Page #1
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः
वि.सं. २०७३ | सङ्कलनम् :
उत्तरायणम् कीर्तित्रयी
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ।।
Page #2
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरु: ३७
वि.सं. २०७३ दक्षिणायनम्
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये 1 कल्पतरुर्नन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥
सङ्कलनम् कीर्तित्रयी
Page #3
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः ३७ (पाण्मासिकम् अयनपत्रम्) सङ्कलनम् : कीर्तित्रयी ॥ प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥ वि.सं. २०७३, ई.सं. २०१६ मूल्यम् : ₹ १००/अस्मिन् जालपुटेऽपि उपलभ्यते - इ-सङ्केतः : s.samrat2005@gmail.com प्राप्तिस्थानम् : (१) श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर
१२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाष : 079-26622465, 09408637714 (२) श्रीविजयनेमिसूरिज्ञानशाला शासनसम्राट् भवन, त्रीजो माळ, शेठ हठीसिंह केसरीसिंहनी वाडी दिल्ली दरवाजा बहार, शाहीबाग रोड,
अमदाबाद-३८०००४, फोन- ०९९-२२१६८५५४. सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः"
Clo. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष : 079-26574981, (M) 9979852135
- आर्थिकं सौजन्यम् . शासनसम्राट्-समुदायवर्तिन्याः सा.श्रीराजप्रज्ञाश्रियः सत्प्रेरणया श्रीकल्पतरु-ऑराजैनसङ्घ(घाटकोपर)-इत्यनेन नन्दनवनकल्पतरोः सप्तत्रिंश्याः शाखायाः प्रकाशने आर्थिकः सहयोग: कृतोऽस्ति । तदर्थं बहुशो
धन्यवादाः ॥
मुद्रणम्
किरीट ग्राफिक्स ४१६, वृंदावन शोपिंग सेन्टर, पानकोर नाका, अमदावाद-380001 दूरभाष : 079-25330095
Page #4
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
सम्पूज्याः आचार्याः,
नन्दनवनकल्पतरोः पञ्चत्रिंशी शाखाम् अहं सानन्दं पठितवान् । प्रास्ताविकं पुनश्च विश्वविद्यालयानां स्थिति, तेषां मानदण्डान् च अधिकृत्य यदुक्तं तत् समीचीनमेवाऽस्ति । विश्वविद्यालयानां स्तराभिवर्धनं देशस्य पूर्णविकास लक्ष्यीकृत्यैव भवेत् ।
तत्रत्य: निक्षेपविचारस्तु कठिन एवाऽऽसीत् । मुनिधर्मकीर्तिविजयानां "पत्रे" इतिहासविदः ग्रन्थात् उद्धृता “यस्याः संस्कृत्याः मूले दया, तप:श्रीः च विद्यते सैव संस्कृतिः चिरञ्जीविनी भविष्यति" इति पङ्क्तिः प्रचोदिका आसीत् । अस्यैव पत्रस्य प्रथमखण्डिकायां "बहवो जनाः संमीलिता भविष्यन्ति" इति यद् मुद्रितं तत् “संमिलिताः भविष्यन्ति" इति परिवर्त्य पठितम् । मुनिधर्मकीर्तिविजयानामेव मराठीकवितानुवादः सामोदं पठितः ।
श्रीजिनदासश्रेष्ठिकथा पुनरेकवारं पठनाय रक्षिता चास्ति । आस्वाद्य पठनीया सा । सर्वाः रचनाः उत्कृष्टाः । धन्यवादः ॥
- रवीन्द्रः, पालक्काडु, केरल.
मान्याः
सादरं प्रणतयः ।
नन्दनवनकल्पतरोः ३६ तमोऽङ्कोऽधिगतः । पत्रिका सततं जैनदर्शनसाहित्यादि विषयान् समुद्भावयन्ती संस्कृतसाहित्यसम्पदं नितरां संवर्धयति - इत्यत्र नास्ति संशयलेशः । 'सङ्कचितः कः?' इति लेखः प्रभावयति जैनसमुदायस्यौदार्य च प्रदर्शयति ।
'भगवान् श्रीकृष्णो वैदिकधर्मे भगवतः पूर्णावतारो दिव्यतमः सर्वशक्तिसम्पन्नश्च । 'दिव्यातिदिव्य-नेमिकुमारः' इति कथायां तस्य दिव्यतमता क्षीणा दृश्यते । मम मतौ - अत्र जैनसमाजस्योदारता क्षीणतां गताऽस्ति । कस्यचिद् धर्मस्याऽवताराणां महापुरुषाणां वा दिव्यत्वं नैवोपेक्षणीयम् । जयति संस्कृतं संस्कृतिश्च ॥
- रूपनारायण - पाण्डेयः, प्रयागः . १ मील्-धातुरपि धातुपाठे वर्तत एव । अतः संमीलिता इति रूपमपि साध्वेव।
*जैनसमाजो नन्दनवनकल्पतरुर्वा न कस्याऽपि धर्मस्य महापुरुषाणां भगवदवताराणां वोपेक्षामनादरं वा करोति । नेमिकुमारो जैनपरम्परायां द्वाविंशस्तीर्थकरः श्रीकृष्णस्य च लघुभ्राताऽप्यस्ति । तीर्थकराणां सामर्थ्यमनुपमं भवतीति प्रदर्शनमेवाऽस्याः कथाया आशयोऽस्ति न पुनः श्रीकृष्णस्य दिव्यतमतां क्षीणां दर्शयितुमाशयो नः । अतः कृपया जैनसमाजस्योदारतां विषयीकृत्य न किञ्चिद्वक्तव्यम् । जैनसमाजो हि समत्वस्य समन्वयस्य च नीतिमाश्रितोऽस्ति सर्वदा । (सं.)
Page #5
--------------------------------------------------------------------------
________________
प्रास्ताविकम्
भारतदेशे शिक्षणस्य विश्वविद्यालयानां परिस्थितिरस्माभिरवलोकिता । एतस्याः परिस्थितेः पर्यवसानं कुत्र जातमिति समीक्षामहे तावत् । जीनिवानगरे (स्विट्झर्लेन्ड) स्थितया संयुक्तराष्ट्रसङ्घस्य (UNO) शाखासंस्थया ज्ञापितं यत् २०१५तमे वर्षे भारतीयै: संशोधकैः केवलं १४२३ सङ्ख्याका नूतनसंशोधनाधिकारा: (Patents) पञ्जीकृता: । २०१४तमे वर्षे सा सङ्ख्या १४२८ मात्रमासीत् तथा २०१३ तमे वर्षे तु केवलं १३२० सङ्ख्याका एव नूतनसंशोधनाधिकारा भारतीयसंशोधकैः पञ्जीकृताः । अत्र या: सङ्ख्या: प्रस्तुता ताभिः केवलं मात्रमित्यादिभिर्वा शब्दैश्च भारतीयसंशोधनस्य दारिद्र्यं नैवाऽवगंस्यतेऽतस्तुलनार्थं केषाञ्चनाऽन्येषां राष्ट्राणामपि संशोधनक्षेत्रीयां परिस्थितिं पश्याम: - २०१५तमे वर्षे दक्षिणकोरियादेशस्य संशोधकैः १४६२६सङ्ख्याका: (भारतदेशाद् दशगुणिता:), चीनादेशस्य संशोधकैः २९८४६ सङ्ख्याकाः (विंशतिगुणिता:) तथा जपानदेशीयै: संशोधकैस्तु ४४२३५सङ्ख्याकाः (त्रिंशद्गुणिता:) नूतनसंशोधनाधिकाराः पञ्जीकृताः । २०१४ तमे वर्षे तु त्रयाणामपि देशानामनुक्रमेण १३११७सङ्ख्याकाः २५५४८ सङ्ख्याकाः ४२३८१ सङ्ख्याकाश्च संशोधनाधिकाराः पञ्जीकृता आसन् ।
संशोधनाधिकारा हि संशोधकेभ्य ऐदम्प्राथम्येनाऽऽविष्कृतानां यन्त्रादिसाधनानां कृते पञ्जीक्रियन्ते । कश्चन संशोधको नूतनं संशोधनाधिकारं (Patent) प्राप्तुं सफलस्तदैव स्यात् यदा स कठोरं बौद्धिकं परिश्रमं विविधान् वैज्ञानिकप्रयोगान्, दीर्घकालिकीं च तार्किकीं विचारणां कुर्यात् तत्फलत्वेन च नूतनं कञ्चिदाविष्कारं कुर्यात् । एवं च संशोधनाधिकारसङ् ख्या हि यथा देशस्य बौद्धिकधनेन सम्बद्धा तथैव वैज्ञानिकाभिगमेनाऽपि सुतरां
सम्बद्धा ।
जापान - चीना-दक्षिणकोरियासदृशराष्ट्राणां संशोधनाधिकारपञ्जीकरणे एतावत् साफल्यं किंमूलमिति चिन्तितं खलु ? तन्मूलमस्ति शालेयशिक्षणे । एतैरेतादृशैश्चाऽन्यै राष्ट्रैः स्वीयदेशस्य शालासु बाल्यादेव वैज्ञानिकाभिगमप्रवणं शिक्षणं प्रत्येकं विद्यार्थिना यथा प्राप्येत तादृशी प्रायोगिकी शिक्षणपद्धतिः स्वीकृताऽऽस्ति । एतद्विपरीततया वयं भारतीयाः केवलं (केवलं चैव) पाठ्यपुस्तकीयमभ्यासक्रममेवाऽऽश्रिताः स्मः । अन्यच्चाऽस्माकं देशे शिक्षणं सर्वथा वाणिज्यभूतं सञ्जातमस्ति । एतेन शिक्षणस्य स्तरः सर्वथाऽधोगतिं प्राप्तोऽस्ति । अपि च प्रायशः ६०% शालासु क्रीडादिकृते क्षेत्रादिव्यवस्था न भवति । विविधाभिः क्रीडाभिः खलु बालानां शारीरिको विकासो भवति येन च मन: स्वस्थं भवति फलतश्च स यथा पठने तथा वैयक्तिकजीवनेऽपि स्वस्थेन चित्तेन सर्वाण्यपि कार्याणि कर्तुं समर्थो भवति विपत्तौ च विकलतां नाऽनुभवति । किन्तु, एतत् सर्वं हि केवलं गुणाङ्कलक्ष्यायामर्थोपार्जनलक्ष्यायां च शिक्षणव्यवस्थायां को वा चिन्तयेत् ?
जानीमहे वयं यदेतत् सर्वमपि ह्यस्माकमरण्यरोदनमेवाऽस्ति । यावत् सर्वाऽपि व्यवस्था सर्वेषामपि पूर्णसहयोगेन मूलतः परावर्तिता न भवेत् तावत् न किमपि सेत्स्यति । एतदर्थं च सर्वैरपि सहैव 'उत्तिष्ठत जाग्रत निबोधत' इति क्रमेण प्रयतितव्यं पूर्णमनोयलेन, प्रयतिष्यामहे खलु ?
