________________
५३१
• अध्यात्मविशुद्ध्या अहिंसकता • “अज्झत्थविसोहीए' जीवनिकाएहिं संथडे लोए । देसियमहिंसगत्तं जिणेहिं तेलुक्कदंसीहिं ।।" (ओ.नि.७४७) तथा "तस्स 'असंचेयओ संचेयओ अ जाइं सत्ताई ।।
जोगं पप्प विणसंति णत्थि हिंसाफलं तस्स ।।" (ओ.नि.७५१) अयतनावतो = यतनावर्जितस्य अपीडनेऽपि = दैवात्परप्राणिपीडनाऽभावेऽपि तत्त्वतः पीडैव भवेत् । तदुक्तंदित्याशङ्कायां ओघनियुक्तिसंवादमाह - ‘अज्झत्थे'ति । द्रोणाचार्यकृततद्व्याख्या चैवम् → नन्विदमुक्तमेव यदुत अध्यात्मविशुद्धया सत्युपकरणे निर्ग्रन्थाः साधवः । किञ्च- यद्यध्यात्मविशुद्धिर्नेष्यते ततः 'जीवनिकाएहिं संथडे लोए' त्ति जीवनिकायैः = जीवसङ्घातैरयं लोकः संस्तृतो वर्त्तते । ततश्च जीवनिकायसंस्तृते = व्याप्ते लोके कथं नग्नकश्चक्रमन् वधको न भवति यद्यध्यात्मविशुद्धिर्नेष्यते, तस्मादध्यात्मविशुद्ध्या देशितमहिंसकत्वं जिनैस्त्रैलोक्यदर्शिभिरिति 6 (ओ.नि.७४७ वृत्ति) । ओघनिर्युक्तो एवाग्रे उक्तं → उच्चालियम्मि पाए ईरियासमियस्स संकमट्ठाए । वावज्जेज्ज कुलिंगी मरिज्ज तं जोगमासज्ज ।। न य तस्स तन्निमित्तो बंधो सुहुमो वि देसिओ समए। अणवज्जो उ पओगेण सव्वभावेण सो जम्हा।। नाणी कम्मस्स खयट्ठमुट्ठिओऽणुद्वितो य हिंसाए । जयइ असढं अहिंसत्थमुट्ठिओ अवहओ सो उ।।
6 (ओ.नि.७४८-४९-५०) इति । एतेन → अज्झवसिदेण बंधो सत्ते मारेउ मा व मारेउ । एसो बंधसमासो जीवाणं णिच्छयणयस्स ।। (स.सा.२६२) इति समयसारवचनमपि व्याख्यातम् । ____ 'तथोक्त्या ओघनियुक्तिगाथामेव ग्रन्थकृद् दर्शयति 'तस्स' इति । द्रोणाचार्यकृततद्व्याख्या चैवम् → तस्य = एवंप्रकारस्य ज्ञानिनः कर्मक्षयार्थमभ्युद्यतस्य असञ्चेतयतः = अजानानस्य, किं ? सत्त्वानि, कथं ? प्रयत्नवतोऽपि कथमपि न दृष्टः प्राणी व्यापादितश्च, तथा सञ्चेतयतः = जानानस्य कथमस्त्यत्र प्राणी ज्ञातो दृष्टश्च न च प्रयत्नं कुर्वताऽपि रक्षितुं पारितः, ततश्च तस्यैवंविधस्य यानि सत्त्वानि योगं = कायादि प्राप्य विनश्यन्ति तत्र नास्ति तस्य = साधोः हिंसाफलं = साम्परायिकं संसारजननं दुःखजननमित्यर्थः । यदि परमीर्याप्रत्ययं कर्म भवति, तच्चैकस्मिन् समये बद्धमन्यस्मिन् समये क्षपयति - (ओ.नि.७५१ वृत्ति) इति । तदुक्तं ओघनिर्युक्तौ → जो य पमत्तो पुरिसो तस्स य जोगं पडुच्च जे सत्ता । वावज्जते नियमा तेसिं सो हिंसओ होइ।। - (ओ.नि.७५२) इति। तद्वृत्तिस्त्येवम् → यस्यैवंविधस्य सम्बन्धिनं योगं = कायादि प्रतीत्य = प्राप्य ये सत्त्वा व्यापाद्यन्ते तेषां = सत्त्वानां नियमाद् अवश्यं सः = पुरुषो हिंसको भवति तस्मात्प्रमत्तताभाजि कर्मबन्धकारणानि - (ओ.नि.७५२ वृत्ति) ।
કારણ કે ઘનિર્યુક્તિમાં જણાવેલ છે કે – પજીવનિકાયથી ૧૪ રાજલોક સંપૂર્ણ ભરેલો હોવા છતાં અધ્યાત્મવિશુદ્ધિથી ત્રિલોકદર્શી જિનેશ્વર ભગવંતોએ અહિંસકપણું બતાવેલ છે. અધ્યાત્મવિશુદ્ધિયુક્ત સંયમીના યોગને પામીને જાણતા-અજાણતાં જે જીવો મરી જાય છે તેની હિંસાનું ફળ = પાપકર્મ બંધ १. हस्तादर्श '...सोहीण' इति पाठः । २. मुद्रितप्रतौ 'संघडे' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ ....देसीहिं..' इति पाठः। ४. मुद्रितप्रतौ 'असंवेयओ संवेयओ' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org