Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
५१८
• नानातन्त्रानुसारेण तपःप्रकारप्रदर्शनम् . द्वात्रिंशिका-७/२६ शमादय एव क्षायोपशमिका न तु तप इति चेद् ? न, गुणसमुदायरूपस्य 'तपसोऽशविवेचनेन पृथक्करणेऽतिप्रसङ्गात्, क्रोधादिदोषविरोधेन शमादीनामिव प्रमादादिदोषविरोधेन तपसोऽप्या
वस्तुतः गुणसमुदायरूपस्य = स्वाध्याय-विनय-वैयावृत्त्य-ध्यानादिगुणसमूहात्मकस्य तपसः अंशविवेचनेन = अप्रमत्ततास्वाध्यायाधेशविवेकेन पृथक्करणे = स्वतन्त्रविभागकरणे अतिप्रसङ्गात् = लङ्घनादावतिव्याप्तेः । किञ्च क्रोधादिबाधकत्वाद्यथा शमादीनामात्मगुणत्वं तथैव प्रमादादिबाधकत्वात्तपसोऽपि तथात्वमव्याहतमेवेत्याशयेनाह - क्रोधादीति।
वस्तुतस्त्वनशनादिलक्षणस्यापि जिनाज्ञानुसारिणः तपसः स्वरूपत आत्मगुणत्वमेव अनाहारकत्वस्वभावानुगुणत्वात् । अत एव हारिभद्रीयावश्यकवृत्तौ चरमावश्यकाधिकारनिरूपणावसरे “अनशनादिगुणसन्धारणा प्रत्याख्यानस्य” (आ.नि.७९-पृ.३६) इति गदितम् । इत्थञ्चानाहारत्वस्यात्मस्वभावतयाऽनशनादिरूपेऽपि तपसि विरक्तानामानन्दानुभवोऽनाविल एव । एतेन → स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये ? — (श्री.भा. ७/१५/१४) इति श्रीमद्भागवतवचनमपि व्याख्यातम् ।
किञ्च तत एव तपोऽपि न केवलमुपवासलक्षणमेकविधमेव भगवद्भिरुपदिष्टम्, किन्तु द्वादशधा । यथोक्तं मरणविभक्तिप्रकीर्णके →
अणसणमूणोयरिया वित्तिच्छेओ रसस्स परिचाओ । कायस्स परिकिलेसो छट्ठो संलीणया चेव ।। विणए वेयावच्चे पायच्छित्ते विवेग-सज्झाए । अभिंतरं तवविहिं छटुं झाणं वियाणाहि ।।
6 (म.वि. १२७-१२८) इति । तदुक्तं दशवैकालिकनियुक्तौ → अणसणमुणोअरिया वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ।। पायच्छित्तं विणओ वेआवच्चं तहेव सज्झाओ । झाणं उस्सग्गो वि अ अभिंतरओ तवो होइ ।। - (द.वै.नि.१/४७-४८) इति । परेषामपि नैकविधत्वमेव तपसोऽभिमतम् । तदुक्तं भगवद्गीतायां →
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ।। अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ।। मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ।।
- (भ.गी.१७/१४-१६) इति । प्रकृते → तपः = कायेन्द्रिय-मनसां समाधानम् - (केनो.भा.४/ ३३) इति केनोपनिषच्छाङ्करभाष्यवचनं, → तपो हि स्वाध्यायः - (तै.आ.२/१४) इति → तपो ब्रह्म ( (तै.आ.९/२) इति च तैत्तिरीयाऽऽरण्यकाऽऽपस्तम्बधर्मसूत्रयोः वचनमपि स्मर्तव्यम् ।
પ્રશ્ન :- શમ વગેરે ભાવો જ ક્ષાયોપથમિક છે. તપ કઈ રીતે ક્ષાયોપથમિક ભાવ હોય ?
પ્રત્યુત્તર :- આ પ્રશ્ન વ્યાજબી નથી. કારણ કે અપ્રમત્તતા, સ્વાધ્યાય, વિનય, વૈયાવચ્ચ વગેરે ગુણોના સમુદાયસ્વરૂપ તપ છે. તપના તે તે અંશોને છુટા કરીને પૃથક્કરણ-વિભાગીકરણ કરવામાં આવે તો અતિપ્રસંગ આવે. અર્થાત્ લાંઘણ વગેરેને પણ તપસ્વરૂપ માનવાની અનિષ્ટ આપત્તિ આવે.
વળી, જેમ ક્રોધ વગેરે દોષના વિરોધી હોવાથી સમતા વગેરે આત્માના ગુણસ્વરૂપ છે તેમ પ્રમાદ વગેરે દોષનો વિરોધી હોવાથી તપ પણ આત્માનો ગુણ જ છે. १. मुद्रितप्रतौ 'तपसोऽश....' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372