Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
४८४ • पक्षहेत्वभेदापत्तिः .
द्वात्रिंशिका-७/१६ न, तथापि 'न मांसभक्षणे दोषः' (मनु.५/५६) इत्यत्र मांसभक्षणपदस्य शास्त्रीयमांसभक्षणपरत्वे तददुष्टत्वे साध्ये भूतप्रवृत्तिविषयत्वस्य हेतोरनैकान्तिकत्वात् ।।
प्रवृत्तौ विहितत्वविशेषणप्रक्षेपे च विशेष्यभागस्य वैयर्थ्यात्, फलतः 'पक्षहेत्वोरविशेषाऽऽपत्तेश्च ।
उत्तरपक्षयति- 'ने'ति । तथापि = 'निवृत्तिस्तु महाफला' इत्यत्र निवृत्तिपदस्य पारिव्राज्यपरत्वाऽभ्युपगमेऽपि 'न मांसभक्षणे दोषः' इत्यत्र मांसभक्षणपदस्य शास्त्रीयमांसभक्षणपरत्वे = वैधमांसादनबोधजननेच्छयोच्चरितत्वे स्वीक्रियमाणे मांसभक्षणत्वमुपलक्षणीकृत्य वैदिकमांसादनस्य निर्दोषत्वसाधनाय 'शास्त्रीयमांसभक्षणमदुष्टं भूतप्रवृत्तिविषयत्वात् सम्प्रतिपन्नवत्' इति अनुमाने तददुष्टत्वे = शास्त्रीयमांसभक्षणस्य निर्दोषत्वे साध्ये भूतप्रवृत्तिविषयत्वस्य हेतोः अनैकान्तिकत्वात् = व्यभिचारित्वात्; अशास्त्रीयमांसभक्षणपरदारगमनादौ भूतप्रवृत्तिविषयत्वस्य सत्त्वेऽपि निर्दोषताया विरहात्, अन्यथा → एकतश्चतुरो वेदान् ब्रह्मचर्यं च एकतः । एकतः सर्वपापानि मद्यं मासं च एकतः ।। 6 (औ.स्मृ.३/४८) इति औशनसस्मृतिवचनस्याऽनुपपत्तेः । प्रथमं मांसभक्षणस्य निर्दोषत्वघोषणं तदनन्तरं तद्धेतुगवेषणं साध्यपरिष्कारकरणञ्चात्र मुण्डितशिरोनक्षत्रान्वेषणन्यायाऽनुपाति भाति ।
ननु शास्त्रविहितभूतप्रवृत्तिविषयत्वस्य हेतुत्वे नास्ति व्यभिचारः, अशास्त्रीयमांसादन-परदारगमनादौ भूतप्रवृत्तिविषयत्वस्य सत्त्वेऽपि निरुक्तविशिष्टहेतोर्विरहादिति चेत् ? न, इत्थं प्रवृत्तौ = हेतुघटकीभूतप्रवृत्तौ विहितत्वविशेषणप्रक्षेपे च = हि व्यभिचारविरहेऽपि विशेष्यभागस्य भूतप्रवृत्तिविषयत्वलक्षणस्य वैयर्थ्यात् = 'शास्त्रीयमांसभक्षणमदुष्टं विहितत्वादि'त्यस्यैवावश्यक्लृप्तत्वेन हेतुविशेष्यविधया भूतप्रवृत्तिविषयत्वस्याङ्गीकारे व्यर्थगौरवात् । एतेन फलमुखगौरवोक्तिरपि निरस्ता, अप्रामाणिकत्वात् । न च तर्हि विहितत्वस्यैवास्तु हेतुता, तथापि शास्त्रीयमांसभक्षणे निर्दोषतायाः सिद्धिः स्यादेवेति वाच्यम्, तथोपगमे फलतः = शास्त्रविहितमांसभक्षणपक्षक-निर्दोषत्वसाध्यक-शास्त्रविहितत्वहेतुकानुमितिलक्षणफलमाश्रित्य पक्ष-हेत्वोः = पक्षतावच्छेदक-हेत्वोः अविशेषापत्तेः = साम्यापातात् । तथा च न ततो निरुक्तानुमितिसिद्धिः सम्भवति,
ઉત્તરપક્ષ :- ના, આ વાત પણ વ્યાજબી નથી. કારણ કે તમે જે કહો છો તેનો સ્વીકાર કરવામાં भावे तो ५९ 'न मांसभक्षणे दोषः' मा प्रभारी मनुस्मृतिना क्यनमा मांसमक्षा शनी शास्त्रीयमांसભક્ષણસ્વરૂપ અર્થમાં લક્ષણા કરવામાં આવે અને તેની નિર્દોષતાને સિદ્ધ કરવી અભિપ્રેત હોય તો ભૂતપ્રવૃત્તિવિષયત્વ' એવો હેતુ વ્યભિચારી બની જશે. કારણ કે જીવની પ્રવૃત્તિનો વિષય તો શાસ્ત્રીય માંસભક્ષણની જેમ અશાસ્ત્રીયમાંસભક્ષણ, પરસ્ત્રીગમન, જુગાર, શિકાર, ચોરી, લૂંટફાટ, ખૂન વગેરે પણ છે. તેથી તેને પણ નિર્દોષ માનવા પડશે. પણ તે તો દોષગ્રસ્ત તરીકે જ પ્રસિદ્ધ છે. તેમાં ભૂતપ્રવૃત્તિવિષયવસ્વરૂપ હેતુ રહી જવાથી હેતુ અનૈકાન્તિક = વિસંવાદી = વ્યભિચારી બની જશે. સાધ્યશૂન્યમાં રહેતો હેતુ વ્યભિચારી કહેવાય છે. તેવા હેતુ દ્વારા પક્ષમાં = શાસ્ત્રીયમાંસભક્ષણમાં સાધ્યની = નિર્દોષતાની સિદ્ધિ થઈ ન શકે.
पूर्वपक्षी त२६थी 'विहितत्वे सति भूतप्रवृत्तिविषयत्वात्' । रीत हेतुनो प्रयोग ४२वामा मावे તો તે પણ વ્યાજબી નથી. કારણ કે પ્રસ્તુત હેતુના ઘટક તરીકે બતાવેલ વિહિતત્વ' આ વિશેષણ જ નિર્દોષત્વની सिद्धि ४२वामां समर्थ होपाथी 'भूतप्रवृत्तिविषयत्व' मा विशेष्य अंश व्यर्थ बनी ४२. तथा मात्र विस्तत्वने १. हस्तादर्श 'फलहेत्वो...' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org