आश्विनशुक्ला प्रतिपत्, २०७२ महुवानगरम्
कीर्तित्रयी
Page #6
--------------------------------------------------------------------------
________________
अनक्रमः
कृतिः श्रीऋषभजिनस्तुतिः श्रीमद्भगवज्जिनवन्दनम् श्रीगौतमस्वामिगुणाष्टकम् शासनसम्राड्गुणस्तुतिषोडशिका श्रीशतकम् सतीसूक्ताब्जषोडशी नागराजविरचितं निन्दास्तुतिशतकम् कलिसपादिकाः केयं कृपा? जलं हि द्विविधं प्रोक्तम् हाईकु काव्यानि तत्त्वबोधप्रवेशिका-२
ख्यातिवादः आस्वादः
ब्रह्मचर्यम् श्रावकधर्ममीमांसा मित्रस्य आवश्यकता
कर्ता आ.विजयहेमचन्द्रसूरिः डॉ. रामकिशोरमिश्रः आ.विजयहेमचन्द्रसूरिः आ.विजयहेमचन्द्रसूरिः प्रा.अभिराजराजेन्द्रमिश्रः श्रीसुरेन्द्रमोहनमिश्रः डॉ. एच.वि.नागराजराव् प्रा. अभिराजराजेन्द्रमिश्रः डॉ. विश्वासः प्रो. कमलेशकुमार छ. चोक्सी डॉ. कान्ति गोर
मुनित्रैलोक्यमण्डनविजयः
उपा. विश्रुतयशविजयः
पत्रम्
मुनिधर्मकीर्तिविजयः मुनिकल्याणकीर्तिविजयः
पत्रम्
मर्म गभीरम् काव्यानुवादः
मदीये जगति
मुनिधर्मकीर्तिविजयः
Page #7
--------------------------------------------------------------------------
________________
सत्यघटना
संवेदनबधिरता व्यङ्गयकथा
मुनिधर्मकीर्तिविजयः
मिश्रणम्
मुनिकल्याणकीर्तिविजयः
कथा
उपायनम् विरलानि संस्कारमूल्यानि शठं प्रति शाठ्यम्
गुणदृष्टिः मर्म नर्म प्राकृतविभागः
कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यविरचितस्य प्राकृतव्याश्रयस्य संस्कृतानुसर्जनम् पाइयविन्नाणकहा
मुनिधर्मकीर्तिविजयः मुनिअक्षयरत्नविजयः सा.श्रीसौम्यप्रभाश्रीः सा.श्रीतत्त्वनन्दिताश्रीः कीर्तित्रयी
नरेन्द्रचन्द्र-झा आ.विजयकस्तूरसूरीश्वराः
Page #8
--------------------------------------------------------------------------
________________
'भगवते ऋषभाय नमो नमः' इत्यन्तिमपदस्य पादपूर्तिरूपा श्रीऋषभजिनस्तुतिः
(दुतविलम्बितवृत्तम्)
कृतजगज्जनमङ्गलशर्मणे, त्रिभुवनार्चितपादसरोरुहे । प्रथमराड्-मुनि-तीर्थकराय ते,
भगवते ऋषभाय नमो नमः ॥ १ ॥
भवति नैव यदङ्घ्रिपयोजयो
विरचिता प्रणतिर्विफला कंदा । नृपतिनाभिकुलाभरणाय ते,
भगवते ऋषभाय नमो नमः ॥२॥
कचभरो हि निजांसलुठन् हरे
विनतितः खलु येन न लुञ्चितः । विनतवत्सलतादिगुणाय ते,
भगवते ऋषभाय नमो नमः ||३||
विनमिना नमिना च निरन्तरं
यदनघाङ्घ्रियुगं समुपासितम् । सकलकामितकामघटाय ते,
भगवते ऋषभाय नमो नमः ॥४॥
वसुनिधिप्रमित (९९) स्वकनन्दनान्, 'कुरुत सङ्गर' मित्थमुपादिशत् ।
१
- आ. विजयहेमचन्द्रसूरिः
Page #9
--------------------------------------------------------------------------
________________
सकलसत्त्वहिताय जिनाय ते
भगवते ऋषभाय नमो नमः ।।५।। स्वसुतबाहुबलिं तनयामुखाद्
"गजत उत्तर वीर" वचस्त्विदम् । प्रहितवान् भगवान् य इनाय ते
भगवते ऋषभाय नमो नमः ॥६॥ समसहस्रतपश्चरणार्जितं,
विमलकेवलरत्नमुपाहरत् । स्वजननीकरयोर्य उपांशु ते,
भगवते ऋषभाय नमो नमः ॥७॥ भविकलोकचकोरहिमांशवे,
दुरितसन्तमसौघखरांशवे । शमवते भवतेऽनुपमाय ते,
भगवते ऋषभाय नमो नमः ॥८॥ इति मया गुरुदेवपदाम्बुज
भ्रमरहेमसुधाकरसूरिणा । प्रथमतीर्थपतिः स्तुतिगोचरो
विहित ईप्सितदानसुरद्रुमः ॥९॥
Page #10
--------------------------------------------------------------------------
________________
श्रीमद्भगवज्जिनवन्दनम्
वन्दे जिनं जगति जैनसमाजपूज्यम्, पञ्चमत्र च मुनिं त्रिशला - तनूजम् । यं जैनधर्मजनकं मनसा स्मरामि, तस्मै नमो भगवते महते जिनाय ॥ १ ॥
श्वेताम्बरः प्रथम आदिगृहस्थभोगी, पश्चादयं स्वतपसाऽत्र दिगम्बरोऽभूत् । यं जैनदेवमधुना हृदये भजामि, तं वर्धमानमथ साधुवरं नमामि ॥२॥
ज्ञानप्रदश्च जनताशुभचिन्तको यः, स्वामी स कुण्डलन्यवसच्च वीरः । जैनप्रवर्तकमुनिं यमहं हि वन्दे, तस्मै नमो भगवते महते जिनाय || ३ ||
योऽभूद्धि नेत्रयुगसायक(५४२) वर्षपूर्वम्, शुक्लत्रयोदशमधाविह वैक्रमाऽब्दात् । आध्यात्म्यसाधुमथ देशजसाधुवर्गे, जैनं नमामि तमहं मुनिमत्र सर्गे ||४||
भाषोपदेशकवराय समत्वदाय, साधारणादिजनशर्मसमीक्षकाय, विप्रादिशूद्रजनतासमताप्रदाय, तस्मै नमो भगवते महते जिनाय ॥५॥
३
- डॉ. रामकिशोर मिश्रः
Page #11
--------------------------------------------------------------------------
________________
सत्यं त्वसङ्ग्रहमहिंसकतां च लोके, कल्याणहेतव इतीदमुपादिशद् यः । सिद्धार्थपुत्रमधुना यमहं स्मरामि, तं वर्धमानमथ साधुवरं नमामि ॥६॥
अस्तेयमत्र पुनरन्तमनेकतायाः, एकत्वमेव जनजीवनसौख्यहेतोः । यश्चाऽब्रवीदिह सदाचरणं स्वधर्मम्, तस्मै नमो भगवते महते जिनाय ||७||
यः कर्मणाऽत्र मनसा च हृदा च वाचा, जीवस्य पीडनविराम इहेत्यहिंसा । तत्पालकं यमिह शर्मकरं भजामि, तं वर्धमानमथ जैनमुनिं नमामि ॥८॥
सिद्धार्थराजतनयाय महाजिनाय, वीराय जैनमुनये त्रिशलासुताय । जैनप्रवर्तकवराय मुनीश्वराय, तस्मै नमो भगवते महते जिनाय || ९ ||
योगेन सत्यवचसा यमहिंसया च, ध्यानेन जीवदयया च तितिक्षया च । स्वात्मानमेव कृतवानिह योऽत्र तीर्थम्, तीर्थङ्करं तमथ जैनविभुं भजामि ॥१०॥
स्व श्रावकेषु महिला - नरसङ्घदाय, साध्वीति साधुरिति तीर्थविवर्धकाय । तीर्थङ्करेषु चरमस्थितिभूषिताय, तस्मै नमो भगवते महते जिनाय ॥ ११ ॥
रामकिशोरमिश्रेण शूकरक्षेत्रवासिना । रचितं सर्वबोधाय भगवज्जिनवन्दनम् ॥१२॥
४
२९५/१४ पट्टीरामपुरम्
खेकडा (बागपत) उ. प्र. २५०१०१
Page #12
--------------------------------------------------------------------------
________________
श्रीगौतमस्वामिगुणाष्टकम्
-आ.विजयहेमचन्द्रसूरिः
(हरिणीवृत्तम्) जगति विदिता ये ये भावा यथेप्सितदायिनः ।। ___ सुरतरुमुखास्ते सर्वे यत्तुलां न च बिभ्रति । बुधसमुदया भक्त्या नित्यं यदङ्घिमुपासते
भुवि स जयतात् कामं पूज्यो गणीश्वरगौतमः ॥१॥ तव वरगुणाम्भोधेः पारं प्रयातुमभीप्सवः
सुरगुरुसमाः प्रोद्यत्प्रज्ञा अपीश ! न चेशते । तदपि मम हृत् त्वय्यालीनं गुणस्तवनं विना
गणपवर ! ते स्थातुं नैव क्षणं ननु शक्नुते ॥२॥ चरमजिनपत्-पद्मोपास्तिस्त्वयाऽविरतं कृता
सकलमुनयो भिक्षाकाले जपन्त्यभिधां तव । तव नमनतो विघ्नवातं प्रयाति लघु क्षयं
वितरतु मयि श्रीयोगीन्द्र ! प्रसद्य शुभाशिषः ॥३॥ तव करकजाद् दीक्षां प्राप्ताः समे शिवमैयरु
स्तवकसदृशो नो कोऽप्यन्यो क्षितौ खलु दृश्यते । अथ नहि भयं किञ्चिन्मात्रं भवान्मम विद्यते
प्रथमगणभृत् ! यत्ते प्राप्तं पदाम्बुजसेवनम् ॥४॥ तव पदयुगे श्रेयोभूते सदा मम जायतां
नतिरविरतं पुण्यैर्लभ्ये सुलब्धिनिधानके । निखिलभुवने तद्धि स्यात्कि न यत्तव नामतो
भवति सफलं कार्यं नृणां हृदा परिचिन्तितम् ॥५॥
Page #13
--------------------------------------------------------------------------
________________
सुकृतविटपी मेऽद्य स्वामिन् ! प्रभूतफलोऽभवत् __दुरितततयो दूरं दूरं ममाऽद्य पलायिताः । हृदि निरवधिहर्षाम्भोधिः समुच्छलितोऽद्य मे
विमलविमलं यत्ते जातं मुखाम्बुजदर्शनम् ॥६॥ तव निरुपमं रूपं दृष्ट्वाऽक्षिणी मम नृत्यत
स्तव सुचरितं श्रावं श्रावं मनो मम हृष्यति । तव गुणगणं गायं गायं मुदं रसनैति मे
तव सुवचनं पायं पायं कृतार्थमभूज्जनुः ॥७॥ गणधरमणे ! त्वत्पादाब्जे विनम्य निवेदये
नहि नहि कदाऽप्यस्मत्स्वान्तात् क्षणं वियुतो भव । वितरति मतिं त्वत्सान्निध्यं व्यपोहति दुर्मति
जनयति मनः सर्वाभीष्टं तनोति निरीहताम् ॥८॥ ललितहरिणी-छन्दोयोगादिदं हि गुणाष्टकं
विरचितमिति स्फूर्जद्भक्त्या वरेण्यगणेशितुः । गुरुवरपदाम्भोजद्वन्द्वार्चनाप्तधिया मया
प्रथमगणभृत्-मन्त्रध्यात्रा सुवर्णसुधांशुना ॥९॥
Page #14
--------------------------------------------------------------------------
________________
शासनसमागुणस्तुतिषोडशिका
-आ.विजयहेमचन्द्रसूरिः
