________________
• ऋजुसूत्रादिनयाभिमतदयानिरूपणम् •
५२९ ऋजुसूत्रश्च प्रत्येकं प्रत्येकं जीवहिंसां व्यतिरिक्तामिच्छति ।
शब्द-समभिरूदैवम्भूतनयानां चात्मैव हिंसा निजगुणप्रतिपक्षप्रमादपरिणतः, स्वभावपरिणतश्चात्मैवाहिंसेति नयविभागः ।।२८।। इति वा ८ (द्वा.न.च.वृ.अर.७/पृ.७३८) इति द्वादशारनयचक्रवृत्तिकृत्प्रदर्शितः, → उज्जं रुजु सुयं नाणमुज्जुसुयमस्स सोऽयमुज्जुसुओ + (वि.भा.२२२२) इति विशेषावश्यकभाष्यव्याख्यातः, → ‘सतां साम्प्रतानामभिधान-परिज्ञानमृजुसूत्रः' - (त.भा.१/३५) इति तत्त्वार्थभाष्यनिरूपितः, 'ऋजु = वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्रयन्नभिप्रायः ऋजुसूत्रः' (प्र.न.त. ७/२५) इति प्रमाणनयतत्त्वालोकसूत्रदर्शितः, → ऋजु = प्रगुणं = अकुटिलं = अतीतानागतवक्रपरित्यागाद् वर्तमानक्षणविवर्ति वस्तुनो रूपं सूत्रयति = निष्टङ्कितं दर्शयतीति ऋजुसूत्रः (न्याया.२९/पृ.७७) इति सिद्धर्षिगणिना न्यायावतारवृत्तिव्यावर्णितः, → तत्रर्जुसूत्रनीतिः स्यात् शुद्धपर्यायसंश्रिता। नश्वरस्यैव भावस्य भावात् स्थितिवियोगतः।। - इति न्यायावतारवृत्तिटिप्पनकोपदर्शितः ऋजुसूत्रश्च = ऋजुसूत्रनयो हि प्रत्येकं प्रत्येकं जीवहिंसां व्यतिरिक्तां = विभिन्नां इच्छति; 'पुहुत्तं णेच्छइ' (अनु.द्वा. १४) इति अनुयोगद्वारसूत्रवचनात् अतीतानागतयोर्विनष्टानुत्पन्नतयाऽतीतानागतत्वादिधर्मभेदेन वस्तुभेदानुपगमेऽपि प्रतिवस्तु विभिन्नमेव पर्याय स्वकीयं साम्प्रतमभ्युपैति ऋजुसूत्रनयः । ____ अनुयोगद्वारसूत्रादौ व्यावर्णितस्वरूपाणां शब्द-समभिरूढैवम्भूतनयानां च मते निजगुणप्रतिपक्षप्रमादपरिणतः आत्मैव हिंसा, न तु बाह्यप्राणव्यपरोपणादिकम्, तत्सत्त्वेऽपि शुद्धस्य पुरुषस्य तन्निमित्तककर्मबन्धविरहात्, तदसत्त्वेऽपि निजमलिनाऽऽशयतः कर्मबन्धाच्च । तदुक्तं ओघनिर्युक्तौ → जो य पओगं मुंजइ हिंसत्थं जो य अन्नभावेणं । अमणो उ जो पउंजइ इत्थ विसेसो महं वुत्तो।। हिंसत्थं जुजतो सुमहं दोसो अणंतरं इयरो । अमणो य अप्पदोसो जोगनिमित्तं च विन्नेओ ।। रत्तो वा दुट्ठो वा मूढो वा जं पउंजइ पओगं । हिंसावि तत्थ जायइ तम्हा सो हिंसओ होइ ।। न य हिंसामित्तेणं सावज्जेणावि हिंसओ होइ । सुद्धस्स उ संपत्ती अफला भणिया जिणवरेहिं ।।
6 (ओ.नि.७५५, ७५६, ७५७, ७५८) इति ।
एतेन → आत्मगुणस्य नाशो यो हिंसैव कथ्यते बुधैः - (अध्या.गी.१२४) इति अध्यात्मगीतावचनं व्याख्यातम ।।७/२८ ।।
ઋજુસૂત્ર નય દરેક જીવહિંસાને અલગ-અલગરૂપે સ્વીકારે છે. સંગ્રહ નયના મતે કે વ્યવહારના મતે જીવની હિંસા કે જીવોની હિંસા હિંસારૂપે તો સમાન જ છે, એક જ છે. જ્યારે ઋજુસૂત્રનયના મતે કોઈ બે પદાર્થ સમાન ન હોવાથી કીડીની હિંસા, મંકોડાની હિંસા વગેરે વિભિન્ન પદાર્થ છે. અરે ! ૫૦ કીડીની હિંસા કરવામાં આવે ત્યારે ૫૦ પ્રકારની હિંસા ઋજુસૂત્ર નય સ્વીકારે છે. કારણ કે જગતના તમામ પદાર્થ વિલક્ષણ છે. તેથી કોઈ પણ બે જીવની હિંસા એકસરખી ન હોય. એવું ઋજુસૂત્ર નયનું મંતવ્ય છે.)
શબ્દ નય, સમભિરૂઢ નય અને એવંભૂત નયના મતે પોતાના ગુણોના વિરોધી પ્રમાદ વગેરે દોષથી પરિણત થયેલો આત્મા એ જ હિંસા છે તથા ચૈતન્ય સ્વભાવમાં પરિણમેલો જીવ જ અહિંસા छ. सारी हिंसा अने महिंसा पालतम विविध नयोनो अभिप्राय पो. (७/२८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org