________________
५०२
• ब्रह्मचारिणोऽपि संन्यासाधिकारित्वम् • द्वात्रिंशिका-७/२१ तत् = तस्माद् 'वेदमधीत्य स्नायादेवे'त्यनवधारणाद् असावर्थो 'गृहस्थतां = कलत्रसङ्ग्रहलक्षणां हीनां = औत्सर्गिकमैथुनपरिहाराऽपेक्षया जघन्यामापवादिकी ब्रूते । तदुक्तंवेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ।। 6 (मनु.३/ २) इति मनुस्मृतौ अप्यध्याहृत एवकारोऽधीत्यपदोत्तरं योज्यः । याज्ञवल्क्यस्मृतौ तु → गुरवे तु वरं दत्त्वा स्नायाद्वा तदनुज्ञया। वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा ८ (या.व.आचाराध्याय १/५१) इत्येवं स्पष्टमेव वेद-व्रततदुभयान्यतमसमभिव्याहृत एवकारः कण्ठत उक्तः । ततश्चाऽऽकौमाराद्यतित्वपालनसहिष्णोस्संन्यासाश्रमोपादानमेव श्रेय इति द्योतितम् ।
इत्थमेव सहिष्णुमुद्दिश्य → अधीत्य च गुरोर्वेदान् वेदौ वा वेदमेव वा। गुरवे दक्षिणां दद्यात् संयमी ग्राममावसेत् ।। - (ल.हा.३/१०) इति लघुहारीतस्मृतिप्रतिपादितं सङ्गच्छेत । → वेदानधीत्यानुज्ञात उच्यते गुरुणाऽऽश्रमी 6 इति (कुं.१) इति कुण्डिकोपनिषद्यपि 'अधीत्य'पदोत्तरमेवकारोऽध्याहार्यः । वात्स्यायनेनाऽपि कामसूत्रे → ब्रह्मचर्यमेव त्वाऽऽविद्याग्रहणात् + (का.सू.२/६) इत्येवमेवकारोपदर्शनाद् ब्रह्मचर्यप्राधान्यमाविष्कृतम् । तदुक्तं जयमङ्गलाख्यायां तट्टीकायां यशोधरेणाऽपि → यावद् विद्या न गृह्यते तावत्कामं न सेवेत, अन्यथा ह्यधर्मः तद्ग्रहणविघाततः - (का.सू.२/६ ज.मं.) इत्युक्तम् ।
→ भग्नशून्याऽमरौकःसु वासिनो ब्रह्मचिन्तकाः । एते परमहंसा वै नैष्ठिका ब्रह्मभिक्षवः ।। (बृ.परा.१२/१७३) इति बृहत्पराशरस्मृतेः, → निवृत्तिमार्ग-निष्कामकर्मणोः सर्वथा क्षमः । संन्यासधर्म एवाऽस्ति सर्वश्रेष्ठोऽत्र भूतले ।। - (सं.गी.५/३) इति संन्यासगीतायाः चाऽनुपपत्तेः 'वेदमधीत्य स्नायादेवे'त्यनवधारणात् ।
किञ्च यदि 'स्नायादेवे'त्यभिमतं स्यात, न स्यात्तदा ब्रह्मचर्याश्रम-वानप्रस्थाश्रमद्वयमात्रानन्तरं वैकल्पिकः चतुर्थाश्रमाङ्गीकारोपदेशः, प्रतिपादितश्च स “आश्रमत्रयधर्मान्वा चरित्वा प्राक् द्विजास्ततः । द्वयस्य वा ततः पश्चाच्चतुर्थाश्रममाचरेत् ।।" (बृ.परा.१२/१२०) इत्यादिना बृहत्पराशरस्मृतौ । परमहंसपरिव्राजकोपनिषदि → ब्रह्मचर्यं समाप्य गृही भवेत् । गृहाद् वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् + (पर.हं.१) इति यदुक्तं, यच्च → ब्रह्मचर्यं समाप्य गृही भवेत्, गृही भूत्वा वनी भवेत्, वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद् 6 (ना.परि.३/७६, जाबा.४/ १) इत्यादिना नारदपरिव्राजकोपनिषदि जाबालोपनिषदि चोक्तं तदपि औत्सर्गिमैथुनपरिहारापेक्षया गृहस्थतां जघन्यां आपवादिकी वृत्तिं ब्रूते । गृहस्थाश्रमस्याऽवश्यकरणीयत्वे तु → यदहरेव विरजेत् तदहरेव નથી. (અર્થાત્ “પત્નીનો સ્વીકાર કરવો હોય તો વેદોને ભણીને જ પત્ની નિમિત્તક સ્નાન કરવું. પત્નીનો સ્વીકાર ન કરવો હોય તો તગ્નિમિત્તક સ્નાન વેદપાઠ પછી પણ ન કરવામાં આવે તો તે ઉત્તમ જ છે.) આવા પ્રકારનો “જ' કારનો પ્રયોગ સૂચવે છે કે સંન્યાસ કે અખંડબ્રહ્મચર્યધારણની અપેક્ષાએ લગ્ન કરીને સંસાર માંડવો તે હીન જ છે. ઔત્સર્ગિક રીતે મૈથુનત્યાગ એ જ કર્તવ્ય છે. તેની અપેક્ષાએ લગ્ન કરવા, ગૃહસ્થાશ્રમ માંડવો તે નિમ્ન કક્ષાએ છે, આપવાદિતુલ્ય ભૂમિકામાં છે. १. हस्तादर्श 'गृहस्थ.' इति पाठः । २. 'जघन्यमा...' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org