(आर्या-वृत्तम्) जिनशासनसाम्राज्यं, सम्राडिव य: शशास नैपुण्यात् । तीर्थोद्धारैकरतो, जयति स विजयादिनेमिगुरुः ॥१॥ नेमिर्जयतादूर्व्या, कदम्बमुखनैकतीर्थसंस्कर्ता । आबालब्रह्मधरो, नरपतिनतपादपद्मयुगः ॥२॥ श्रीवृद्धिचन्द्रगुरुवर-पादाम्बुजसेवनाप्तसद्बोधः । अध्यैष्ट तत्कृपातः, कालेऽल्पे बहूनि शास्त्राणि ॥३॥ शब्दन्यायादिशास्त्र-वैदुष्यभृतैर्यदीयशिष्यगणैः । रचितान् विविधान् ग्रन्थान्, दृष्ट्वा कः प्रीणयन्नैव ॥४॥ शिष्य-प्रशिष्यवर्गः, स्वाध्यायतपसि निरन्तरोद्युक्तैः । ग्रहतारागणमध्ये, भाति स्म चन्द्र इवाऽनन्यः ॥५॥ सकृदपि यद्व्याख्यानं, श्रुत्वा खलु सिंहगर्जनातुल्यम् । अश्मसदृशहृदया अपि, न हि बोधमवाप्नुयुः के के ? ॥६॥ श्रीकापरडातीर्थं, राणकपुरशेरिसादितीर्थं च । यस्योपदेशादजनि, जीर्णोद्धारेण नव्यतरम् ॥७॥ श्रीमन्माणेकस्य, मनसुखतनयस्य तीर्थसिद्धाद्रेः । यन्निश्रायां जातो, यात्रासङ्घः प्रशस्यतरः ॥८॥ . सिंह इव दुष्प्रधर्षो, रविवत् प्रौढप्रतापशाली च । उदधिरिवाऽतिगभीरः, शशिवच्चाऽऽह्लादकः साऽऽसीत् ॥९॥
Page #15
--------------------------------------------------------------------------
________________
सागरतीरे विचरन्, सम्यगुपदिश्य धीवरादिजनान् । विरमय्य हि हिंसातो, वरमकृत जीवदयाकृत्यम् ॥१०॥ मुनिसंमेलनसमये, बुद्धिप्रागल्भ्यमस्य सन्दृश्य । सर्वेऽपि तत्रत्यजनाः, भृशमेव चमत्कृता जजुः ॥११॥ यद्बह्मचर्यचर्यां, दुरनुष्ठेयां विलोक्य सहसैव ।। वदनादद्भुतमद्भुत-मिति शब्दः सरति सर्वेषाम् ॥१२।। भावनगरभूपालो, वलभीपुरभूपतिप्रमुख्याश्च । यद्वचसा प्रतिबुद्धा-श्चक्रुहिंसादिपरिहारम् ॥१३॥ आनन्द-मालवीया-कविनानालालमुख्यबुधवाः । येन सह तत्त्वचर्चा कृत्वा प्रीतिं परां प्रापुः ॥१४॥ तत्कार्यविधात्री-संस्थाकार्याधिकारिणः श्राद्धाः । यन्मार्गदर्शनेना-ऽकुर्वन् सर्वाणि कार्याणि ॥१५।। एकस्मिन्नपि जन्मनि, पूज्यैर्विहितानि यानि कार्याणि । . बहुमनुजैर्बहुजन्मसु, कर्तुं न हि तानि शक्यानि ॥१६॥ पूज्यश्रीनेमिगुरु-र्भक्त्यैवं संस्तुतो मया परया । श्रीदेवसूरिगुरुराट्-शिष्य श्रीहेमचन्द्रेण ॥१७॥
Page #16
--------------------------------------------------------------------------
________________
ओं ऐं ह्रीं क्लीम् ॥१॥ चामुण्डायै ॥२॥
विच्चे नित्यम् ॥३॥
वन्दे वाणीम् ||४||
वन्दे शक्तिम् ॥५॥
वन्दे लक्ष्मीम् ॥६॥
सृष्टि
॥७॥
वाङ् मे वक्त्रे ॥८॥
श्री गेहे ॥ ९ ॥
धर्मे बुद्धौ ॥१०॥ कुर्याद् वासम् ॥११॥ त्यै विद्या ॥१२॥
भक्त्यै ज्ञानम् ॥१३॥ भूत्यै मानो ॥१४॥ गीत्यै काव्यम् ॥१५॥
श्रुत्यै यत्नः ॥१६॥
मे सम्भूयात् ||१७|| लोकानव्यात् ॥१८॥
श्रीशतकम्
संस्कृतस्यैकाक्षरीयच्छन्दः
- प्रा. अभिराजराजेन्द्रमिश्रः
९
मत्काव्येऽन्यः ॥१९॥
नो कोऽप्यास्ते ||२०|
प्राप्तोऽप्राप्तः ॥२१॥
सोऽहं सोऽहम् ||२२||
सोऽहं निन्द्यः ||२३|
सोऽहं वन्द्यः ||२४||
अर्होऽनर्हः ॥२५॥
गर्योऽगर्ह्यः ॥२६॥
ग्राह्येोऽग्राह्यः ॥२७॥
दण्ड्योऽदण्ड्यः ॥२८॥
पूज्योऽपूज्यः ||२९||
बद्धोऽबद्धः ॥३०॥
मुक्तोऽमुक्तः ॥३१॥
यः कोऽपि स्यात् ॥३२॥
नाऽन्यः सोऽसौ ||३३||
सोऽहं सोऽहम् ॥३४॥ न्यग्रोधोऽहम् ॥३५॥
अश्वत्थोऽहम् ॥३६॥
Page #17
--------------------------------------------------------------------------
________________
पर्कट्युच्चः ॥३७॥ सान्द्रौ जम्बूः ॥३८॥ प्रांशुश्चिञ्चा ॥३९॥ माकन्दो वा ॥४०॥ लघ्वी दूर्वा ॥४१॥ भक्ष्यं सर्वम् ॥४२॥ दीर्घाऽदीर्घम् ॥४३॥ स्थूलाऽस्थूलम् ॥४४॥ तिक्तञ्चाऽम्लम् ॥४५॥ मिष्टं क्षारम् ॥४६॥ यन्त्रे काव्ये ॥४७॥ मिथ्या सत्यम् ॥४८॥ कल्प्यं दृष्टम् ॥४९॥ सर्वं तद् भोः ॥५०॥ सोऽहं सोऽहम् ॥५१॥ अद्वैतघ्नो ॥५२॥ लक्षच्छायः ॥५३॥ रूपे दक्षः ॥५४॥ चित्रे स्वच्छः ॥५५॥ काव्याकारः ॥५६॥ काव्याधारः ॥५७॥ सर्वोऽप्येकः ॥५८॥ सोऽहं सोऽहम् ॥५९॥ तुङ्गश्शैलः ॥६०॥ सान्द्राम्भोदाः ॥६१॥ बभ्रुश्यामाः ॥६२॥ भ्रान्ता नद्यः ॥६३॥
भीष्मप्लावः ॥६४॥ ध्वस्ता वृक्षाः ॥६५॥ शीर्णग्रामः ॥६६॥ नग्ना बालाः ॥६७॥ क्षामा धात्र्यः ॥६८॥ निर्वस्त्राङ्यो ॥६९॥ हा षोडश्यः ॥७०॥ रौद्राः सत्त्वाः ॥७१॥ भीता लोकाः ॥७२॥ मत्काव्ये ते ॥७३॥ वाः सर्वे ॥७॥ मद्रूपस्थाः ॥७५।। मत्पर्यायाः ॥७६॥ आत्मानं स्वम् ।।७७|| यद् वा तद् वा ॥७८॥ कर्तुं शक्तः ॥७९॥ कुर्वे किन्नो ॥८०॥ वासिष्ठोऽहम् ॥८१॥ आर्चीकोऽहम् ॥८२॥ रामं गातुम् ॥८३॥ मृत्युं तर्तुम् ॥८४॥ प्रेक्षन्तां भोः ॥८५॥ वल्मीकोत्थः ॥८६॥ धर्मक्रौञ्चः ॥८७॥ पापैर्विद्धः ॥८८॥
आस्था क्रौञ्ची ॥८९॥ क्रन्दत्येषा ॥९॥
१०
Page #18
--------------------------------------------------------------------------
________________
किं कार्यं हा ॥९१॥ शोकोऽमेऽयम् ॥१२॥ श्लौकी मुद्राम् ॥१३॥ तूर्णं यातः ॥९॥ भूयो नव्यम् ॥१५॥ काव्यं जातम् ॥९॥
जातो नव्यः ॥९७॥ वाल्मीकि ः ॥९८॥ श्रीवृत्तैर्यो ॥९९॥ ग्रथनातीदम् ॥१००॥ नूनं काव्यम् ॥१०॥ प्राचां तुष्ट्यै ॥१०२॥
॥ इति श्रीमत्रिवेणीकविनाऽभिराजराजेन्द्रेण विरचितम् ॥ श्रीशतकमवसितम्
Teacher's Colony Lower Summer Hill
SHIMLA.(H.P.)
Page #19
--------------------------------------------------------------------------
________________
सतीसूक्ताब्जषोडशी
श्रीसुरेन्द्रमोहनमिश्रः
(१) अनसूया विधिविष्णुरुद्रेषु साभ्यसूयेषु निजप्रपञ्चपञ्चितेषु सुनीतिप्रसूः अत्रिपत्नी श्रयति मातृतां जयति देवतात्रयार्भकांस्तान्स्तन्यतस्सती । भूलोकव्रजनास्त्रिदेवाङ्गनाः प्रणताः परिमोक्तुमनस्काः स्वपतीन् शिशुकान् चिदानन्दकाया प्रविजितमाया सासूयानसूया सती सत्यनुसूया ॥
(२) अहल्या श्रीगोतमवनिता मुनिवनमहिता सुहिता सहस्रवटुलालनललिता अक्षपादेकगा सुभगा शुभगा विहता च्छलतो महतोऽथोऽसद्गोत्रभिदः । भिदुराभिहतार्ता व्रणिताऽरुणिताऽविताऽनविता रुषा ज्वलिता ज्वलज्जीविता कलिताऽश्मतयाऽश्रीः श्रीरामार्पितसुश्रीः श्रियो वितनुते साऽहल्या महिला ! ॥
__ (३) वाक् अम्भृणर्षिकन्या ब्रह्मावर्तात्विजीना जनितसहजसंस्कृतिधन्या चाऽऽगममान्या भवैककुटुम्बिनी मनुस्रग्विणी रुद्रवस्वादित्यैर्हन्त सना चरन्ती । चञ्चच्चमत्कृतिः सहजा संवित् सच्चित्सुखात्मपरमात्मा यदिव्यात्मा परापश्यन्त्यादिपूर्णा सार्णाऽनर्णा सृति सृजन्त्यवन्त्यदन्ती श्रीवाक् कन्या ।
१. नन्दनवनकल्पतरोः ३४तमशाखायां प्रकाशितां पू. आ.विजयधर्मधुरन्धरसूरि-विरचितां सतीसूक्तषोडशिकां विलोक्य प्राप्तप्रेरणेन विदुषा श्रीसुरेन्द्रमोहनमिश्रमहोदयेन रचितेयं कृतिः ।
१२
Page #20
--------------------------------------------------------------------------
________________
(४) तारा वानरकुलहारा सतिखसुतारा किस्किन्ध्यास्कन्धधरार्याऽनुजनिजभार्या अग्रजविनिर्जिताऽजिताऽकलुषिता जितसप्तशालबलबाली पतिताऽपतिता । राघवसुग्रीवमेलपुलकिता बालिविषवल्लिच्छेदनोल्लसिता मुक्ता दीप्ता राज्यश्रीसम्राजीज्या सतिसीमन्तिनिशिखरे सा तारा तारा ! ॥
(५) मन्दोदरी वैश्रवणवधूटी लङ्कालङ्कृतिरुद्दामहेमसम्राजी हृदीशभाजी राजीवतल्लजा सत्सुतिनीज्या शिञ्जिनिकृपाणनिष्कृपणा पतिमर्यादा । रावणवनितार्या शिवैकचर्या चारुचरितसुकृतिसपर्या कुलिनी वर्या राज्यवैजयन्ती पतिमानवती जयत्यमन्दा मन्दोदरिसाध्वी सुसती ! ॥
(६) सावित्री सत्यवदेकरमा रमणी परमा परमात्मचिद्रामवामाऽऽनन्दनधामा वामविधिर्जहार हृदयं हारं सत्यमसत्यः सर्वहन्मृत्युः स सदा हि विवशः । निष्कर्षन्तं तं बलादात्मानं चिकीर्षु स्वपाशनिबद्धं पप्रच्छ यमं नियतिं मृत्योर्नवदिव्यजीवने जयति मृत्युञ्जयिनी सती श्रीसावित्री ॥
(७) गार्गी वाचक्नवी कविर्गवीनां हन्त रविः शशी कोमलताश्री ऋतम्भरर्षिः याज्ञवल्क्यसहिताऽद्वैतसुमहिता ब्रह्मोपनिषत्सूदात्ता मनुसमाहिता । जिज्ञासापरमा भिन्नसन्तमा परमप्रश्नरमा प्रश्नोद्दामा इच्छाज्ञानक्रतुवदातसेतुः सत्यसन्तानतन्तुर्गार्गी ब्रह्मिष्ठा ॥
(८) भामती
विद्यावाचस्पतिवाचस्पतिपथिकुमुदिनिशशिधवलज्योत्स्ना विमृदिततृष्णा पवित्रतामूर्तिः शान्ता प्रीतिः क्षपितकषाया ब्रह्मण्यस्फूर्ति तिः । शङ्करशरणाऽप्यद्वैतविहरणाऽवाप्तानवाप्तधीजरणाऽद्वयधवरमणा रमणीशिरोरत्नभूतिौतिकवासनेन्द्रियजेत्री सती भामती ॥
Page #21
--------------------------------------------------------------------------
________________
( ९ ) गोदा विष्णुचित्तपुत्री युवतिर्जेत्री जयत्यनुपमा वैकुण्ठं पतिं सत्पतिम् प्रेम्णा सुतपन्ती भेदं भिनत्ति स्वहृदयहारमुपहरन्ती विजिष्णुः । स कातरकातरः पिता भीततर आहन्ति दुहितृभावं तं जितप्रभावं स्वयं वेङ्कटेशः स्वपनादेशो वृणुते शर्मदां विजयते सुसती गोदा || (१०) मीरा
