________________
५३०
• यतनासत्त्वे साम्परायिककर्मबन्धाऽयोगः . द्वात्रिंशिका-७/२९ विशिष्टव्यवहारविधेर्विशेष्यबाधेऽपि विशेषणोपसङ्घमान्न व्याघात इत्याहयलतो जीवरक्षार्था तत्पीडाऽपि न दोषकृत् । अपीडनेऽपि पीडैव भवेदयतनावतः ।।२९।। __ यत्नत इति । यत्नतः = सूत्रोक्तयतनया जीवरक्षार्था = स्वरसतो जीवरक्षोद्देशप्रवृत्ता तत्पीडापि = जीवपीडापि न दोषकृत् = न साम्परायिककर्मबन्धकृत् । यत उक्तं
यथा → 'प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा' - (त.सू.७/८) इति तत्त्वार्थसूत्रे प्रमत्तयोगविशिष्टपरप्राणव्यरोपणस्य हिंसात्वं विहितं तत्र विशेष्ये बाधात् प्रमत्तयोग एव निश्चयतः हिंसात्वमुपसङ्क्रामति तथैव 'यतनाविशिष्टपरप्राणरक्षणस्याऽहिंसात्वमिति विशिष्टव्यवहारविधेः विशेष्यबाधेऽपि = अपवादस्थलानुरोधेन परप्राणरक्षणविरहेऽपि विशेषणोपसङ्क्रमात् = यतनायामेव चरितार्थत्वात् न = नैव तत्र साम्परायिककर्मबन्धादिलक्षणः कश्चिद् व्याघातः। एतेन → पमत्तजोगस्स पाणववरोवणं हिंसा - (द. अ.चू.पृ.१२) इति दशवैकालिकचूर्णो अगस्त्यसिंहसूरिवचनं, → मण-वयण-कायेहिं जोगेहिं दुप्पउत्तेहिं जं पाणववरोवणं कज्जइ सा हिंसा 6 (द.वै.जि.चू. पृष्ठ-२०) इति च दशवैकालिकचूर्णी जिनदासगणिवचनं व्याख्यातं द्रष्टव्यमित्याशयेनाह - ‘यत्नत' इति । सूत्रोक्तयतनया = यथा वस्त्रपात्रादावाधाकर्मिकादिपरिहरणाऽधिकाऽग्रहण-प्रकाशकालीनप्रतिलेखन-प्रमार्जन-मूर्छाशून्यप्रवर्त्तनादिरूपया यतनया स्वरसतो जीवरक्षोद्देशप्रवृत्ता = परप्राणसंरक्षणप्रयोजनप्रयुक्ता जीवपीडाऽपि = वायुकायादिजीवबाधाऽपि न = नैव साम्परायिककर्मबन्धकृत् = कषायप्रयुक्तकर्मबन्धकृत् । तदुक्तं व्याख्याप्रज्ञप्तौ → अणगारस्स णं भंते ! भाविअप्पणो पुरओ जुगमायाए पेहाए रीयं रीयमाणस्स पायस्स अह कुक्कुडपोए वा वट्टपोए वा कुलिंगच्छावए वा परियावज्जेज्जा । तस्स णं भंते ! किं इरियावहिया किरिया कज्जइ संपराइया किरिया कज्जइ ? गोयमा! णो संपराइया किरिया कज्जइ, इरियावहिया किरिया कज्जइ - (व्या.प्र.१८/८) इति । एवं विधिनोपकरणधारणेऽपि न निम्रन्थताव्याघातः। तदुक्तं ओघनिर्युक्तौ→ उग्गमउप्पायणासुद्धं एसणादोसवज्जियं। उवहिं धारए भिक्खू अप्पदुट्ठो अमुच्छिओ ।। अज्झत्थविसोहीए उवगरणं बाहिरं परिहरंतो । अप्परिग्गहीत्ति भणिओ जिणेहिं तेलुक्कदंसीहिं ।। उग्गमउप्पायणासुद्धं एसणादोसवज्जियं । उवहिं धारए भिक्खू सदा अज्झत्थसोहिए ।।
6 (ओ.नि.७४४/४५/४६) इति । यथा चैतत्तथा दीक्षाद्वात्रिंशिकायां वक्ष्यते (भा.७, पृ.१९५४)। ननु यधुपकरणसहिता अपि निर्ग्रन्था उच्यन्ते तर्हि गृहस्था अपि निग्रन्थास्स्युरुपकरणसहितत्वा
જયણાપૂર્વક પરપ્રાણની રક્ષા કરવી તે દયા છે' આ પ્રમાણે જે વિશિષ્ટ પ્રકારે વિધાન કરવામાં આવેલ છે તે વિધાન વિશેષણરૂપ જયણામાં ફલિત થતું હોવાથી પરપ્રાણરસાસ્વરૂપ વિશેષ્યનો અભાવ હોય તો પણ કર્મબંધસ્વરૂપ કોઈ વ્યાઘાત = અનિષ્ટ નહિ આવે એવા આશયથી ગ્રીકારશ્રી ફરમાવે છે કે
ગાથાર્થ :- જયણાથી જીવરક્ષા માટે પ્રવૃત્ત થવામાં જીવને પીડા થાય તો પણ તે દોષકારક નથી. તથા જયણા વગરનો જીવ પરપીડા ન કરે છતાં પણ હિંસા થાય જ છે. (૨૯)
ટીકાર્ય - આગમોક્ત જણાપૂર્વક પોતાના હાર્દિક ભાવથી જીવરક્ષાના ઉદેશથી પ્રવૃત્ત થવા છતાં સંયોગવશ સંપન્ન થયેલી પરપીડા પણ કાષાયિક કર્મબંધનું કારણ બનતી નથી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org