Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• निश्चयस्य हेतु-स्वरूपाऽनुबन्धशुद्धता •
ये त्वेकान्तनिश्चयमेवाद्रियन्ते ते निश्चयतो निश्चयमेव न 'जानते, हेतुस्वरूपानुबन्धशुद्धतज्ज्ञानाभावात्। तदाह- “णिच्छयमवलंबंता णिच्छयओ णिच्छयं अयाणंता ।
णासंति चरण-करणं' बाहिरकरणाऽऽलसा केई । । " (ओ.नि. ७६१) हिंसायतनानि सर्वाणि वर्जनीयानि प्रयत्नतः ← (ओ.नि. वृत्ति ५८/५९) इति द्रोणाचार्यकृतप्रकृतगाथाद्वयव्याख्या । तदुक्तं तत्रैवाऽग्रे वज्जेमित्ति परिणओ संपत्तीए वि मुच्चई वेरा । अविहिंतोऽवि न मुच्चइ किलिट्टभावो त्ति वा यस्स ।। ← (ओ.नि.६० ) इति । यथोक्तं निशीथभाष्ये बृहत्कल्पभाष्ये अपि च जे जे दोसाययणा ते ते सुत्ते जिणेहिं पडिकुट्ठा । ते खलु अणायरंतो सुद्धो इहरा उ भइयव्वो ।। ← (नि.भा.४१०३, बृ.क.भा. १८६० ) इति । प्रकृते च इंदिय - विसय कसाया परिसहा वेयणा य उवसग्गा । एए अवराहपया जत्थ विसीयंति दुम्मेहा ।। ← ( द.वै.नि. १७५ ) इति दशवैकालिकनिर्युक्तिवचनमप्यवधातव्यम् । पार्श्वस्थत्वादिप्रयोजकाऽपराधपदत्यागेनैव साधूनां संसारपारगामित्वसम्भवः। तदुक्तं दशाश्रुतस्कन्धनिर्युक्तौ अपासत्थाए अकुसीलयाए अकसाय- अप्पमाए य । अणियाणयाइ साहू संसारमहन्नवं तरई ।। ← (द.श्रु . नि . १४२ ) इति ।
=
ये तु प्रयत्नरहिता एकान्तनिश्चयमेव सद्व्यवहारनिरपेक्षनिश्चयनयमेव आद्रियन्ते ते निश्चयतः = परमार्थतो निश्चयमेव = निश्चयनयतात्पर्यमेव न जानते, हेतु स्वरूपाऽनुबन्धशुद्ध-तज्ज्ञानाऽभावात् हेतु-स्वरूपाऽनुबन्धविशुद्धिसम्पन्ननिश्चयनयगोचरसंवेदनात्मकविज्ञानविरहात् । तदुक्तं गुरुतत्त्वविनिश्चयवृत्तौ → यो निश्चयः प्रवर्त्तते हेतु स्वरूपानुबन्धप्रतिपूर्णः स निश्चयो निश्चयतो ज्ञेयः ← (गु.त.वि. वृत्ति १/३८) इति । प्रकृते ओघनिर्युक्तिसंवादमाह - 'णिच्छये 'ति । द्रोणाचार्यकृततद्वृत्तिश्चैवम् → निश्चयमवलम्बमानाः पुरुषा निश्चयतः परमार्थतो निश्चयमजानानाः सन्तो नाशयन्ति चरणकरणं, कथं? बाह्यकरणाऽलसाः = बाह्यं वैयावृत्त्यादि करणं तत्र अलसाः = प्रयत्नरहिताः सन्तश्चरणकरणं नाशयन्ति । केचिद् इदं चाङ्गीकुर्वन्ति यदुत परिशुद्धपरिणाम एव प्रधानो न तु बाह्यक्रिया' । एतच्च नाङ्गीकर्तव्यम्, यतः परिणाम एव बाह्यक्रियारहितः शुद्धो न भवतीति । ततश्च निश्चयव्यवहारमतमुभयरूपमेवाङ्गीकर्तव्यमिति ← (ओ.नि. वृत्ति ७६१) । यथोक्तं पुरुषार्थसिद्ध्युपाये अप → निश्चयमबुध्यमानो यो निश्रयतः तमेव संश्रयते । नाशयति करण-चरणं स बहिः करणालसो ઈચ્છતા સુવિહિત સંયમીએ હંમેશા પ્રયત્નપૂર્વક તમામ હિંસાઆયતનોનો પરિહાર કરવો જોઈએ.’ * નિશ્ચય-વ્યવહારનું સંતુલન #
યે. । પરંતુ જેઓ એકાન્તનિશ્ચયને = વ્યવહારનો અપલાપ કરતા નિશ્ચયનયને જ સ્વીકારે છે તેઓ તો નિશ્ચયથી = પરમાર્થથી નિશ્ચયનયને જ જાણતા નથી. કારણ કે હેતુશુદ્ધ સ્વરૂપશુદ્ધ અને અનુબંધશુદ્ધ એવા નિશ્ચય નયનું સંવેદનાત્મક જ્ઞાન તેમની પાસે નથી. કારણ કે ઓનિર્યુક્તિમાં જણાવેલ છે કે → બાહ્ય વૈયાવચ્ચ વગેરે આલંબન સાધનને અપનાવવામાં આળસુ કેટલાક વિદ્વાનો નિશ્ચય નયનું આલંબન લે છે તેઓ પરમાર્થથી નિશ્ચય નયને જાણતા જ નથી અને આ રીતે આળસથી ચારિત્રનો નાશ કરે છે. ..णकारणं' इत्यशुद्धः पाठः ।
M
=
१. हस्तादर्शे 'यमेव ज्ञानहेतु..' इति त्रुटितोऽशुद्धश्च पाठः । २ हस्तादर्शे '
Jain Education International
For Private & Personal Use Only
५३५
www.jainelibrary.org
Loading... Page Navigation 1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372