धीरा वीराम्बाऽऽदर्शसुबिम्बा राजन्यललामतिलकिता श्रीकृष्णवृता धन्यानन्याद्या सतिकुलविभवैर्निर्वेशसमावेशरसैर्नव्या भव्या । शुभभविकं भवस्य सेव्या दिव्या राधायमाना कृष्णस्य सव्याऽऽलम्ब्या राज्ञीत्वमतिगतं गतं जगदिदं दीव्यति काऽपि सती मीरा गोपालपरा ॥ (११) लल्लेश्वरी
कश्मीरजकलिका कुलजबालिका भ्रमति गायति नृत्यति सहजमनातुरा वरा वरमर्भकनुन्दं सन्तं नटन्तमनूढा पाययति स्तन्यमहो विचित्रम् । विचित्रा हि वाचो व्यनक्ति हन्त ! प्रणुदति सन्तमो मोहजम् काचिज्जातुचिद्ध ललिता नु चितिः सतीसीमन्तचमत्कृतिर्लल्लेश्वरीह ॥ (१२) शारदा देवी
शरदिन्दूद्धवला कोमलकमला ब्रह्मानन्दविवेकादेः शतं सवित्री जनयत्री जयानां सा विजयानां भरतानां विश्वगुरुत्वे सेतुः सत्त्वे । अखण्डभारतात्मा तपोजितात्मा यदनुग्रहतो दुर्ग्रहणग्रहहन्ताऽसि: श्रीरामकृष्णला शिष्यवत्सला वरदा सारदा शारदा पराम्बा सदा ।। (१३) निवेदिता
आयर्लेण्डजन्या भारतकन्या विवेकभगिनी शिष्या सा धन्यानन्या कनककुसुमाञ्चिता कृपासिञ्चिताऽप्यनितरसमसद्गुरुशरणा भारतवरणा । भारतदीप्तिमुक्तिविभवैकधना शमदमतितिक्षाक्षतेनाऽक्षतसच्चरणा ज्ञानकर्मभक्तिप्रवलितमुक्तिर्मुक्ताजीवनवरिवस्या निवेदिता सा ॥
१४
Page #22
--------------------------------------------------------------------------
________________
(१४) श्रीमाता बहुजनिजनिततपार्यचित्सुगोपा मानवभाग्यदिव्यजीवनयोक्त्री गोप्ती नेत्री वसुधायाः सरससुधायाः श्रीलारविन्दातिमानसचितियात्रायाः । राष्ट्रभाषाऽस्तु नः सरलसंस्कृता भारते भारती भजतां जनतामार्याम् प्रबोधयन्ती स्वाशिषोऽर्पयन्ती श्रीमाता दिव्याभरणा सावित्र्ययना ॥
(१५) जगदम्बा सा भुवनमोहिनी ब्रह्मगेहिनी व्यापोहिनीह तमिस्राया विश्वपावनी वनिताऽम्बा जगतां तपसि क्रान्ता कान्ता ब्रह्मकुमारीणां सहजा शान्ता । पवित्रतामूर्तिः प्रेम्णो दीप्तिर्ज्ञानसुखानन्दजशक्तिः शिवपत्प्रणतिः नित्यनुताम्बाऽऽब्रह्म स्तम्बात्कामाद्यरिशास्तिस्तम्भा श्रीजगदम्बा ॥
___ (१६) आनन्दमयी सानन्दमानन्दममन्दमार्या लोकेष्वलोकचर्या या सदोदिताध्वा चिदानन्दवध्वा चैक्यं याता मर्यादाबन्धातीता विमुक्तिमुक्ता । सुदिव्यैश्वर्यपरिपूर्णा जयत्यपर्णा भवार्णवतारिणी पूर्णा पवित्रवर्णा काश्यन्नपूर्णाऽपि सदापूर्णाऽपि जयति कोटिभक्तप्राणाऽऽनन्दमयी माँ ॥
(१७) निवेदनं धिनुतेऽन्तरकरणं त्वनितरशरणं कवितावनिताधुरन्धरं संस्कृतमुदिरम् प्रश्रयविनयेद्धं गुरुगुणसमिद्धमनुमुनिधर्मधुरन्धरकविकवितालीद्धम् । समेधयति दिव्यं काव्यार्थभव्यमुदितमुदितसुन्दरीशेद्धं पदेषु बद्धम् पथिककवेः कवनं स्वरसप्रवणं सतीसूक्ताष्टिकाऽपि पुना रमतां रमताम् ।
(१८) समर्पणं एवं धुरन्धरधुरि प्रतिभाभिसारे शम्भुस्वरूपकलितैः कलितैः पदाब्जैः । सत्त्वैकतानमतिसन्महसां सतीनां सेयं स्मृतिः कविसुरेन्द्रकृता सपर्या ॥
Page #23
--------------------------------------------------------------------------
________________
(१९) कृतज्ञता यासां सत्तपसा भुवि स्थिरपदो धर्मः सनत्नो महान् यासां सन्महसा विभान्ति रविशश्यादिग्रहाः क्षितौ । यासां योगनिधियुनक्ति भुवनं सत्कर्ममार्गेऽनिशम् सत्यस्ता भुवि बोधदर्शनचरित्रैकोज्ज्वला जज्ज्वलुः ॥
(२०) नमस्ताभ्यः ! कालो ह्ययं निरवधिः पृथिवी प्रथिम्ना प्रायोऽवगाहकठिनाऽहह चैतदायुः । अत्यल्पमत्र गणना कथमस्तु तासां सच्चित्सुखात्मवपुषां परमाम्बिकानाम् ॥
(२१) पुष्पिकेयं नभःसिततृतीयायां शशिदिने नेत्रर्षिनभोनेत्रमे(२०७२) । वैक्रमेऽवकाशे किल कृतं कुरुषु कवयो विदन्तु ॥
श्रीनन्दनवनकल्पतरुच्छायामिच्छन्ती पद्यप्रसूनाञ्जलिः । नमांसि सन्मुनिषु नः सफलानि सन्तु ब्राह्मी विभातु सकलश्रियमाहरन्ती । तृप्यन्तु सर्वमनुजा भरतार्यभूमौ भूयान्नु नन्दनवनं सुसुखं समेषाम् ॥ ॐ
संस्कृतपालिप्राकृतविभागः कुरुक्षेत्रविश्वविद्यालयः
कुरुक्षेत्रम्
Page #24
--------------------------------------------------------------------------
________________
नागराजविरचितं निन्दास्तुतिशतकम्
- डो. एच. वि. नागराजराव्
उपोद्घातः कल्याणगुणपूर्णं वा निर्गुणं यं विदुर्बुधाः । यस्मिन् पश्यन्ति दोषांश्च नास्तिकास्तं हरिं नुमः ॥ समस्तानि च वस्तूनि दृश्यन्ते जगतीतले । सगुणानि सदोषाणि न किञ्चिद् दृक्ष्यतेऽन्यथा ॥ एतदेवाऽवलम्ब्य प्राक् कविः श्रीवेङ्कटाध्वरी । रम्यां विश्वगुणादर्शचम्पू रचितवान् सुधीः ।। तन्मार्गमनुसृत्याऽहं कुर्वे निन्दास्तुती क्रमात् । केषाञ्चिदत्र वस्तूनां विबुधावलितुष्टये ॥
कृष्णः
हैयङ्गवीनमपहृत्य निहत्य नारी स्नानप्रसक्तवनितावसनानि हृत्वा । पार्थेन बन्धुनिवहस्य वधं विधाप्य त्वं कथ्यसे च भगवानिति कृष्ण ! चित्रम् ॥१॥ कृष्ण ! त्वमेव जगदेकगुरुर्मतो मे ज्ञानं च भक्तिमथ कर्म च बोधयित्वा । गीतास्त्वयोपनिषदो जनताहिताय त्वां स्तौमि नौमि च नमामि भजे श्रयामि ॥२॥
१७
Page #25
--------------------------------------------------------------------------
________________
रामः राम ! त्वदीयचरितं नहि रोचते मे रामां त्वदेकशरणाम् अजहाः कथं त्वम् ? । तां गर्भिणीं वनभुवि त्यजतो मनस्ते जातं नु वज्रकठिनं ? वद देव ! सत्यम् ॥३॥ राम ! त्वमेव मम दैवतमित्यवैमि त्वत्तो न कश्चिदपरो गुणवत्तरोऽस्ति । सत्यव्रतो दृढवचाः सुगुणानुरागी धर्मप्रियो जगति कोऽस्ति भवादृशोऽन्यः ॥४॥
लक्ष्मीः लक्ष्मीन कं मदयति प्रथमं प्रसन्ना कं वा न शोचयति दूरमियं प्रयाता । चाञ्चल्यशेवधिरहो नहि सौख्यहेतुनिन्द्येति वेत्ति मतिमान् बहुधा परीक्ष्य ॥५॥ लक्ष्मी विना भवति ना शवतुल्यतेजास्तां प्राप्य राजति यथा निशि पूर्णचन्द्रः । लक्ष्मीवतो जगति गौरवमानपूजास्तस्यैव कीर्तिरतुला विमला विशाला ॥६॥
विजेश्वरः
विघ्नेश्वर ! त्वयि कथं न वदामि दोषं विघ्नान् करोषि सकले किल कार्यकाले । पूजां चिकीर्षति जनस्तव चेत्तदापि । प्रत्यूहमत्र जनयस्युचितं किमेतत् ॥७॥ उत्पाद्य विघ्नमिह गर्विजनस्य दर्प तूर्णं हिनस्सि विनयं जनयस्यजस्रम् । सन्मानुषस्य कुरुषे खलु नाऽन्तरायं विघ्नेश्वराऽस्तु मयि ते करुणा सदाऽपि ॥८॥
Page #26
--------------------------------------------------------------------------
________________
बुद्धः
पूर्वं त्वमात्महितमेव निरीक्षमाणो
भार्यां सुतं च पितरं परिहाय यातः ।
तेषां गतिर्भवति केत्यविचार्य यानं दोषो न किं ? वद तथागत ! सत्यवेदिन् ॥९॥
लोकोपकारविधया बहुजन्मसु त्वं कारुण्यपूर्णहृदयो ददिषे स्वदेहम् । दुःखं जनस्य विनिवारयितुं कलत्रं पुत्रं च तातमपहाय गतो गुणाब्धे ! ||१०||
वामनः
विष्णो ! त्वयाऽभ्युपगतं किल वामनत्वं तत्राऽपि सद्मनि बलेर्बत याचकत्वम् । वाचा त्वयाऽपि विहितं बहु वञ्चकत्वं त्वां वर्णयन्ति कवयो विजुगुप्समानाः ॥११॥ भक्तान् सुरान् अवितवान् भगवान् मुकुन्दः सद्वामनत्वमवलम्ब्य च याचकत्वम् । नाऽवञ्चयद् बलिमनुग्रहमेव चक्रे चक्रायुधो गुणखनिर्हरिरादिकर्ता ॥१२॥
परशुराम:
कश्चित् पितुर्हतिमशिष्टमतिर्व्यतानीद् दुःक्षत्रियो मदवशादितिरुष्टचेताः । सन्धार्य तीक्ष्णपरशुं सकलान् महीशान् हन्तुं प्रवृत्तमदयं क इह स्वीति ? ॥ १३ ॥ पूर्वं त्वया परशुराम ! हतं समन्तात् क्षत्रं तथाऽपि रघुराममवेक्ष्य वीरम् । तस्मै समर्प्य निखिलं तव नैजमोजो यातस्त्वमिष्टतपसे गुणवारिराहो ! ॥१४॥
१९
Page #27
--------------------------------------------------------------------------
________________
हन्तुं हिरण्यकशिपुं नरसिंहरूपो विष्णुर्बभूव तमरिं नखरैर्जघान ।
नरसिंहः
पञ्चास्यवज्जटिलमुग्रमुदूह्य वेषं
बीभत्समेव विदधे स कथं नु वन्द्यः ? ॥१५॥
शिष्टेन दुष्टदमनाय कदाचिदेवं रूपं महोग्रमपि लोकहितैषिणाऽऽप्यम् । इत्येव पाठमिह शिक्षयितुं तु सैंहं वेषं दधद्धरिरसौ स्तुतिकोटिपात्रम् ॥१६॥ शिव:
नित्यं श्मशानवसतिः शवभस्मलेपो भिक्षाटनेन धृतजीवित एष शम्भुः । नागैर्महोग्रगरलैः परिभूषिताङ्गो भूतैः सहाऽऽचरति नृत्यमतो न मान्यः ||१७|| वासोऽस्तु शैलशिखरेऽप्यथवा श्मशाने सर्पस्तदाभरणमस्त्वथ कङ्कणं वा । भस्माङ्गरागकलनास्त्वथ चन्दनं वा सर्वं शुभं निखिललोकपतेः शिवस्य ॥१८॥ नैयायिकः
यः कर्कशेन वचसा कुरुतेऽत्र जल्पं प्रस्तौति तर्कमतिगूढमगाधमुच्चैः । मिथ्या च दर्शयति सत्यमिति स्ववाचा नैयायिकं तमिह को मतिमान् स्तवीति ॥१९॥
