Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 284
________________ • मध्यस्थस्वरूपप्रकाशनम् . ५४७ एवम्भूतो हि स्वदर्शनं दूषितमदूषितं वा जानीते । मध्यस्थेन = आत्यन्तिकस्वदर्शनाऽनुरागपरदर्शनद्वेषरहितेन, एवम्भूतस्य हि सुप्रतिपादं तत्त्वं भवति । तथा अघभीरुणा = पातकभयशीलेन, एवम्भूतो ह्यसमञ्जसवक्ता न भवतीति, सहेति गम्यते, तत्त्वधिया = तत्त्वबुद्ध्या यः कथाबन्धः स धर्मवादो = धर्मप्रधानो वादः प्रकीर्तितः ।।४।। प्रधानेन, मध्यस्थेन तु धीमता ।। स्वशास्त्रज्ञाततत्त्वेन, धर्मवाद उदाहृतः ।। ( (अ.प्र.१२/६) इति । तवृत्तिः → परलोको जन्मान्तरं स प्रधानो नोपसर्जनभूतो यस्य स परलोकप्रधानस्तेन, स हि परलोकभयादसमञ्जसस्य वक्ता कर्ता च न भवति, मध्यस्थेन = आत्यन्तिकस्वदर्शनाऽनुराग-परदर्शनद्वेषरहितेन, एवंविधो हि सुखप्रतिपाद्यो भवति, तुशब्दः पुनःशब्दार्थः, धीमता = बुद्धिमता, एवंविधो हि गुण-दोषज्ञो भवति, तथा स्वशास्त्रस्य = अभ्युपगतदर्शनस्य ज्ञातं = अवगतं तत्त्वं = परमार्थो येन स तथा तेन, एवम्भूतो हि स्वदर्शनं दूषितमदूषितं वा जानातीति सह प्रतिवादिनेति गम्यते, यो वादः स धर्मवाद उदाहृतः = कथितस्तत्त्ववेदिभिः - (अ.१२/६ वृ.) इति ज्ञेया । आत्यन्तिकेति। आत्यन्तिकत्वञ्च प्रमाणप्रतिपाद्यपदार्थाऽप्रतिपत्तिप्रयोजकत्वादिलक्षणं ग्राह्यम् । तेन प्रतिवादिनः प्रज्ञापनीयत्वे सति स्वदर्शनरागसत्त्वेऽपि न कापि क्षतिः । परमभावकारणीभूततात्त्विकमध्यस्थस्वरूपप्रतिपादनपरा → जो णवि वट्टइ रागे णवि दोसे दोण्ह मज्झयारंमि । सो होइ उ मज्झत्थो सेसा सव्वे अमज्झत्था ।। (आ.नि.८०३) इति आवश्यकनियुक्तिगाथाऽप्यत्रानुसन्धेया। अत्यन्तरागादिग्रस्तस्य तु यथावस्थिततत्त्वप्रतिपत्तिरेव न सम्भवति । सम्मतञ्चेदं बौद्धानामपि । यथोक्तं दीघनिकाये → रागरत्ता न दक्खंति तमोखंधेन आवुटा - (दी.नि. २/१/६) इति। स्वयमपि च मैत्रीभावमादाय मध्यस्थतया वाद: कार्यः। एतेन → मित्रस्य चक्षुषा समीक्षामहे - (य.वे.३६/१८) इति यजुर्वेदवचनमपि व्याख्यातम् । अघभीरुणेति । एवंविधो हि पराजयसम्भावनायामपि छलजात्यादिप्रयोक्ता न भवति, न वा मारणोच्चाटनादिकारको भवति । तत्त्वबुद्ध्या = सद्भूताऽर्थान्वेषणप्रवणमत्या । यथोक्तं निशीथचूर्णौ → मतमभ्युपगम्य पञ्चावयवेन त्र्यवयवेन वा पक्ष-प्रतिपक्षपरिग्रहात् छल-जातिविरहितो भूतार्थान्वेषणपरो वादः - (नि.भा.२१३० चूर्णि) इति । वादश्च सभायां जायते । ધર્મસંબંધી શાસ્ત્રના તત્ત્વનો જાણકાર હોવો જોઈએ. કારણકે આવી વ્યક્તિ જ પોતે બોલેલા અથવા વાદીએ બોલેલા વચનથી પોતાના ધર્મના સિદ્ધાન્ત દૂષિત થાય છે કે નહિ ? તે સ્પષ્ટ રીતે જાણી શકે છે. (૨) પ્રતિવાદી મધ્યસ્થ હોવો જોઈએ. એટલે કે પોતાના ધર્મનો આંધળો રાગ કે બીજાના ધર્મ વિશે આંધળો દ્વેષ ન હોવો જોઈએ. આવું હોય તો જ તેને તત્ત્વનું પ્રતિપાદન સરળ બને. (બાકી તો દૃષ્ટિરાગ-દષ્ટિવૈષના લીધે સત્ય તત્ત્વનો પણ તે સ્વીકાર ન કરી શકે.) (૩) તથા પ્રતિવાદી પાપભીરુ. હોવો જોઈએ. કારણ કે આવો પ્રતિવાદી આડેધડ ગમે તેમ બોલતો નથી. આવા પ્રતિવાદીની સાથે વાદ-ચર્ચા કરવામાં આવે તે ધર્મવાદ કહેવાયેલ છે. (૮૪) વિશેષાર્થ :- પ્રતિવાદીમાં સામાન્યથી પોતાના ધર્મનો રાગ તો હોય જ છે. પરંતુ તે રાગ આંધળો ન જોઈએ, દષ્ટિરાગ સ્વરૂપ ન બનવો જોઈએ. આવું હોય તો સાચું સમજાવનાર કોઈ મળી જાય ત્યારે १. हस्तादर्श 'प्रतिपदं' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372