वावज्जेज्ज कुलिंगी मरिज्ज तं जोगमासज्ज ।। न य तस्स तन्निमित्तो बंधो सुहुमो वि देसिओ समए। अणवज्जो उ पओगेण सव्वभावेण सो जम्हा।। नाणी कम्मस्स खयट्ठमुट्ठिओऽणुद्वितो य हिंसाए । जयइ असढं अहिंसत्थमुट्ठिओ अवहओ सो उ।। 6 (ओ.नि.७४८-४९-५०) इति । एतेन → अज्झवसिदेण बंधो सत्ते मारेउ मा व मारेउ । एसो बंधसमासो जीवाणं णिच्छयणयस्स ।। (स.सा.२६२) इति समयसारवचनमपि व्याख्यातम् । ____ 'तथोक्त्या ओघनियुक्तिगाथामेव ग्रन्थकृद् दर्शयति 'तस्स' इति । द्रोणाचार्यकृततद्व्याख्या चैवम् → तस्य = एवंप्रकारस्य ज्ञानिनः कर्मक्षयार्थमभ्युद्यतस्य असञ्चेतयतः = अजानानस्य, किं ? सत्त्वानि, कथं ? प्रयत्नवतोऽपि कथमपि न दृष्टः प्राणी व्यापादितश्च, तथा सञ्चेतयतः = जानानस्य कथमस्त्यत्र प्राणी ज्ञातो दृष्टश्च न च प्रयत्नं कुर्वताऽपि रक्षितुं पारितः, ततश्च तस्यैवंविधस्य यानि सत्त्वानि योगं = कायादि प्राप्य विनश्यन्ति तत्र नास्ति तस्य = साधोः हिंसाफलं = साम्परायिकं संसारजननं दुःखजननमित्यर्थः । यदि परमीर्याप्रत्ययं कर्म भवति, तच्चैकस्मिन् समये बद्धमन्यस्मिन् समये क्षपयति - (ओ.नि.७५१ वृत्ति) इति । तदुक्तं ओघनिर्युक्तौ → जो य पमत्तो पुरिसो तस्स य जोगं पडुच्च जे सत्ता । वावज्जते नियमा तेसिं सो हिंसओ होइ।। - (ओ.नि.७५२) इति। तद्वृत्तिस्त्येवम् → यस्यैवंविधस्य सम्बन्धिनं योगं = कायादि प्रतीत्य = प्राप्य ये सत्त्वा व्यापाद्यन्ते तेषां = सत्त्वानां नियमाद् अवश्यं सः = पुरुषो हिंसको भवति तस्मात्प्रमत्तताभाजि कर्मबन्धकारणानि - (ओ.नि.७५२ वृत्ति) । કારણ કે ઘનિર્યુક્તિમાં જણાવેલ છે કે – પજીવનિકાયથી ૧૪ રાજલોક સંપૂર્ણ ભરેલો હોવા છતાં અધ્યાત્મવિશુદ્ધિથી ત્રિલોકદર્શી જિનેશ્વર ભગવંતોએ અહિંસકપણું બતાવેલ છે. અધ્યાત્મવિશુદ્ધિયુક્ત સંયમીના યોગને પામીને જાણતા-અજાણતાં જે જીવો મરી જાય છે તેની હિંસાનું ફળ = પાપકર્મ બંધ १. हस्तादर्श '...सोहीण' इति पाठः । २. मुद्रितप्रतौ 'संघडे' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ ....देसीहिं..' इति पाठः। ४. मुद्रितप्रतौ 'असंवेयओ संवेयओ' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372