नैयायिकः सुदृढतर्कनदीष्णचित्तो न्यायेन साधयति लोककृतं महेशम् । आमुष्मिकं फलमवाप्तुमथैहिकं च श्रेष्ठं स दर्शयति मार्गमिति प्रशस्यः ॥ २०॥
२०
Page #28
--------------------------------------------------------------------------
________________
मीमांसकः मीमांसकैः किमिति पीड्यत एष लोकः श्रुत्याऽपि किं स्मृतिषु धर्मविदां सतीषु । व्याघातदोषभरितान् पुनरुक्तिदुष्टान् वेदान् न कोऽपि गणयत्यधुना निरर्थान् ॥२१॥ श्रुत्युक्तनिर्णयकृतोद्यम एष शश्वन् मीमांसकः सकललोकजनाभिनन्द्यः । श्रुत्या विना स्मृतिगणो भवति ह्यमूलो धर्मो विनक्ष्यति ततो नरकः प्रजानाम् ॥२२॥
वेदान्ती ब्रह्मेति बन्ध इति मुक्तिरिति ब्रुवाणा वेदान्तिनो विषमचिन्तनकूपमग्नाः । घ्रातुं न लौकिकसुखं न च हातुमीशा व्यायुषो जगति हास्यपदं प्रविष्टाः ॥२३॥ वेदान्तिनो निहतलौकिकवस्तुमोहा देहाभिमानरहिता हितमाचरन्तः । नित्ये चिदात्मनि सदाऽप्यनुरक्तिमन्तः सन्तो जयन्ति वसुधामपि भूषयन्तः ॥२४।।
जैनाः लज्जां विना भ्रमति जैनमुनिः पुरेषु वस्त्रं विना चरति किं पुरुषः सबुद्धिः ? । नाऽङ्गीकरोति जगदीश्वरमेष कञ्चित् तीथङ्करं तु मनुते सकलज्ञमज्ञः ॥२५॥ लोके भ्रमन्तु वसनेन विना मुनीन्द्राः सन्त्यक्तलोकविभवा भुवि वीतरागाः । वित्तैषणां परिहरन्तु शमं भजन्तु च्छिन्दन्तु बन्धमिति तैरुपदिश्यते नः ॥२६॥
२१
Page #29
--------------------------------------------------------------------------
________________
व्याघ्रः
को वा गुणोऽस्ति बलिनोऽपि तव प्रशस्तो व्याघ्र ! प्रभूतपशुमारणमात्रवृत्तेः । कस्यापि नोपकृतये तव शक्तिरेषा भीतिं सृजस्यखिलजन्तुषु गर्जनैश्च ||२७|| व्याघ्र ! त्वमेव मम मानधनो विभासि त्वं याचसे न नृपतीन् मदघूर्णिताक्षान् । नित्यं मृगान् बहुविधान् स्वयमेव हत्वा त्वं पूरयस्युदरभाण्डमनभ्रमूर्धा ॥२८॥ रासभ:
किं वा फलं जगति रासभ! जन्मनस्ते किं साधितं तु भवता वहताऽत्र भारम् ? । कस्याऽपि वस्त्रमिह शुद्धमभूत् त्वदीयात् कार्यान्न ते शुचिवपुर्न च ते प्रशंसा ॥२९॥ हे रासभाऽसि सहनानिधिरत्र नित्यं वस्त्राण्यशुद्धिभरितानि नयस्यजस्रम् । शुद्धानि तानि पुनराहरसे प्रदोषे प्राप्तुं प्रशस्तिमिह नेच्छसि कर्मयोगी ||३०|| कोकिलः
हे कोकिल ! त्वमसि वञ्चकसार्थनेता न स्वात्मजानपि च पोषयसि श्रमेण ।
भूत्वाऽन्यपुष्ट इह मञ्जुलगानमात्रालोकान् प्रसाद्य लभसे विपुलां प्रशंसाम् ॥३१॥ प्राप्ते वसन्तसमये पिक ! गायसि त्वं स्वान्तं विनोदयितुमाह्वयितुं प्रियां वा ।
श्रुत्वा जनस्तव तु पञ्चमगानमारान् नानन्द्यते त्वमसि धन्यतमोऽत्र लोके ॥३२॥
२२
Page #30
--------------------------------------------------------------------------
________________
सिंहः पञ्चास्य ! मूर्खनिवहेन मृगेन्द्रता ते दत्ता तया किमिति दृप्यसि तिष्ठ तूष्णीम् । नित्यं निहंसि हरिणान् शशकान् अशक्तान् कर्तव्यमिन्द्रपदलास्य ! न वेत्सि किञ्चित् ।।३३।। सिंह ! त्वमस्यखिलभूमितले प्रसिद्धो धैर्यं बिभर्षि सहजं विपुलं च शौर्यम् । प्राप्ता मृगेन्द्रपदवी भक्ता स्वशक्त्या त्वं चिन्तये विपदि लब्धुमभीतिमद्धा ॥३४॥
शुकः वाचस्त्वया त्वधिगताः कतिचित् प्रयत्नात् ताः प्रत्यहं रटसि न त्वयि नूतनोक्तिः । नार्यः स्तुवन्तु तव कौशलमप्रगल्भा नाऽऽर्यस्त्वभिज्ञमतिराद्रियते भवन्तम् ॥३५॥ ख्यातोऽसि हे शुक ! वचःकुशलत्वहेतोः श्लाघ्यश्च वर्णविभवो वपुषि त्वदीये । त्वां पालयन्ति सरसं नरपालदाराः धन्योऽसि मान्य ! तव नास्ति समो विहङ्गः ॥३६॥
हरिणः नित्यं तरक्षुवृकसिंहवनेचरेभ्यो बिभ्यत् कथञ्चिदिह जीवसि दीनचित्तः । क्षेत्रे चिखादिषसि सस्यमथाऽपि रङ्को लब्ध्वा प्रहारमभिधावसि कान्दिशीकः ॥३७।। निर्मत्सरोऽसि परितुष्यसि पल्लवैस्त्वं रूपेण दृप्यसि न, लुभ्यसि नैव रायैः । कञ्चिन्न निन्दसि न शंससि धूर्तराजान् धत्थस्त्वमेव हरिण ! क्षणिके प्रपञ्चे ॥३८॥
२३
Page #31
--------------------------------------------------------------------------
________________
गजः
लब्ध्वाऽपि गात्रमितरैरनवाप्यमीदृक्
त्वं ह्रस्वमानवभिया कुरुषेऽस्य कार्यम् । दास्यं विगर्ह्यमुररीकुरुषे विलज्जो
धिक् त्वां करीन्द्र ! तव निन्द्यतमा प्रवृत्तिः ॥ ३९॥
हे वारणाधिप ! बृहत्तमगात्र ! शत्रून् शुण्डाप्रहारविधिना कुरुषे गतासून् । राजा तवोपरि सुवर्णकुथे निषीदन् राज्यते तव तिर्न नरेण शक्या ||४०||
गरुडः
कीटान् समत्सि गरुडोरगशावकान् वा मत्स्यांश्च भक्षयसि खादसि मांसखण्डान् । कं वा गुणं त्वयि परीक्ष्य हरिः स्ववाहं त्वां चक्र इत्यविदितं मयकाऽद्य यावत् ॥४१॥ तार्क्ष्यं प्रणौमि हरिवाहनमागमेड्यं वेगेन यान्तमुरगव्रजशत्रुमाद्यम् । विद्यास्वरूपमनवद्यगुणं च हृद्यं सद्यो भयावहरणं खगलोकराजम् ॥४२॥
काकः
हे काक ! ते रुचिरियं सततं ह्यशुद्धे दुर्गन्धपूर्णविषये कथमाविरासीत् ? । त्वद्दर्शनेन नहि कस्यचिदत्र हर्षः संलक्ष्यते क्वचिदसौ पितृपिण्डदाने ॥४३॥ काक ! त्वमत्र भुवने बहु निन्दितोऽसि वर्णस्तवास्त्यधवलः परुषश्च नादः । किन्तु स्वभावमलिनं जगदेतदाराच्छुद्धीकरोषि गुणमेनमहं स्वीमि ॥४४॥
२४
Page #32
--------------------------------------------------------------------------
________________
मर्कटः चेष्टां जहाति विकटां नहि मर्कटोऽयं छिन्ते तरोः सुविटपान् पटुलङ्घनेन । दुष्टश्छिनत्ति सुपटांश्च घटान् भिनत्ति द्विष्टः करोति सकलेष्टिविनष्टिमेषः ॥४५।। हे मर्कटाऽसि विमलश्च विशुद्धभावः संदृश्यते त्वयि तु किञ्चन मानवत्वम् । स्यात्तत्तथा सपदि भूत् त्वयि मा नवत्वं मिथ्यावचः स्वकमताग्रहलोभरूपम् ॥४६।।
हंसः हंसा वसन्ति बहवः सरसि प्रसन्ने सन्मानसे मम न दूषणहेतुरत्र । ते किन्तु कीटकृमिमीनशिशून् अदन्ति तेषां कथं शुचितया जगति प्रसिद्धिः ? ॥४७।। हंस ! त्वमेव शुचितां परमां बिर्षि त्वन्नाम बिभ्रति तथा यतयः पवित्राः । साहायकं तव नलः समवाप्य भेजे सौन्दर्यसारविजिताप्सरसं च भैमीम् ॥४८॥
सर्पः दुग्धं प्रदाय सुजनो विदधाति पूजां दष्ट्वा तमप्यपगतासुमिहाऽऽतनोषि । दर्पण सर्प परिसर्पसि तेऽपि गर्वं । निर्वापयिष्यति वयस्य नरेन्द्र एषः ॥४९॥ त्वं संहरस्यविरतं कुलमुन्दुरूणां साह्याय कर्षकगणस्य पृदाकुराज ! । त्वां पूजयन्ति वनिता ग्रहदोषशान्त्यै सर्वान् जनान् अनुगृहाण सुदूरवासी ॥५०॥
२५
Page #33
--------------------------------------------------------------------------
________________
मत्स्यः अल्पं बृहन् गिलति तं च बृहत्तरस्तं मत्स्यं बृहत्तमतनुः कवलीकरोति । न्यायं तमेनमनुसृत्य कुलस्य नाशे नित्यं रता अनिमिषाः खलु निन्दनीयाः ॥५१॥ मीना अमी नयनतर्पणवर्णभूषाः केषां न विस्मयभरं जनयन्त्यपारम् ? | नारायणोऽप्यवततार तदीयरूपे वेदान् रिरक्षिषुरिति स्तुजिभाज एते ॥५२॥
कूर्मः हे कूर्म ! मन्थरगते वद मन्दबुद्धे ! दीर्घ सिषाधयसि किं तव जीवनेऽस्मिन् । . दृष्ट्वा शशांश्च विहगान् उरगान् सवेगान् किं लज्जसे न ! भव वेगयुतः कथञ्चित् ॥५३॥ कूर्म ! त्वमेव सुकृती निखिले प्रपञ्चे चिन्तां विना क्षपयसि क्षणदां दिनं च । नास्ति त्वरा तव न वा भयकल्पनाऽपि त्वं विष्णुरूप इति ते स्तुतिरेव साध्वी ॥५४॥
वराहः रे रे वराह ! किमरण्यवसुन्धरायां नास्त्येव मूलफलकन्दसमृद्धिरत्र ? क्षेत्रेषु किं भ्रमसि भूरि भयानकेषु राजश्रितेषु परितर्पयितुं रसज्ञाम् ॥५५।। भूम्ना हिरण्यनयनं विनिपातयन्तं वेदोक्तयज्ञयज्ञमुखधर्ममवन्तमीड्यम् । आद्यं वराहमवनि द्रुतमुद्धरन्तं भक्त्या भजामि भवभीतिविभञ्जनेप्सुः ॥५६॥
२६
Page #34
--------------------------------------------------------------------------
________________
बिडालः त्वामन्नदुग्धनवनीतदधीनि दत्त्वा प्रीत्या बिडाल ! शिशुवत्परिपालयन्ति । केचिज्जनास्तव कृते जहति स्ववित्तं कार्तश्यमस्ति किमु ते हृदि लेशतोऽपि ? ॥५७।। दत्त्वा कदाचन कदन्नलवं भवन्तं यः पोषयेत् करुणया भवने स्वकीये । तस्योपकारमतुलं कुरुषे बिडाल ! त्वं मूषिकान् लघु निहत्य गुणी कृतज्ञः ॥५८॥
धनम् वित्तं गृहस्थितमपारभयस्य बीजं बान्धव्यनाशकमदत्तमपायकाले । शत्रुत्वकारणमपत्यगणस्य भूयः को वाऽभिनन्दति धनं तदिहाऽत्र विद्वान् ॥५९।। मूलं समस्तविदुषां पुरुषार्थसिद्धेः बीजं विशालसुखसम्पदपारवृद्धः । हेतुर्वलक्षयशसां नितरां समृद्धः वित्तं न केन विबुधेन समर्च्यतेऽत्र ? ॥६०॥
