Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
४५१
• मातृक्षीरस्य लोहितत्वनिराकरणम् • दुभयोरविशेषः । एष न्यायोऽत्राऽपि = अधिकृतेऽप्यवतरति, प्राण्यङ्गत्वेऽप्योदनादेर्भक्ष्यत्वस्य मांसा-देश्चाभक्ष्यत्वस्य व्यवस्थितत्वात् । तदुक्तं - ____ 'तत्र प्राण्यङ्गमप्येकं भक्ष्यमन्यत्तु नो तथा । सिद्धं गवादिसत्क्षीर-रुधिरादौ तथेक्षणात्' ।। (अष्टक.१७/३) । नो चेत- यदि च नैवमभ्युपगम्यते तदा तव भिक्षुमांसादिकं तथा = भक्ष्यं स्यात्, प्राण्यङ्गत्वाऽविशेषात् ।' प्राण्यङ्गं सद् भक्ष्यञ्चाऽभक्ष्यञ्चोपलब्धमिति सपक्ष-विपक्षवृत्तित्वादनैकान्तिकः प्राण्यङ्गत्वहेतुः । ‘गवां क्षीरं पेयतया लोके शास्त्रे च न निषिध्यते; रुधिर-मांसे तु नानुमन्येते' इति प्रसिद्धम् । एष न्यायः = लोक-शास्त्रप्रसिद्धपेयाऽपेयव्यवस्थालक्षणदृष्टान्तः अधिकृतेऽपि = ओदनादि-मांसाद्योरपि अवतरति = स्वसामर्थ्यलब्धाऽवकाशत्वेन भक्ष्याऽभक्ष्यविभागद्योतनकृते प्रसरति ।
यदि च एवं = 'प्राण्यङ्गत्वं न भक्ष्यत्वप्रयोजकं, अधर्माऽजनकभक्षणकत्वमेव भक्ष्यपदप्रवृत्तिनिमित्तं, न तु शक्यभक्षणकत्वमिति नाभ्युपगम्यते बौद्धेन त्वया तदा तव सौगतस्य भिक्षुमांसादिकं = बौद्धसाधुशरीरगतं मांसादिकमपि भक्ष्यं स्यात्, प्राण्यङ्गत्वाऽविशेषात् = प्राण्यङ्गत्वस्य गोमांसवत् बौद्धसाधुमांसादावपि समानत्वात् । न हि तद्भक्षणक्रियाऽप्यशक्या ।
यत्तु मज्झिमनिकाये महातृष्णासङ्क्षयसूत्रे सुगतेन → लोहितज्हेतं भिक्खवे ! अरियस्स विनये यदिदं मातुथनं 6 (म.नि.१/४/८/४०८/पृष्ठ-३३७) (लोहितं ह्येतद् भिक्षवः ! आर्यविनये = बौद्धधर्मे यदिदं मातृस्तन्यम्- इति अक्षरयोजना) इत्युक्तं तदसत्, प्रसिद्धाऽविगीतशिष्टाचारबाधितत्वात्, स्वारसिकाऽबाधिताऽनुभवविरोधात्, सुगतलोहितस्याऽपि बौद्ध भिक्षुपेयत्वप्रसङ्गाच्च ।
एतेन → अदिद्वं, असुतं, अपरिसंकितं- इमेहि खो, अहं जीवक ! तीहि ठानेहि मंसं परिभोगं ति वदामि 6 (म.नि.जीव-कमुत्त २/१/५/५२) इति मज्झिमनिकाये सुगतवचनं निरस्तम् बौद्ध भिक्षुकोद्देशेनोपस्कृतस्यापि तथारूपेणाऽदृष्टाऽश्रुताऽपरिशङ्कितसुगतमांसस्याऽपि बौद्धसाधूनां भक्ष्यत्वापत्तेश्चेति दिक् ।
किञ्च प्राण्यङ्गत्वमात्रस्य भक्ष्यत्वप्रयोजकत्वाभ्युपगमे यत्किल भक्षयितुमशक्यमस्थि-शृङ्ग-खुरादि तदपि भक्ष्यं स्यात्, प्राण्यङ्गत्वाऽविशेषात् । ततश्चाभक्ष्यस्य भक्ष्यत्वाऽऽपादनेन प्राण्यङ्गत्वहेतुरस्थ्यादौ ગાયનું દૂધ વગેરે પીવા યોગ્ય છે, નહિ કે લોહી વગેરે. દૂધ અને લોહી - આ બન્ને સમાન રીતે ગાયનું અંગ હોવા છતાં તે બન્ને પીવા લાયક નથી. આ જ તર્ક ભક્ષ્ય- અભક્ષ્ય પદાર્થની વ્યવસ્થામાં પણ લાગુ પડે છે. તે આ રીતે કે પ્રાણીસંગત ભાત અને માંસમાં સમાન હોવા છતાં ભાત વગેરે ભક્ષ્ય છે અને માંસ વગેરે અભક્ષ્ય છે. આ અંગે અષ્ટકજીમાં પણ જણાવેલ છે કે – “પ્રાણી અંગ હોવા છતાં એક ભક્ષ્ય છે અને બીજું ભક્ષ્ય નથી. આમ લોકમાં અને શાસ્ત્રમાં પ્રસિદ્ધ છે. ગાયસંબંધી ९५ भने सोही गेम ते भु४५ हेमाय छे.' 6
જો ઉપર જણાવ્યું તે મુજબ માનવામાં ન આવે તો બૌદ્ધ વિદ્વાનો માટે બૌદ્ધ સાધુનું માંસ પણ ભક્ષ્ય બનશે, કારણ કે પ્રાણીસંગત્વ નામનો ગુણધર્મ તો ભાત વગેરેની જેમ તેમાં પણ રહેલો જ છે. ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org