________________
• अदोषकीर्त्तने विध्युन्नयनापत्तिः
द्वात्रिंशिका - ७/२२
अदोषेति । तत् = तस्माद् अस्य = मैथुनस्य अदोषकीर्त्तनात् = ' दोषाऽभावप्रतिपादनाद्न
आप्तत्वाऽभिमतकृतप्रशंसया
च मैथुने' इति वचनेन प्रशंसाऽसङ्गता अन्याय्या, विध्युक्तेः विध्युन्नयनाद् इष्टसंसिद्धेः = इष्टसाधनत्वनिश्चयात् परलोकभयनिवृत्तेर्बहूनां लोकानां तत्र प्रवृत्तितः ( = बहुलोकप्रवृत्तितः) ।। २२।।
तस्मात् इत्थीजोणीए संभवंति बेइंदिया उ जे जीवा । इक्को व दो व तिन्नि व लक्खपुहुत्तं च उक्कोसं ।। पंचिंदिया मणुस्सा एगनरभुत्तनारीगब्भम्मि । उक्कोसं नव लक्खा जायंति एगहेलाए । । पुरिसेण सह गयाए तेसिं जीवाण होइ उद्दवणं । वेणुगदिट्टंतेणं तत्तायसिलागनाएणं ।। ← ( सम्बोधसप्ततिकागा. ६३ वृत्तौ उद्धृताः) इत्यादिना आगमतः जीवहिंसाकारकत्वेन सिद्धत्वा त्स्वरूपतो दुष्टस्य मैथुनस्य 'न च मैथुने' इति वचनेन दोषाभावप्रतिपादनात् प्रशंसा अन्याय्या = न्यायापेता; आप्तत्वाभिमतकृतप्रशंसया आप्तत्वेन योऽभिमतः परेषां मनुस्तेन कृतया प्रशंसया 'मैथुनं बलवदनिष्टाननुबन्धित्वे सतीष्टसाधनं, आप्ताभिमतत्वात्, आप्तप्रशंसितत्वाद्वा, दानादिवदित्येवं विध्युन्नयनात् = मैथुनप्रवर्तक-विधिवाक्यानुमानात् मैथुनादिप्रवृत्तौ परलोकभयनिवृत्तेः दुर्गति-दुर्भगत्व-दुर्बलत्वादिभीतिविलयात् बहूनां लोकानां तत्र = मैथुने प्रवृत्तितः । क्षते क्षारनिक्षेपन्यायेन तन्न युज्यते ।
=
किञ्च मांसभक्षण-मैथुनयोर्निर्दोषत्वे तु यन्मांसमश्नीयात् यत् स्त्रियमुपेयात्, निर्वीर्यः स्यात्, नैनमग्निरुपेयात् ← (तै.बा.१1१1९) इति तैत्तिरीयब्राह्मणवचनमप्यनुपपन्नमेव स्यात् । एतेन → ब्रह्मचर्यमेव तद् यद् रात्रौ रत्या संयुज्यते ← ( प्रश्नो. १ / १३ ) इति प्रश्नोपनिषद्वचनं निरस्तम्, ऋतौ रात्रौ मैथुनप्रवृत्तिनिमित्तकजीववधे प्रवर्तकत्वात् । नानुपहत्य भूतानि भोगः सम्भवतीति वक्ष्यते (द्वाद्वा.२४/५ भा.६, पृ.१६२९) । रुधिरसम्पर्कवद्विषप्रसरणन्यायेन भोगतृष्णाया वर्धनान्न तत्प्रशंसाऽर्हति । तदुक्तं बोधिचर्यावतारे विषं रुधिरमासाद्य प्रसर्पति यथा तनौ । तथैव च्छिद्रमासाद्य दोषश्चित्ते प्रसर्पति ।। ← (बो.च.७/६९) इति । एतेन भ्रूणहत्यामवाप्नोति ऋतौ भार्यापराङ्मुखः ← (व्या.स्मृ. २/४५) इति व्यासस्मृतिवचनं, ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति । पितरस्तस्य तन्मांसं तस्मिन् रजसि शेरते ।। ← (बौ.ध.४/१/१/२०, सं.स्मृ. ९९ ) इति बौधायनधर्मसूत्रं संवर्तस्मृतिवचनं च ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्यायां पच्यते नात्र संशयः ।। ← (प.स्मृ. ४/१५, मा.पु.१४/५) इति च पराशरस्मृति - मार्कण्डेयपुराणवचनं निरस्तम्, मिथ्याऽपायदर्शनेन स्वरूपतः सदोषे मैथुने बहुलोकप्रवर्त्तनात् ।
५०४
=
=
Jain Education International
टीडअर्थ :- ‘वेदं अधीत्य स्नायात्' खावं म्हेवा द्वारा मनुस्मृतिमां मैथुननी निर्दोषता भजावेस छे तेना सीधे मैथुन સેવનની પ્રશંસા થાય છે. પરંતુ તે યોગ્ય નથી. કારણ કે આ રીતે વિશ્વસનીય તરીકે માન્ય એવી વ્યક્તિ દ્વારા મૈથુનની પ્રશંસા થવાથી વિધિપ્રત્યયનું = વિધ્યર્થનું=સ્વકર્તવ્યતાનું અનુમાન થશે. (તે આ રીતે-વિવક્ષિત મૈથુનસેવન કર્તવ્યછે, કારણ કે તેની આપ્તપુરુષ દ્વારા પ્રશંસા થયેલ છે. દા.ત. પ્રભુસ્મરણ) આમ મૈથુનમાં વિધ્યર્થવિષયતાનું – કર્તવ્યતાનું ભાન થવાથી ઈષ્ટસાધનતાનો નિશ્ચય થશે. બળવાન અનિષ્ટને નહિ લાવનાર એવી ઈષ્ટસાધનતાનો નિશ્ચય થવાથી મૈથુનસેવન દ્વારા પરલોક બગડવાનો ભય ૨વાના થશે. તેથી અનેક લોકો મૈથુનમાં પ્રવૃત્ત થશે. આમ ‘મૈથુન નિર્દોષ છે' એવું કથન પરંપરાએ અનેકને અબ્રહ્મસેવનમાં પ્રવર્તાવનાર હોવાથી અયુક્તછે. (૭/૨૨)
१. हस्तादर्शे 'दोषाभावादिप्र...' इति पाठः ।
=
For Private & Personal Use Only
www.jainelibrary.org