चन्द्रः चन्द्र ! त्वदीयरमणीयगुणान् कलङ्कः सञ्छादचत्यतितरां त्यज तं त्वमाशु । सोऽयं ममाऽस्ति सहजः प्रिय इत्युदास्से चेत्त्वां न कश्चिदिह पूजयतीति विद्धि ॥६१।। चन्द्रः सुधामयमयूखगणैर्मनुष्यान् सम्प्रीणयत्यनुदिनं न तु याचते तान् । किञ्चित् कुरुध्वमिह मे क्षयपक्षदुःखे साहाय्यमित्यत उपास्यपदोऽयमेव ॥६२।।
२७
Page #35
--------------------------------------------------------------------------
________________
सूर्यः त्वं बाधसे जनगणान् नितरां निदाघे संशोषयस्यपि तरून् कुरुषे मरूंश्च । लीनो भवस्यतितमां जलदेषु भास्वन् ! वर्षासु कोऽस्ति भवतो जगतोऽस्य लाभः ? ॥६३|| भानो ! विभासि नभसि प्रभया दिवा त्वं । दत्त्से प्रकाशमपि वृष्टिमिहाऽऽतनोषि । शैत्यं जनस्य जडतां च हरस्यजस्रं त्वां नौमि सर्वजगतां नयनं महात्मन् ! ॥६४॥
नारिकेलः हे नारिकेल ! गगने फलवल्लरी ते को वाऽत्र तानि लभते मनुजः फलानि । आकाशतः किल पतन्ति कदाऽपि शीर्षे प्राणान् हरन्ति पुरुषस्य ततो हि धिक् त्वाम् ॥६५॥ राजाऽसि वृक्षनिवहस्य समुन्नतोऽसि त्वं नारिकेल ! मधुरं सुजलं च दत्से । सारं फलस्य तव पुष्टिकरं नराणां तस्मात् त्वमेव भुवि कल्पतरुनमस्ते ॥६६।।
भूमिः भूमौ किमस्ति ? मनुजाः कलहे प्रसक्ताः क्रौर्यं च युद्धमथवैरमथ प्रणाशः ।। मैत्रीति हार्दमिति भूतदयेति मिथ्यावादस्ततो न वसुधा भवति प्रशस्ता ॥६७।। ये ज्ञानिनश्च गुरवश्च कलाविदश्च शान्तिप्रियाः परहितप्रवणा महान्तः । ते सन्ति भूमिवलये तपसा समस्तान् उद्धर्तुमिच्छव इति पृथिवी प्रशस्ता ॥६८॥
२८
Page #36
--------------------------------------------------------------------------
________________
शैलः
शैलोऽस्ति हिंसपशुयूथगृहं समन्ताद् भीतिः समस्तमिह संवृणुते सदाऽपि । चोरा गुहासु निवसन्त्युरगाश्च घोरा नाऽऽराधनोचितगुणोऽस्ति गिरौ तु कश्चित् ॥६९॥ शैल ! त्वमेव भुवि धन्यतमो विभासि त्वामाश्रयन्ति सरितः परितश्च वृक्षाः । ऋक्षा गजाश्च विहगा उरगा मृगाश्च त्वां वर्णयामि कतिभिर्वचनैर्न जाने ॥७०॥ नगरम्
दुःखाविलेऽत्र नगरे किमिव प्रशस्तं मालिन्यमस्ति पवने सलिले स्थले च । कर्णौ भिनत्ति सुतरां शकटादिशब्दश्चोराः किरातसदृशाः प्रगुणीभवन्ति ॥ ७१ ॥ रम्यं विभाति नगरं विपुलप्रकाशं देवालयैर्विपणिभिर्भवनैश्च भव्यम् । सङ्गीतनृत्यनवनाटककान्तिकान्तं योगप्रयोगनिपुणैर्भरितं नितान्तम् ॥७२॥
नक्षत्राणि
भान्त्येव खे विविधभानि फलं न किञ्चित् द्योतं न धर्ममपि वा जनयन्ति तानि । तान्यर्चयन्ति शुभलाभमवाप्तुकामा मूर्खास्ततः किमिव हास्यतरं धरायाम् ॥७३॥
खं भूषयन्ति नयनोत्सवमाचरन्ते चित्राणि भानि विविधाकृतिदर्शकानि । चन्द्रेण शून्यमभितः किल रात्रिकालं कुर्वन्ति सह्यमुपपाद्य मनाक् प्रकाशम् ॥७४||
२९
Page #37
--------------------------------------------------------------------------
________________
समुद्रः यादांसि रक्षसि समुद्र ! बहूनि कुक्षौ घोराणि यानि जनयन्ति भयं प्रभूतम् । त्वद्वीचयः प्लवगणान् विनिमज्जयन्ति त्वद्वार्यसह्यलवणं त्वमतोऽसि निन्द्यः ॥७५॥ रत्नानि सन्ति विपुलानि तवोदरेऽब्धे ! प्रीत्या ददासि बहु मेघगणाय वारि । लक्ष्मीः सुता तव हरिं वृणुते स्म नाथं त्वत्तोऽधिको जगति न प्रतिभाति कश्चित् ॥७६।।
मेघः हे मेघ ! गर्जसि वृथा सलिलं न दत्से सौदामिनी सपदि दर्शयसे च भान्तीम् । लोको विशुष्कवदनस्तु निरीक्षतेऽपः त्वं निर्गुणोऽसि सकलान् कुरुषे निराशान् ॥७७।। वारि प्रवर्षसि सरित्सरसीतटाकाः पूर्णा भवन्तु जगदस्तु सुखीति मेघ ! । नाऽपेक्षसे कमपि तेभ्य इहोपकारं निष्कामकर्मनिरतस्त्वमसि प्रशस्यः ॥७८।।
रसाल: मूर्खा रसाल ! जगति त्वमतुल्यरूप: कस्माद् बिर्षि मधुराणि फलानि भूयः । भग्नास्त्वदीयविटपा: कपिभिर्मनुष्यैः पाषाणवृष्टिररचि त्वदुपर्यजस्रम् ॥७९॥ धन्यो रसाल ! जगतामुपकारकस्त्वं रस्यं त्वदीयफलमस्ति न कस्य रम्यम् ? । छायां ददासि नरधेनुमृगव्रजेभ्यस्त्वामाश्रयन्ति विहगाः शतशश्च भृङ्गाः ॥८०॥
३०
Page #38
--------------------------------------------------------------------------
________________
वैद्याः वैद्यान् महीतलयमान् सभयोऽत्र वन्दे छिन्दन्ति ये वपुरपारधनं गृहीत्वा । ये यातनामधिकयन्त्यगदैविरुद्धै रुग्णस्य वित्तमपहर्तुमसत्यवाचः ॥८१।। वैद्यं नमामि जगतीतलविष्णुमाद्यं रक्षन्तमामयगणात् सकलं प्रपञ्चम् । राजा कविश्च विबुधो निखिलागमज्ञः पादौ समाश्रयति यस्य रुजाभिभूतः ॥८२।।
ज्योतिषिकाः मिथ्याग्रहान् अनृतशास्त्रगतान् विचारान् भीति जने जनयितुं सततं गदन्तः । लुण्टन्ति ये जगति मुग्धधियां धनं तान् कार्तान्तिकान् क इह शंसति शास्त्रशत्रून् ॥८३।। कार्तान्तिकान् सकललोकविचारदक्षान् नक्षत्रयोगकरणोपनिषन्नदीष्णान् । सूक्ष्मेक्षिकाविदितसर्वशुभाशुभार्थान् लोकोपकारनिरतान् प्रणमामि भक्त्या ॥८४।।
गुरुः मूढः स्वयं नृपतिदत्तकरावलम्बो लब्ध्वा गुरोः पदमनुत्तममिद्धगर्वः । नित्यं प्रतारयति शिष्यगणान् वितन्वंश्चेष्टां मुनीन्द्रवदयं गुरुवेषधारी ॥८५॥ पूज्यो गुरुः सकलशास्त्ररहस्यवेदी छात्रे सदा सकरुणः परमार्थदर्शी । यस्यैव चाऽत्र कृपया प्रभवन्ति शिष्यास्तुल्या गुरोर्गुणगणैश्च सुविद्यया च ॥८६।।
३१
Page #39
--------------------------------------------------------------------------
________________
कवयः मिथ्याप्रकल्पनपरैः कविभिः किमस्मिन् लोकेऽपि साधितमिति ब्रुवतां त एव । नार्याः स्तनौ जघनमूरुयुगं नितम्बो येषां समस्तविषयः किमु तैः फलं नः ॥८७|| सर्वज्ञकल्पकविवाक्यमणिप्रदीपः लोकं प्रकाशयति येन वयं प्रतीमः । धर्मार्थकामपरनिर्वृतिमोक्षरूपं मुख्यं प्रयोजनमिहाऽस्ति सुकाव्यगीर्षु ॥८८॥
गृहस्थः नित्यं गृहे भवति युद्धरवः शिशूनाम्
आक्रन्दनं लवणतण्डुलतैलचिन्ता । निर्यातनं कृतऋणस्य कथं कदा वेत्यालोचना कथमिवाऽस्तु सुखी गृहस्थः ॥८९॥ गार्हस्थ्यमेव सकलाश्रममूलमाहुवर्णी यतिश्च वनगः श्रयते गृहस्थम् । सर्वेऽपि ते प्रथमतो गृह एव जाता अन्नाय यान्ति हि गृहस्थमतः स धन्यः ॥९०॥
वेश्याः वित्ताय देहमपि पण्यमहो विधाय स्वच्छात्मनामपि मनः प्रसभं हरन्त्यः । वेश्याः समस्तमनुवंशकलङ्कभूताः कापट्यदौष्ट्यनिलया विलयं प्रयान्तु ॥९१॥ लावण्यवारिनिधयो निधयः कलानां पण्याङ्गना विपुलपुण्यजनेन लभ्याः । इन्द्रादयः सुरवरा अपि मेनकादीनृत्यप्रवीणगणिकाः किल पोषयन्ति ॥९२)
३२
Page #40
--------------------------------------------------------------------------
________________
विद्वान्
शास्त्राणि वेत्ति, निगमान् पठति, प्रजानां सन्देहजालमपि वारयति प्रमाणैः । विद्वान् विशेषविदयं धनिनः सकाशे बद्धाञ्जलिं नमति धिक् तमिमं च लोकम् ॥९३।। सन्त्यत्र वित्तविभवेन नितान्तमत्ता राज्याधिकारमदघूर्णितचक्षुषश्च । किं तैविवेकनयनेक्षितविश्वमूलो विद्वान् वराटरहितोऽप्यभिवन्दनीयः ॥९४।।
कालिदासः रे कालिदास ! भवता विषयेषु सक्ता द्विस्त्रिश्चतुः परिणये प्रसिता नरेन्द्राः । स्वातन्त्रशून्यवनिताश्चतुरत्वहीनाः संवर्णिता इति भवान् स्तुतिभाजनं न ॥९५॥ . आदर्शराजमहितं रघुवंशकाव्यं कौमारकाव्यमपि दिव्यकथाप्रदीप्तम् । सन्मेघदूतमतुलप्रणयोपगूढं येन व्यधायि नम तं कविकालिदासम् ॥९६।।
बाणः दीर्धेः समासघटनैर्जटिलां प्रकीर्णां बाणस्य वाचमिह को बुध आददीत । पाण्डित्यमेव परिदर्शयितुं प्रयत्नं पश्यामि तत्र नहि कोऽपि गुणोऽस्ति तस्याम् ॥१७॥ कादम्बरी ललितरम्यकथां प्रसन्नां लोकोत्तरां रसमयीं सुभगां विधाय । निर्माय हर्षचरितं च गिरां सवित्र्या बाणश्चकार सुकृती महतीं सपर्याम् ॥९८॥
Page #41
--------------------------------------------------------------------------
________________
गायकाः हे गायकाः ! किमिति कर्कशरागतानैः कर्णान् निपीडयथ मुग्धधियां जनानाम् । वाद्यानि निष्ठुररवाणि च वादयित्वा । नृन् हिंसतां नरकपातभयं न किं वः ? ॥१९॥ गानं सुरागकलितं मधुरं प्रसन्नं प्रस्तुत्य संसदि जनान् इह मन्त्रमुग्धान् । कृत्वा रसानुभवमद्भुततां दधद्भ्यः सद्गायकेभ्य इयमस्तु सदा नमस्या ॥१००।। पूर्वपद्येऽस्ति निन्दाऽत्र, स्तुतिरस्ति तथोत्तरे । एवं लोकेऽत्र वीक्षन्तां, प्रतिवस्तु विपश्चितः ॥
