Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
३८२
• बहुश्रुतानामपि मिथ्यादृशां विषयप्रतिभासज्ञानम् • द्वात्रिंशिका-६/३ क्षयोपशमस्तस्मात् (=अज्ञानाऽऽवरणाऽपायात्) । तदाह- ''अज्ञानावरणापायं' (अ.९/३) इति । ग्राह्यत्वादीनाम् = उपादेयत्वादीनां अविनिश्चयः = अनिर्णयो यतस्तत् (=ग्राह्यत्वाद्यविनिश्चयम्)। तदाह- 'तद्धेयत्वाद्यवेदक'मिति (अष्टक- ९/२) ।
यद्यपि मिथ्यादृशामपि घटादिज्ञानेन घटादिग्राह्यता निश्चीयत एव, तथापि स्वविषयत्वावच्छेदेन तदनिश्चयान्न दोषः, स्वसंवेद्यस्य स्वस्यैव तदनिश्चयात् ।।३।। अष्टकसंवादमाह- ‘अज्ञानावरणापायमिति । “मत्यज्ञानावरणादिकर्मक्षयोपशमहेतुकमित्यर्थः अथवा अविद्यमानो ज्ञानावरणापायो यत्र तत्तथा" इति तद्वृत्तौ श्रीजिनेश्वरसूरयः । ‘महापायनिबन्धनमि'त्युक्त्या (अ.प्र. ९/३) अष्टकप्रकरणे तत्फलमप्यावेदितम् । कथं मुग्धरत्नादिप्रतिभासतुल्यत्वमस्य ? इत्याश
ङ्कायामाह उपादेयत्वादीनां अनिर्णयः = सम्यग्निश्चयाभावो यतः = यस्मात् तत् । ___अष्टकसंवादमाह-'तद्धेयत्वाद्यवेदकम्'। → तेषां ज्ञेयविषयाणां हेयत्वादि = हेयत्वमुपादेयत्वमुपेक्षणीयत्वञ्चेत्यर्थः, तस्याऽवेदकं = अनिश्चायकं = तद्धेयत्वाद्यवेदकम् । यथा बालादिप्रतिभासो विषादिविषयस्य रूपादिमात्रमेवाध्यवस्यति, न तु हेयत्वादिकं तद्धर्मम् । एवं यत् ज्ञानं बहुश्रुतानामप्यभिन्नग्रन्थीनां मोहमलमलीमसमानसत्वेनातत्त्वानां हेयतायास्तत्त्वानाञ्चोपादेयताया विमर्शाक्षमं तत्त्वातत्त्वयोः समतावभासकं विपर्ययावभासकं वा तद्विषयप्रतिभासमिति - (अ.प्र.९/२ वृ.) तद्वृत्तौ श्रीजिनेश्वरसूरयः । अत एव परमार्थतो ज्ञातृत्वमपि न मिथ्यादृशां सम्भवति । तदुक्तं द्वादशारनयचक्रे → यो हि संज्ञेयं जानीते स तु मुख्यो ज्ञाता, यथा सलिलं सलिलमिति विद्वान् । यः पुनः असंज्ञेयं विजानीते स तु न ज्ञाता, यथा मृगतृष्णिकां सलिलमिति विद्वान् + (द्वा.न.च.पृ.३३३)इति ।
यद्यपि मिथ्यादृशामपि घटादिज्ञानेन घटादिग्राह्यता = घटादिनिष्ठोपादेयता निश्चीयते = प्रमीयते एव । न हि स्वस्थदशायां मिथ्यादृशोऽपि विषादिकमुपादेयतया रत्नादिकञ्च हेयतया मन्यन्ते व्यवहरन्ति वा । तथापि स्वविषयत्वावच्छेदेन तदनिश्चयात् = ग्राह्यतादिनिर्णयविरहात् न अव्याप्तिलक्षणो दोषः । ज्ञानविषयता यथा घटादौ बाह्यार्थे वर्तते तथैव स्वस्मिन्नपि वर्तत एव, ज्ञानस्य स्वसंविदितत्वाभ्युपगमात् । यत्र यत्र ज्ञानीयविषयता वर्तते तत्र सर्वत्र हेयत्वादिनिर्णयो मिथ्यादृशां न जायते, स्वसंवेद्यस्य स्वस्यैव = स्वात्मकज्ञानस्यैव तदनिश्चयात् = हेयत्वादिनिर्णयविरहात् ।
અષ્ટકજીમાં પણ “અજ્ઞાનાવરણના બ્રાસથી વિષયપ્રતિભાસ જ્ઞાન ઉત્પન્ન થાય છે.” આમ જણાવેલ છે. વિષયપ્રતિભાસ જ્ઞાન દ્વારા તેના વિષયમાં ઉપાદેયત્વ વગેરે ગુણધર્મોનો નિશ્ચય થતો નથી. અષ્ટકજીમાં પણ આમ જ જણાવેલ છે.
જો કે મિશ્રાદષ્ટિ જીવોને પણ ઘડા વગેરેના જ્ઞાનથી ઘડા વગેરેમાં ઉપાદેયતાનો નિર્ણય તો થાય જ છે. પરંતુ તે જ્ઞાનના જેટલા વિષય છે તે તમામમાં ઉપાદેયતા વગેરેનો નિશ્ચય તેને હોતો નથી. જેમ કે તે જ્ઞાન સ્વસંવેદ્ય = સ્વયં દ્વારા જ જણાનાર હોય છે. તેમ છતાં તે મિથ્યાજ્ઞાનમાં રહેલ હેયતા વગેરે ગુણધર્મોનો નિશ્ચય તેને નથી હોતો. માટે વિષયપ્રતિભાસજ્ઞાનના લક્ષણમાં અવ્યાપ્તિ દોષ નહિ આવે. (૬/૩) १. हस्तादर्श ‘अज्ञानावराणा...' इत्यशुद्धः पाठः । २. हस्तादर्श ...नियतः...' इति त्रुटितोऽशुद्धश्च पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org