________________
• ' स्नायादेवे 'त्यवधारणाऽसम्भवः
'वेदं ह्यधीत्य स्नायाद् यदधीत्यैवेति शासितम् ।
स्नायादेवेति न तु यत्ततो हीनो गृहाश्रमः । । तत्र चैतदिति । ” ( अ. २०/३-४) ।।२१।। अदोषकीर्त्तनादस्य प्रशंसा तदसङ्गता । विध्युक्तेरिष्टसंसिद्धेर्बहुलोकप्रवृत्तितः ।। २२ ।। प्रव्रजेद् ← ( या. व. १, पर. हं. २, जाबा. ४ / ३, ना. परि. ३ / ७७) इति याज्ञवल्क्योपनिषत्-परमहंसपरिव्राजकोपनिषत्-जाबालोपनिषद्-नारदपरिव्राजकोपनिषद्वचनमपि व्यर्थं स्यात्, कलत्रसङ्ग्रहपूर्वमेव कस्यचिल्लघुकर्मणो वैराग्यसम्भवात् । व्यासेन अपि ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा पुनः । विरक्तः सर्वकामेभ्यः पारिव्राज्यं समाश्रयेत्।। ← ( यतिधर्मसङ्ग्रह उद्धृत पृ. २) इत्येवं ब्रह्मचारिणोऽपि संन्यासाधिकारित्वमावेदितम् । प्रकृते गौडी माध्वी तथा पैष्टी विज्ञेया त्रिविधा सुरा । चतुर्थी स्त्री सुरा ज्ञेया ययेदं मोहितं जगत् ।। मद्यपानं महापापं नारीसङ्गस्तथैव च । तस्माद् द्वयं परित्यज्य तत्त्वनिष्ठो भवेद् मुनिः । । ← (अव.गी.८/२५-२६) इति अवधूतगीतावचनमप्यत्रानुसन्धेयम् ।
=
=
प्रकृतेऽष्टकप्रकरणसंवादमाह - ' वेदमि 'ति । 'तत्र चैतदिति' अस्यानन्तरं 'अतो न्यायात्प्रशंसाऽस्य न युज्यते' इति शेषः तत्रत्योऽवगन्तव्यः । एतद्वृत्तिश्चैवम् अथ कथमापवादिककल्पत्वं धर्मार्थादिविशेषणयुक्तमैथुनस्येत्याह वेदं ऋगादिकं हिशब्दो वाक्यालङ्कारार्थः, अधीत्य पठित्वा स्नायात् कलत्रसंग्रहाय स्नानं कुर्यात्, इत्यत्र वेदवाक्ये वेदव्याख्यातृभिः, यत् इति यस्मात्, अधीत्यैव वेदं पठित्वैव, नापठित्वा स्नायादित्येवमवधारणं शासितं व्याख्यातमिति । विपर्ययमाह - 'वेदमधीत्य स्नायादेव वेदाध्ययनानन्तरं कलत्रसंग्रहाय स्नानं कुर्यादेव', इति एवं न तु न पुनरवधारणं शासितम्। अत औत्सर्गिको मैथुनपरिहार आपवादिकं मैथुनमित्यभिहितम् । अनेन चापवादिकेऽपि तत्र रागभावसूचनातो रागजन्यत्वहेतोः पक्षैकदेशासिद्धता परिहृता । अथाधिकृतवाक्यार्थनिगमनायाह यत् इति यस्मादेवमवधारणविधिः ततः = तस्मात्कारणात् हीनो = जघन्यः गृहाश्रमो गृहस्थत्वं यत्यामैथुनं धर्मार्था
श्रमापेक्षयेति गम्यम् । ततः किमित्याह तत्र च = तस्मिन् पुनर्गृहस्थाश्रमे एतत् दिविशेषणं सम्भवति, तत्रैव दारसङ्ग्रहात् । अतः = एतस्मात्, न्यायात् नीतेः प्रशंसा = श्लाघा अस्य = मैथुनस्य न युज्यते = न घटते, यत्याश्रमापेक्षया हीनगृहाश्रमसम्भवित्वेन हीनत्वादस्येति ← ( अष्टक - २०/३ वृत्ति) । अत एव न मांसमश्नीयात्, न स्त्रियमुपेयात् ← (बौ.ध.१/११/२१/२०) इति तैत्तिरीयब्राह्मण-बौधायनधर्मसूत्रयोः वचनं प्रागुक्तं (पृ.४८६) देश-कालानवच्छेदेन प्रामाणिकमवसेयम् ।।७/२१ ।। 'न मांसभक्षणे दोषो न मद्ये न च मैथुने' इत्यादेः सदोषत्वमाविष्करोति 'अदोषे' ति ।
માટે અષ્ટકજીમાં જણાવેલ છે કે → વેદને ભણીને પત્નીસ્વીકાર કરવા માટે સ્નાન કરવું જોઈએ’ આ વેદવચનમાં ‘ભણીને જ' આ પ્રમાણે અર્થઘટન કરવાની શાસ્રકારોની શિક્ષા છે, નહિ કે વેદને ભણીને પત્નીસ્વીકાર કરવા માટે સ્નાન કરવું જ’- આ પ્રમાણેનું અર્થઘટન કરવાની. આ સૂચવે છે કે સંન્યાસ કે બ્રહ્મચર્યધારણની અપેક્ષાએ ગૃહસ્થાશ્રમ હીન છે અને તે ગૃહસ્થાશ્રમમાં આ મૈથુન છે. ← (૭/૨૧) ગાથાર્થ :- ‘મૈથુન નિર્દોષ છે' એવું કહેવાથી તેની પ્રશંસા થાય છે. તે અસંગત છે. કારણ કે આ રીતે મૈથુનની વિધેયતા જણાવાથી તેમાં ઈષ્ટસાધનતા સિદ્ધ થવાના લીધે અનેક લોકોની તેમાં પ્રવૃત્તિ થાયછે. (૭/૨૨)
१. हस्तादर्शे 'यदेधी..' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'यादे...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
-
=
=
=
=
=
=
=
५०३
www.jainelibrary.org