इति नागराजविरचितं निन्दास्तुतिशतकं सम्पूर्णम् ।
90, 9th Cross, Naviluraste, Kuvempunagar, Mysuru-510023
Page #42
--------------------------------------------------------------------------
________________
कलिसपादिकाः
- प्रा. अभिराजराजेन्द्रमिश्रः
गृहिणोऽसुखिनो यतयस्सुखिनो विलपन्ति बुधा विलसन्ति जडाः क्व धृतिः क्व दमः क्व विवेकबलं शुचितेन्द्रियनिग्रहसत्यकथाः ? । क्व च धर्मगुणा अपेरऽत्र कलौ वरटन्ति बकाः शरभन्ति वृकाः ननु मौकुलयोऽपि पिकन्ति मुधा जलदन्ति महानसधूमचयाः ॥१॥
भुवि सत्पुरुषन्ति शठाः कितवा धनदन्ति च तस्करदस्युगणाः किमहोऽधिकसंल्लपनेन पुनर्विपरीतमिवैव कलौ विततम् । इह भारतराष्ट्रमहापरिधौ जनतन्त्रमिदं जयते सततम्
यदमोघबलेन चरित्रहता दनुजा विकसन्ति यथा दुरितम् ॥२॥ बलशम्बरवृत्रदशाननकंसकबन्धविराधखरादिसमाः दनुजप्रतिमा मनुजाः समवाप्य नु मन्त्रिपदं परुषा विषमाः । नितरां छलयन्ति जनं सरलं गुणयन्ति बलं दमयन्ति बुधान् दमयन्ति लसद्गुणसंवलितान् जरयन्ति शुभोदयकर्मरतान् ॥३॥
लघयन्ति निजाऽवनिकीर्तिकथां शमयन्ति न वा रुदितानि सतां न च ते गुणपक्षधराः सदया न च रक्षिण एव सदा महताम् । न च लोकसमाजविकासमया दुरितौघपटाः षड्यन्त्रकराः
परदारयशोधनवृत्तहरा निजलाभविलीनमनःप्रसराः ॥४॥ परकृत्यविनाशसदारतयो ननु भूतपिशाचगृहीतधियः वितथीकृतदेवनृपालभियो न गृहे शमिनो न वने सुधियः । न च बन्धुजनेषु सदाशयिनो मनसाऽपि शठा वचसाऽपि शठाः कृमिकीटविनिन्दितजीवितकाः सकलोदयसौख्यदृशाऽपि शठाः ।।५।।
३५
Page #43
--------------------------------------------------------------------------
________________
पशुतोऽपि विमूढगलन्मतिका धृतभङ्गभुजङ्गविषग्रहिलाः जनतासुखमङ्गलमोदलसत्तुहिनाकरराहुनिभाः कुटिलाः । धिगहो परितोऽपि गतान् विमतान् कलिकालविटान् कपिनृत्यरतान्
हितसिद्धिकरे पथि पर्यटितान् शतजातुकलानिपुणान् विगुणान् ॥६॥ नहि सम्प्रति संसदि ते महिता निगमागमशास्त्रपुराणविदः न च कोमलकान्तपदावलिमञ्जुलसत्पदबन्धसमूहयुजः । दशरूपनिरूपणशक्तिभृतः षड्दर्शनवाङ्मयनित्यजुषः परमेश्वरपादपयोजमधुप्रचुरग्रहणोन्मदभृङ्गदृशः ।।७।।
कविकोविदसाधुतपोधनिनोऽनिशमेव रुदन्ति मनोव्यथया श्लथतामुपयान्ति बृहत्कथया बत को नु शृणोति तदात्मगतं । परिपृच्छतु को नु तदीयसुखं नयनाऽश्वपनोदयतु क्व कथम् ?
परिपश्यतु को नु महाविपदं प्लुतवम विनोदयतु क्व कथम् ||८|| सुखिनस्तु कलाविह सन्त्यपरे न च संसदि ते गणिता महिताः न च शासनतन्त्रविधानवृता अनियन्त्रणकैतवसूत्रधराः । विधिमान्यनिदेशविमानकरास्तदजागलसन्निभमेव मतम् ननु दर्शनमात्रकुतूहलजं प्रतिभाति तदीयमहो चरितम् ॥९॥
जनतन्त्रमिदं वृणुते न वरान् शृणुते न वरांस्तनुते न वरान् जनतन्त्रमिदं मनुतेऽप्यवरान् छलछद्मपरायणनेतृजनान् । अधुनाऽधिकलि प्रविवेकहरं परितोऽपि तमोऽञ्चति दृष्टिहरं
तमसि क्व दिनेशमयूखकथा क्व च लोकसुखं रुचिरं प्रचुरम् ॥१०॥ जगदीश्वर ! राष्ट्रमिदं रुचिरं ननु विश्वगुरुप्रथया प्रथितं चतुराननभूरितपोमहितं हरिहारिचरित्रविभामहितम् ।। कृपया परिवारय वारय भो ! मरणादमृतं प्रति सारय भोः ! अनृताच्च ऋतं प्रति कारय भोस्तमसोऽपि दिनश्रियमानय भोः ! ॥११॥
बुधसंहतिमाशु समञ्जय भो ! जडजाल्मतति किल भञ्जय भोः ! नलरामयुधिष्ठिरकीर्तिकथा प्रसरेत्पुनरप्यवनीपरिधौ । ननु राघवशासनतन्त्रमदः स्वगृहे लसतात्-भवताच्च पुनः प्रतिगेहमुमासदृशी दुहिता प्रभवेत्परमेश्वर ! जातु पुनः ॥१२॥
३६
Page #44
--------------------------------------------------------------------------
________________
ननु नन्दनकाननकल्पलता प्रभवेद्धनधान्यविपोषकरी विभुता प्रसरेच्च दरिद्रगृहे कटुदैन्यकदर्थनदोषहरी । प्रतिगेहमनन्तगुणाऽतिशयोऽप्युदयेद्रघुनाथसमस्तनयः प्रतिगेहममेयविभुत्वमहो विलसेद् गुणिनां शुभदस्समयः ॥१३॥
वनमस्तु न जम्बुकमात्रवृतं न सरो बकटिट्टिभसम्भरितं वनमस्तु मृगेन्द्रनियन्त्रणगं सजलञ्च सरो वरटध्वनितम् । सुखसम्पदहो विलसेत्परिते मम राष्ट्रमिदं जयतां जयतां
कलिदण्डकमस्तु हिताय सतां सतताय हिताय च मानवताम् ॥१४|| स्थिरतामुपयान्तु बुधा गुणिनः क्षमतामुपयान्तु महाबलिनः प्रभवेत्सुरवाचि रुचिनितरां विकसेत्स्वपथे सुमतिस्सुतराम् । ननु संस्कृतिरार्यगुणैर्महिता भरतावनिकीर्तिकलापधृताऽखिलविश्वकुटुम्बमुदारधिया परिरक्षतु पालयतामभिया ॥१५।।
जलदागमशीतवसन्तनिदाघसमुच्चयसेवितराष्ट्रमिदं शिवसुन्दरसत्यतपोमहितं समतीतयुगत्रयसन्तुलितम् । बिभृयादनुकूलसमुच्छलितं यमुनातटकुञ्जदरीषु सदा
व्रजनाथमुखासवसीकरिणः प्रभवन्तु पुनर्मुरलीनिनदाः ॥१६।। कलविङ्कमयूरकपोतशुकैर्बकसारसटिट्टिभकोकमुखैः चटकापिकचातककाककुलैर्ननु तित्तिरखञ्जनहंसगणैः । प्रतिकाननमस्तु मनोरमणं प्रतिकुञ्जमपि श्रमखेदहरम् तदिदं गुणदोषविवेचनकं प्रमुदे सुविदामभिराजकृतम् ॥१७॥
सकलोदयमङ्गलसङ्घटकं भवतान्नितरामपकीर्तिहरं कलिदण्डकमेतदहो रुचिरं कविनाऽप्यभिराजिसुतेन कृतम् । पठिती बिभृयाद् व्यवहारसृतिं द्रविणञ्च यशोऽशिवपापहर्ति परिनिर्वृतिमप्यथवा त्वरितां ललितां जनतोषकटीं सुमतिम् ॥१८॥
Teacher's Colony Lower Summer Hill
SHIMLA.(H.P.)
Page #45
--------------------------------------------------------------------------
________________
केयं
कृपा ?
पश्यामि प्रत्यहं त्वां पृच्छामि तमिमं प्रश्नम् । केयं कृपाऽतितरले मयि तेऽम्ब ! दोषबहुले ||
भोजयसि भूमिसुखदं रसपूर्णमेव भक्ष्यम् । पाययसि पूर्णमुदरं सलिलं नवं च दुग्धम् । विरचयसि मृदुलं तल्पं कुत्राऽपि त्वं मदर्थम् । स्वापयसि चाऽर्भकं मां ससुखं सस्वापगीतम् ॥१॥
घनघोरसूर्यतापे कल्पयसि सुरतरुच्छायाम् । करकैर्युतेऽपि वर्षे गृह्णासि किञ्चन छत्रम् । पृथुलेऽपि महति निशीथे दर्शयसि ज्योतीरेखाम् । तारयसि तनयं ते मां सकलां च दुस्तरसरिताम् ॥२॥ न मया तु प्रार्थिता त्वं स्वप्नेऽपि किमपि निमित्तम् । सदयाऽसि सत्यपि एवं मय्यम्ब ! किमिदं चित्रम् ? अथवा किमत्र विचित्रम् इदमेव मातुर्गणनम् । क्रोशन्तमक्रोशन्तं सान्त्वयति सा निर्भेदम् ॥३॥
३८
- डो. विश्वासः
Vipasha, 4H, 99B, Navanagar Landlinks, Derbail Konchady Mangalore 575008
Page #46
--------------------------------------------------------------------------
________________
जलं हि द्विविधं प्रोक्तम्
- प्रो. कमलेशकुमार छ. चोक्सी
जलं हि द्विविधं प्रोक्तं मनुजैः प्राप्यते सदा । मेघजं कूपजं चैव निर्मलं शीतलं तथा ॥१॥ पानीयं द्विविधं यद्धि समुपदेशयत्यलम् । कर्मणां करणे नित्यं बालवृद्धजनांस्तथा ॥२॥ भाग्यं नाम मनुष्यस्य मेघात्प्राप्तं जलं स्मृतम् । कूपादधिगतं यच्च परिश्रमाभिधं मतम् ॥३॥ मेघजलेन यत्स्नानं सुखदं सरलं भवेत् । तस्मात् पुनः पुनः तद्धि वाञ्छति प्राकृतो जनः ॥४॥ स न जानाति सत्यं यत्प्रत्यहं तन्न शक्यते । तस्मात् मेघजलाभावे नाऽस्य स्नानसुखं भवेत् ॥५॥ एवमेवाऽत्र संसारे कदाचित् क्वचिदेव वा । भाग्यं फलति हे बाल ! न सदा सर्वदा तथा ॥६॥ परं श्रमेण स्वीयेन प्राप्तं कूपजलं त्वया । स्नानं सम्भवति तेन नित्यं यद्यपि कष्टजम् ॥७॥ एवं परिश्रमेणैव जलेन स्नाति बुद्धिमान् ।। प्रत्यहं सुखमाप्नोति स्नानजं सुखदं च यत् ॥८॥ कृपा हि परमाप्तस्य वर्षत्यविरतं मयि । इति मत्वा मनुष्येण कार्यः परिश्रमः सदा ॥९॥
३९
Page #47
--------------------------------------------------------------------------
________________
कृपया परमेशस्य श्रमेण चाऽऽत्मनस्तथा । प्राप्नोति सततं सुखं मानवो नाऽत्र संशयः ॥१०॥ तस्मान्नरः सुविचार्य कृत्वा परिश्रमं तथा । साफल्यं लभते नित्यं विफलतां न सर्वथा ॥११॥ समुदेति परिश्रमो न कदा विरमत्यसौ । गगने हि यथा सूर्यः प्राणा वा प्राणिजीवने ॥१२।।
संस्कृतविभाग, भाषासाहित्यभवनम्, गुजरात विश्वविद्यालय, अहमदाबाद-९ (गुजरात)
Page #48
--------------------------------------------------------------------------
________________
हाईकु काव्यानि
- डो. कान्ति गोर
अस्तो मरीचिः पुलकितो तडागः रुदति जनः
तमसा ग्रस्तं जीवन-यानमिदम् सुप्तो यात्री
शृणोमि मम जगतः दृष्ट्यर्थं हि मौनमिदं यत्
अन्नं पुष्यति शरीरं, कः पुष्णाति अस्माकं मनः !
