Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 240
________________ • मैथुनस्य बीजरक्षाकारित्वविधानमसङ्गतम् • ५०५ निवृत्तिः किञ्च युक्ता भो सावद्यस्येतरस्य वा । आद्ये स्याद् दुष्टता तेषामन्त्ये योगाद्यनादरः ।। २३ ।। = 'न = इदमेवाभिप्रेत्य अष्टकप्रकरणे तत्र प्रवृत्तिहेतुत्वात् त्याज्यबुद्धेरसम्भवात् । विध्युक्तेरिष्टसंसिद्धेरुक्तिरेषा न भद्रिका ।। ← (अ.प्र. २०/६ ) इत्युक्तम् । तद्वृत्तिश्चैवम् → उक्तिः मांसभक्षणे दोष' इत्यादिभणनम्, एषा अनन्तराभिहिता इति धर्मिनिर्देशः, न भद्रिका = न शोभना इति साध्यधर्मनिर्देशः । कुतः ? इत्याह तत्र = मैथुनेऽर्थापत्त्या प्रागुपदर्शितदोषे, प्रवृत्तिहेतुत्वात् प्राणिनां प्रवर्तननिबन्धनत्वादिति हेतुः । प्रयोगश्चैवं या प्राणिनां सदोषपदार्थे प्रवृत्तिहेतुभूतोक्तिः सा न भद्रिका, यथा हिंसानिर्दोषतोक्तिः । सदोषमैथुनप्रवृत्तिहेतुश्चेयं न मांसेत्यादिकोक्तिरिति । प्रवृत्तिहेतुत्वमेव कुत इत्याह त्याज्यबुद्धेरसम्भवात् ' त्याज्यं मैथुनमेवम्भूता बुद्धिस्तस्या असम्भवात् अनुत्पादात्, 'न मैथुने दोष' एतामुक्तिं श्रद्दधानस्य कस्य नाम त्याज्यमिदमित्येषा बुद्धिराविरस्तीति त्याज्यबुद्ध्यभावे च को नाम न तत्र प्रवर्त्तत इति । त्याज्यबुद्ध्यसम्भव एव कुत इत्याह विधिर्विधानमनुष्ठानं मैथुनस्य, तस्योक्तिर्भणितिर्विध्युक्तिस्ततो विध्युक्तेः । को हि नाम मैथुने न दोषोऽस्तीति वचनाद्विधेयं मैथुनं न प्रतिपद्यत इति । नन्वनेन वचनेन दोषाभावमात्रमेव मैथुनस्योक्तमिति कथमियं विध्युक्तिः स्यादित्याह, इष्टस्य अनादिमहामोहवासनावासितमानसानां देहिनामभिलषितस्य मैथुनस्येतो मैथुननिर्दोषताभिधायकवचनात् संसिद्धिर्निष्पत्तिः इष्टसंसिद्धिस्ततः इष्टसंसिद्धेः । को हि तस्य निर्दोषतामवगम्य तदिष्टं न निष्पादयति ? इष्टं चेदं सर्वप्राणभृतामिति । आह च " कामिनीसन्निभा नास्ति, देवतान्या जगत्त्रये । यां समस्तोऽपि पुंवर्गो, धत्ते मानसमन्दिरे । ।" ( ) अत उक्तिरेषा न भद्रिकेति व्याख्यातमेव । अथवा उक्तिरेषा न भद्रिकेत्यस्यां प्रतिज्ञायां प्रवृत्तिहेतुत्वादयो भिन्नाश्चत्वारो हेतव इति ← (अष्टकवृत्ति २०/ ६) । इत्थञ्च → मत्तकाशिन्यः सेव्याः ← (बा. सू. ३/६३ ) इति बार्हस्पत्यसूत्रमपि न भद्रकमित्यवधेयम् । अत एव → धर्मा वर्णाश्रमाः सन्तः प्रवृत्ते रोधकाः क्रमात् । निवृत्तेः पोषकाश्चैव मत्यान्तःकरणे मम ।। पराभक्तेः प्रजायन्ते आत्मज्ञानस्य वै पुनः । विकाशका न सन्देहो विद्यते पितरो ! ध्रुवम् ।। ← (शं.गी.२/१३३-१३४) इति शम्भुगीतावचनयोरपि न भद्रकता, मैथुनं न चरेत् ← ( आ.ध.१/१/ २/२६) इति आपस्तम्बधर्मसूत्रादिवचनव्याघातापत्तेश्च । एतेन आर्यजातेर्बीजरक्षाऽऽध्यात्मिकी च क्रमोन्नतिः । पितॄणां वर्धनाऽनल्पा, तत्कृपाप्राप्तिरेव च ।। सहोच्चैर्देवलोकैश्च सम्बन्धस्थापनं भृशम् । विबुधानां प्रसादश्च विश्वमङ्गलसाधकः ।। तथा स्वभावसंसिद्धसंस्कारोदयसाधनम् । बीजरक्षाऽऽत्मबोधस्य कैवल्याधिगमोऽपि च 11 ← (शं.गी.२/१३८-१३९-१४० ) इति शम्भुगीतावचनकारिका निरस्ताः, नानाजीववधाऽविनाभावि - मैथुनप्रवृत्तिगर्भगृहस्थाश्रमप्रवर्तकत्वात्, आत्मबोधादेः तं विनाऽपि सम्भवाच्चेति दिक् ।।७/२२ ।। विकल्पद्वितयमुपन्यस्य मांसभक्षणनिर्दोषतां प्रतिक्षिपन्नाह 'निवृत्ति 'रिति । = Jain Education International = = = ગાથાર્થ :- વળી, સાવઘની નિવૃત્તિ યુક્ત કહેવાય કે નિરવઘની ? જો સાવઘની નિવૃત્તિ યોગ્ય હોય તો મૈથુન દોષગ્રસ્ત સાબિત થશે. તથા નિરવઘની નિવૃત્તિને યોગ્ય માનતા હો તો ધર્મસાધનાયોગ-સંન્યાસ વગેરેનો અનાદર થશે. (૭/૨૩) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372