________________
• मैथुनस्य बीजरक्षाकारित्वविधानमसङ्गतम् •
५०५
निवृत्तिः किञ्च युक्ता भो सावद्यस्येतरस्य वा । आद्ये स्याद् दुष्टता तेषामन्त्ये योगाद्यनादरः ।। २३ ।।
= 'न
=
इदमेवाभिप्रेत्य अष्टकप्रकरणे तत्र प्रवृत्तिहेतुत्वात् त्याज्यबुद्धेरसम्भवात् । विध्युक्तेरिष्टसंसिद्धेरुक्तिरेषा न भद्रिका ।। ← (अ.प्र. २०/६ ) इत्युक्तम् । तद्वृत्तिश्चैवम् → उक्तिः मांसभक्षणे दोष' इत्यादिभणनम्, एषा अनन्तराभिहिता इति धर्मिनिर्देशः, न भद्रिका = न शोभना इति साध्यधर्मनिर्देशः । कुतः ? इत्याह तत्र = मैथुनेऽर्थापत्त्या प्रागुपदर्शितदोषे, प्रवृत्तिहेतुत्वात् प्राणिनां प्रवर्तननिबन्धनत्वादिति हेतुः । प्रयोगश्चैवं या प्राणिनां सदोषपदार्थे प्रवृत्तिहेतुभूतोक्तिः सा न भद्रिका, यथा हिंसानिर्दोषतोक्तिः । सदोषमैथुनप्रवृत्तिहेतुश्चेयं न मांसेत्यादिकोक्तिरिति । प्रवृत्तिहेतुत्वमेव कुत इत्याह त्याज्यबुद्धेरसम्भवात् ' त्याज्यं मैथुनमेवम्भूता बुद्धिस्तस्या असम्भवात् अनुत्पादात्, 'न मैथुने दोष' एतामुक्तिं श्रद्दधानस्य कस्य नाम त्याज्यमिदमित्येषा बुद्धिराविरस्तीति त्याज्यबुद्ध्यभावे च को नाम न तत्र प्रवर्त्तत इति । त्याज्यबुद्ध्यसम्भव एव कुत इत्याह विधिर्विधानमनुष्ठानं मैथुनस्य, तस्योक्तिर्भणितिर्विध्युक्तिस्ततो विध्युक्तेः । को हि नाम मैथुने न दोषोऽस्तीति वचनाद्विधेयं मैथुनं न प्रतिपद्यत इति । नन्वनेन वचनेन दोषाभावमात्रमेव मैथुनस्योक्तमिति कथमियं विध्युक्तिः स्यादित्याह, इष्टस्य अनादिमहामोहवासनावासितमानसानां देहिनामभिलषितस्य मैथुनस्येतो मैथुननिर्दोषताभिधायकवचनात् संसिद्धिर्निष्पत्तिः इष्टसंसिद्धिस्ततः इष्टसंसिद्धेः । को हि तस्य निर्दोषतामवगम्य तदिष्टं न निष्पादयति ? इष्टं चेदं सर्वप्राणभृतामिति । आह च " कामिनीसन्निभा नास्ति, देवतान्या जगत्त्रये । यां समस्तोऽपि पुंवर्गो, धत्ते मानसमन्दिरे । ।" ( ) अत उक्तिरेषा न भद्रिकेति व्याख्यातमेव । अथवा उक्तिरेषा न भद्रिकेत्यस्यां प्रतिज्ञायां प्रवृत्तिहेतुत्वादयो भिन्नाश्चत्वारो हेतव इति ← (अष्टकवृत्ति २०/ ६) । इत्थञ्च → मत्तकाशिन्यः सेव्याः ← (बा. सू. ३/६३ ) इति बार्हस्पत्यसूत्रमपि न भद्रकमित्यवधेयम् । अत एव → धर्मा वर्णाश्रमाः सन्तः प्रवृत्ते रोधकाः क्रमात् । निवृत्तेः पोषकाश्चैव मत्यान्तःकरणे मम ।। पराभक्तेः प्रजायन्ते आत्मज्ञानस्य वै पुनः । विकाशका न सन्देहो विद्यते पितरो ! ध्रुवम् ।। ← (शं.गी.२/१३३-१३४) इति शम्भुगीतावचनयोरपि न भद्रकता, मैथुनं न चरेत् ← ( आ.ध.१/१/ २/२६) इति आपस्तम्बधर्मसूत्रादिवचनव्याघातापत्तेश्च । एतेन आर्यजातेर्बीजरक्षाऽऽध्यात्मिकी च क्रमोन्नतिः । पितॄणां वर्धनाऽनल्पा, तत्कृपाप्राप्तिरेव च ।। सहोच्चैर्देवलोकैश्च सम्बन्धस्थापनं भृशम् । विबुधानां प्रसादश्च विश्वमङ्गलसाधकः ।। तथा स्वभावसंसिद्धसंस्कारोदयसाधनम् । बीजरक्षाऽऽत्मबोधस्य कैवल्याधिगमोऽपि च 11 ← (शं.गी.२/१३८-१३९-१४० ) इति शम्भुगीतावचनकारिका निरस्ताः, नानाजीववधाऽविनाभावि - मैथुनप्रवृत्तिगर्भगृहस्थाश्रमप्रवर्तकत्वात्, आत्मबोधादेः तं विनाऽपि सम्भवाच्चेति दिक् ।।७/२२ ।।
विकल्पद्वितयमुपन्यस्य मांसभक्षणनिर्दोषतां प्रतिक्षिपन्नाह 'निवृत्ति 'रिति ।
=
Jain Education International
=
=
=
ગાથાર્થ :- વળી, સાવઘની નિવૃત્તિ યુક્ત કહેવાય કે નિરવઘની ? જો સાવઘની નિવૃત્તિ યોગ્ય હોય તો મૈથુન દોષગ્રસ્ત સાબિત થશે. તથા નિરવઘની નિવૃત્તિને યોગ્ય માનતા હો તો ધર્મસાધનાયોગ-સંન્યાસ વગેરેનો અનાદર થશે.
(૭/૨૩)
For Private & Personal Use Only
www.jainelibrary.org