Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
४८० • श्राद्धान्नादिभोजननिषेधः .
द्वात्रिंशिका-७/१६ रर्थः, तस्य चैवं प्रयोगः ‘अविधिना मांसमखादन्निर्दोष एव, यथाविधि नियुक्तः पुनः यो मांसं नात्ति 'वै' इति निपातो वाक्याऽलङ्कारार्थः, द्विजः = विप्रः स प्रेत्य = परलोके पशुतां = तिर्यग्भावं याति सम्भवनानि = सम्भवा = जन्मानि तान् (=सम्भवान्) एकविंशतिम् ।।१५।। अधिकारपरित्यागात् पारिवाज्येऽस्तु तत्फलम् । इति चेत्तदभावे नाऽदुष्टतेत्यपि सङ्कटम् ।।१६।। मानवः । स प्रेत्य पशुतां याति सम्भवानेकविंशतिम् ।। - (मनु.स्मृ.५/३५) इति कारिकोपलभ्यते । कुल्लूकभट्टकृता च तद्व्याख्या → श्राद्धे मधुपर्के च यथाशास्त्रं नियुक्तस्सन् यो मनुष्यो मांसं न खादति स मृतः सन्नेकविंशतिजन्मानि पशुर्भवति । 'यथाविधि नियुक्तस्तु' इत्येतन्नियमातिक्रमफलविधानमिदम् 6 (मनु.५/३५-वृत्ति) इत्येवं वर्तते । तदुक्तं कूर्मपुराणे अपि → आमन्त्रितस्तु यः श्राद्धे दैवे वा मांसमुत्सृजेत् । यावन्ति पशुरोमाणि तावतो नरकान् व्रजेत् ।। - (कू.पु.उपरि.१७/४१) इति ।
मूलग्रन्थे 'वै द्विजः' इति यदुक्तं तत्स्थाने 'मानवः' इति पठित्वाऽवशिष्टा सकलैव कारिका तथैव मनुस्मृतिगतत्वेनोपदर्शिता → प्राणात्यये तथा श्राद्धे प्रोक्षिते द्विजकाम्यया । देवान् पितॄन्समभ्यर्च्य खादन्मांसं न दोषभाक् ।। 6 (या.स्मृ.१/१७९) इति याज्ञवल्क्यस्मृतेः मिताक्षरावृत्तौ विज्ञानेश्वरेणेति ध्येयं संशोधनपरायणैः। परं भिक्षोस्तु श्राद्धान्नभोजनं निषिद्धमेव। तदुक्तं आपस्तम्बधर्मसूत्रे → श्राद्धभोजी यतिर्नित्यमाशु गच्छति शूद्रताम् । तादृशं कल्मषं दृष्ट्वा सचेलो जलमाविशेत् ।। - (आ.ध.सू. ) इति। यथोक्तं जैमिनिना अपि → श्राद्धान्नं यस्य कुक्षौ तु, मुहूर्त्तमपि वर्तते। भिक्षोः चत्वारि नश्यन्ति, आयुः प्रज्ञा यशो बलम् ।। - (जै.स्मृ. ) इति। तदुक्तं बृहस्पतिनाऽपि → श्रवणं मननं ध्यानं, ज्ञानं स्वाध्याय एव च। सद्यो निष्फलतां याति, सकृच्छ्राद्धान्नभोजनात् ।। (बृह. ) इति ध्येयम् ।
__ एतेन → नियुक्तस्तु यतिः श्राद्धं देवे वा मांसमुत्सृजेत् । यावन्ति पशुरोमाणि तावन्नरकमृच्छति ।। - (इति.८/९) इति इतिहासोपनिषद्वचनं तु प्रत्याख्यातम् । यथोक्तं पैगलोपनिषदि अपि → दग्धस्य दहनं नास्ति पक्वस्य पचनं यथा । ज्ञानाग्निदग्धदेहस्य न च श्राद्धं न च क्रिया ।। - (पै.४/७) इति । तदुक्तं शाण्डिल्यसंहितायामपि → मद्य-मांसादिवस्तूनि नियुक्तोऽपि न यः स्पृशेत् । न च हिंसारुचिर्यस्य तस्य तुष्यति केशवः ।। - (शां.सं.भक्ति.३/११/३७) इति ।।७/१५।। भांस पातो नथी ते मेवी ४न्म सुधी पशु५९॥ने पाभे छे. भूज ॥थामा 'तु' २०६ 'पुनः' अर्थमा છે. તેથી અર્થ આવો ફલિત થાય છે કે અવિધિથી માંસને નહિ ખાનાર નિર્દોષ જ છે. પણ જે યથાવિધિ નિયુક્ત હોવા છતાં માંસ નથી ખાતો તે ૨૧ જન્મ સુધી પશુ બને છે. (૭/૧૫)
વિશેષાર્થ :- ઉપરોક્ત શ્લોક બતાવવાની પાછળ આશય એ છે કે અશાસ્ત્રીય = અપ્રોક્ષિત માંસનું ભક્ષણ અપ્રાપ્ત હોવાથી તેની નિવૃત્તિ કરી શકાય તેમ નથી. પ્રોક્ષિત માંસના ભક્ષણનો પણ નિષેધ કરી શકાય તેમ નથી. કારણ કે ઉપરના શ્લોકમાં જણાવી ગયા છે કે “શાસ્ત્રીય માંસભક્ષણ ન કરે તે ૨૧ ભવ સુધી પશુ બને છે. આ બે પ્રકાર સિવાય ત્રીજા પ્રકારે તો માંસભક્ષણ સંભવતું જ નથી. માટે કિંમત अप्रामा िछ. मे सिद्ध थाय छे. (७/१५)
પૂર્વપક્ષની નવી દલીલને રજૂ કરી પ્રત્થકારશ્રી તેનું ખંડન કરવા માટે જણાવે છે કે – ગાથાર્થ :- “પરિવ્રાજક દશામાં અધિકારનો ત્યાગ થતો હોવાથી માંસભક્ષણનિવૃત્તિનું ફળ મળશે”
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org