Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 264
________________ • ऋजुसूत्रादिनयाभिमतदयानिरूपणम् • ५२९ ऋजुसूत्रश्च प्रत्येकं प्रत्येकं जीवहिंसां व्यतिरिक्तामिच्छति । शब्द-समभिरूदैवम्भूतनयानां चात्मैव हिंसा निजगुणप्रतिपक्षप्रमादपरिणतः, स्वभावपरिणतश्चात्मैवाहिंसेति नयविभागः ।।२८।। इति वा ८ (द्वा.न.च.वृ.अर.७/पृ.७३८) इति द्वादशारनयचक्रवृत्तिकृत्प्रदर्शितः, → उज्जं रुजु सुयं नाणमुज्जुसुयमस्स सोऽयमुज्जुसुओ + (वि.भा.२२२२) इति विशेषावश्यकभाष्यव्याख्यातः, → ‘सतां साम्प्रतानामभिधान-परिज्ञानमृजुसूत्रः' - (त.भा.१/३५) इति तत्त्वार्थभाष्यनिरूपितः, 'ऋजु = वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्रयन्नभिप्रायः ऋजुसूत्रः' (प्र.न.त. ७/२५) इति प्रमाणनयतत्त्वालोकसूत्रदर्शितः, → ऋजु = प्रगुणं = अकुटिलं = अतीतानागतवक्रपरित्यागाद् वर्तमानक्षणविवर्ति वस्तुनो रूपं सूत्रयति = निष्टङ्कितं दर्शयतीति ऋजुसूत्रः (न्याया.२९/पृ.७७) इति सिद्धर्षिगणिना न्यायावतारवृत्तिव्यावर्णितः, → तत्रर्जुसूत्रनीतिः स्यात् शुद्धपर्यायसंश्रिता। नश्वरस्यैव भावस्य भावात् स्थितिवियोगतः।। - इति न्यायावतारवृत्तिटिप्पनकोपदर्शितः ऋजुसूत्रश्च = ऋजुसूत्रनयो हि प्रत्येकं प्रत्येकं जीवहिंसां व्यतिरिक्तां = विभिन्नां इच्छति; 'पुहुत्तं णेच्छइ' (अनु.द्वा. १४) इति अनुयोगद्वारसूत्रवचनात् अतीतानागतयोर्विनष्टानुत्पन्नतयाऽतीतानागतत्वादिधर्मभेदेन वस्तुभेदानुपगमेऽपि प्रतिवस्तु विभिन्नमेव पर्याय स्वकीयं साम्प्रतमभ्युपैति ऋजुसूत्रनयः । ____ अनुयोगद्वारसूत्रादौ व्यावर्णितस्वरूपाणां शब्द-समभिरूढैवम्भूतनयानां च मते निजगुणप्रतिपक्षप्रमादपरिणतः आत्मैव हिंसा, न तु बाह्यप्राणव्यपरोपणादिकम्, तत्सत्त्वेऽपि शुद्धस्य पुरुषस्य तन्निमित्तककर्मबन्धविरहात्, तदसत्त्वेऽपि निजमलिनाऽऽशयतः कर्मबन्धाच्च । तदुक्तं ओघनिर्युक्तौ → जो य पओगं मुंजइ हिंसत्थं जो य अन्नभावेणं । अमणो उ जो पउंजइ इत्थ विसेसो महं वुत्तो।। हिंसत्थं जुजतो सुमहं दोसो अणंतरं इयरो । अमणो य अप्पदोसो जोगनिमित्तं च विन्नेओ ।। रत्तो वा दुट्ठो वा मूढो वा जं पउंजइ पओगं । हिंसावि तत्थ जायइ तम्हा सो हिंसओ होइ ।। न य हिंसामित्तेणं सावज्जेणावि हिंसओ होइ । सुद्धस्स उ संपत्ती अफला भणिया जिणवरेहिं ।। 6 (ओ.नि.७५५, ७५६, ७५७, ७५८) इति । एतेन → आत्मगुणस्य नाशो यो हिंसैव कथ्यते बुधैः - (अध्या.गी.१२४) इति अध्यात्मगीतावचनं व्याख्यातम ।।७/२८ ।। ઋજુસૂત્ર નય દરેક જીવહિંસાને અલગ-અલગરૂપે સ્વીકારે છે. સંગ્રહ નયના મતે કે વ્યવહારના મતે જીવની હિંસા કે જીવોની હિંસા હિંસારૂપે તો સમાન જ છે, એક જ છે. જ્યારે ઋજુસૂત્રનયના મતે કોઈ બે પદાર્થ સમાન ન હોવાથી કીડીની હિંસા, મંકોડાની હિંસા વગેરે વિભિન્ન પદાર્થ છે. અરે ! ૫૦ કીડીની હિંસા કરવામાં આવે ત્યારે ૫૦ પ્રકારની હિંસા ઋજુસૂત્ર નય સ્વીકારે છે. કારણ કે જગતના તમામ પદાર્થ વિલક્ષણ છે. તેથી કોઈ પણ બે જીવની હિંસા એકસરખી ન હોય. એવું ઋજુસૂત્ર નયનું મંતવ્ય છે.) શબ્દ નય, સમભિરૂઢ નય અને એવંભૂત નયના મતે પોતાના ગુણોના વિરોધી પ્રમાદ વગેરે દોષથી પરિણત થયેલો આત્મા એ જ હિંસા છે તથા ચૈતન્ય સ્વભાવમાં પરિણમેલો જીવ જ અહિંસા छ. सारी हिंसा अने महिंसा पालतम विविध नयोनो अभिप्राय पो. (७/२८) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372