आचार्यो नाम्ना वणिग् व्यवहारेण विद्यागमः क्व ?
तमसि लीना जीवननौका ह्येषा शेते नाविकः
शमेव दत्ते वचनकटुत्वेऽपि स एव साधुः
मनोऽभिलाषा हि धर्माविरुद्धा ददाति मुक्तिम्
नाऽर्थो हि कन्या परकीयसम्मता पितुर्धनं सा
पाषाणार्पिता श्रद्धा हृदयभाषा न बुद्धिगम्या
न कोऽप्यर्थोऽस्ति नीतिहीनेन पथा प्राप्तेरर्थस्य
वामाङ्गे स्थिता धर्मेणाऽऽनीता परं वर्तने वामा
सुदर्शन, १२, एन, आर. आय. सोसायटी,
श्रीजी नगर, पो माधापुर भुज (कच्छ) ३७००२०.
Page #49
--------------------------------------------------------------------------
________________
तत्त्वबोधप्रवेशिका-२
ख्यातिवादः
- मुनित्रैलोक्यमण्डनविजयः
अप्रमाणभूतं ज्ञानं त्रिविधं सम्भवति : १. संशयः २. अनध्यवसाय: ३. विपर्ययश्च । तत्र तृतीयमप्रमाणात्मकं ज्ञानं 'विपर्ययः, मिथ्याज्ञानम्, अतत्त्वज्ञानम्, भ्रमः, भ्रान्तिः, विभ्रमः, व्यभिचारिज्ञानम्, ज्ञानाभासः, अप्रमा' इत्यादिभिरनेकाभिरभिधाभिर्व्यवहियते । तत् पुनर्द्विप्रकार सम्भवति : १. पारमार्थिको भ्रमः २. व्यावहारिको भ्रमश्च ।
तत्र परमभ्रमस्य सर्वैरपि दार्शनिकैरभ्युपगमे कृतेऽपि, तस्य काचिद् निश्चिता व्याख्याऽसम्भविनी । यतः प्रत्येकं दर्शनस्य मतेन तस्य स्वरूपस्य भिन्नत्वात्, तस्य सर्वसामान्य लक्षणं नैव लक्ष्यते ।
अयमत्र भावः - सर्वैरपि दार्शनिकैः स्वस्वदृष्टिरुच्यनुरूपं तत्त्वं विवेचितम् । ततः परस्परं विभिन्नस्य तत्त्वनिरूपणस्य मिथः सङ्घर्षः स्वाभाविकः । अपि च सर्वेऽपि दार्शनिकाः स्वकीयं निरूपणमेवैक मात्रसत्यरूपेणाऽनुमन्यन्ते । अन्यत् किमपि तेषां दृष्टौ सत्यव्यतिरिक्तमेव भवति । अतः प्रत्येकस्मिन् दर्शने, स्वस्याः तत्त्वनिरूपणाया अनुसारी बोधः 'सम्यग्ज्ञानं', परेषां सर्वेषां तत्त्वविवेचना च ‘परमभ्रमः' - इति विषयव्यवस्था समस्ति ।
दृष्टान्तरूपेण पश्यामश्चेत् - नैयायिकादयः कथयन्ति यद् द्रव्य-गुणयोर्भेदज्ञानं हि तत्त्वज्ञानम्, तद्विपक्षतया अद्वैतवादिनस्तु तद् भेदज्ञानमेव परमं मिथ्याज्ञानं परिगणयन्ति, द्रव्य-गुणयोरभेदावगतिरेवाऽद्वैतवादे तत्त्वभूता । एवञ्चाऽयं परमभ्रम: प्रस्थानभेदेन भिन्नः ।
अस्मिन् विषये जैनदर्शनस्य मन्तव्यं सर्वथा भिन्नम् । यद्यपि जैनमतेऽपि परमभ्रमस्याऽस्तित्वं स्वीकृतमेव । तेन भ्रमेण भ्रान्तं पुरुषं जैना 'मिथ्यात्वी' इत्येव परिगणयन्ति । न केवलं तावद्, जैनमते तादृशस्य मिथ्याज्ञानस्य निरासमन्तरेण मुक्तिमार्गे प्रस्थानमेव न सम्भवति । तथाऽपि दर्शनान्तरे निरूपितात् परमभ्रमस्वरूपाद्, जैनमते सम्मतस्य परमभ्रमस्य स्वरूपे महदन्तरम् । अन्यानि सर्वाण्यपि दर्शनानि दर्शनान्तरसम्मतां तत्त्वविभावनां मिथ्याज्ञानमिति प्ररूपयन्ति, परं जैनदर्शनं तेषां 'स्वव्यतिरिक्ताः
Page #50
--------------------------------------------------------------------------
________________
सर्वेऽपि मिथ्यावादिन' इति विमर्शनमेव परमभ्रमरूपेणाऽनुमन्यते । यतो ह्यनेकान्तवादः सत्यनिष्ठस्तत्त्वान्वेषी समन्वयशीलश्च, अतः स सर्वेषु दर्शनेषु सत्यस्यांऽऽशिकं सत्त्वमुररीकरोति । वस्तुतो यः कोऽपि वादो यदा स्वीयामपूर्णतामांशिकसत्यवत्तां चाऽमनसिकृत्य स्वं 'परिपूर्णमेकमेव सत्य'मित्यधिगच्छति वादान्तरं च 'सर्वथाऽनृत'मित्युद्घोषयति, तदा स स्वयमेव 'परमभ्रम'-रूपेण परिणमति । सम्यग्ज्ञानं तु सकलेषु दर्शनेषु निहितान् सत्यांशानाकलय्य, तेषां सुचारुतया समन्वयं कृत्वा, अन्येषां मिथ्याभिनिवेशानां च निरसनेनैव सम्पादनीयम् ।।
अयमत्र सङ्केपः - जैनमते सर्वदर्शनानां तत्त्वनिरूपणं विमृश्याऽनेकान्तरूपेण तत्त्वनिर्णय एव सम्यग्ज्ञानम् । अथ च मतविशेषस्य कदाग्रहवशेन जायमानोऽपूर्णस्तत्त्वबोध एव मिथ्याज्ञानं, यच्च मुक्तिमार्गे मुख्यं प्रतिरोधकतत्त्वम् । .
द्वितीयो भ्रमस्तु व्यावहारिको भ्रमः । लोकेऽयमेव भ्रान्तिरूपेण परिगण्यते प्रमाणग्रन्थेषु विविच्यते च । अत्राऽपि तस्यैव विवेचनमभिमतम् । दार्शनिकेषु भ्रमस्याऽस्याऽस्तित्वविषये ऐकमत्यं विद्यते । न च कस्याऽपि 'शुक्ताविदं रजतम्, मरुमरीचिकायामत्र जल'मित्यादीनां लोके भ्रमरूपेण परिगृहीतानां ज्ञानानां 'व्यावहारिकभ्रम' इतिरूपेण परिगणने विरोधः ।
यद्यपि प्रभाकरस्य "सर्वाण्यपि ज्ञानानि यथार्थान्येव", तत्त्वोपप्लवसिंहस्य रचयितुर्जयराशिभट्टस्य च "व्यभिचारि ज्ञानं न सम्भवती"ति निरूपणं दृष्ट्वा तौ द्वौ व्यावहारिकभ्रमस्याऽस्वीकर्तारावित्यापाततः प्रतीयते; तथापि ताभ्यां विहितां लोकव्यवहारसम्मतानां भ्रमानां विवेचनां दृष्ट्वाऽवगम्यते यत् ताभ्यां स्वस्वमतसंरक्षणार्थमेव भ्रमात्मकं ज्ञानं 'भ्रम'रूपेणाऽस्वीकृत्य शब्दान्तरेण तत् स्वीकृतम् । मूलतत्त्वं तु तत्राऽपि समानमेवेत्यग्रे स्पष्टीभविष्यति ।
एषां भ्रमज्ञानानामुत्पत्तिविषये दार्शनिकानां मिथो विप्रतिपत्तयः सन्ति । तद्यथा - शुक्ता विदं रजत मिति ज्ञाने विषयभूतः पदार्थो लोके शुक्तिरूपेण परिगण्यमाना शुक्तिरेव, न तु रजतम्, तत्र (दोषवशाद्) जायमानो रजतबोधोऽसम्यगेव, पश्चाद्भाविना शुक्तिज्ञानेन बाध्यमानोऽयं बोधो 'भ्रम' इत्यभिधीयते - एतादृशेष्वंशेषु दार्शनिकानामैकमत्येऽपि ‘एवं कुतो भवती'ति कारणगवेषणायां विभिन्नाश्चिन्तनपथाः । सर्वेऽपि स्वकीया तत्त्वविभावना यथा बाधिता न स्यात् तथा खलु प्रत्यक्षाभासं विवेचयन्ति ।
सर्वेषां दार्शनिकानां पुरतो मुख्यतया इमाः प्रश्ना उद्भवन्ति - शुक्तितो रजतप्रत्ययोत्पादस्य किं निमित्तम् ? यदुपस्थितं तस्य ज्ञानं न भवति, प्रत्युत येन सह चक्षुषोः संसर्ग एव नाऽस्ति तस्य बोधो जायते - कथमेवं भवति ? तत्र कस्य दुष्टता प्रयोजकीभूता - प्रमातुरिन्द्रियस्य विषयस्य तदन्यस्य कस्यचिद् वा ? इत्येतस्यां विचारणायां दार्शनिका द्विधा विभज्यन्ते – बाह्यार्थानां वास्तविकी सत्ता यैः स्वीकृता तेषामेषा समस्या यद् ज्ञानं यद्यर्थानुसारि भवति तहि तत् शुक्तिमननुसृत्य कथं वा रजतावसायि
४३
Page #51
--------------------------------------------------------------------------
________________
जातम् ? अद्वैतवाद-शून्यवादादिसमर्थकानां पुनरियं चिन्ता यत् शुक्तिरजतोभयोरसत्त्वे समानेऽपि पुरतो रजतं दृश्यते, न च शुक्तिरिति कथं घटति ? किञ्च, शुक्तौ शुक्तिज्ञानं वा भवेद् रजतज्ञानं वा, अर्थाभावस्तूभयत्र समान एवेति किंनिबन्धनो भ्रान्ताभ्रान्तविवेकः ?
एषां प्रश्नानामुत्तरकाले दार्शनिकैः सूचिता भ्रमोत्पत्तेविविधाः प्रक्रियाः 'ख्याति रित्यभिधीयन्ते दार्शनिकक्षेत्रे । तत्र प्रमाणग्रन्थेषु प्रायः पञ्चानां ख्यातीनां निरूपणं दरीदृश्यते । तथा हि -
"आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा । तथाऽनिर्वचनख्यातिरित्येतत् ख्यातिपञ्चकम् ॥ योगाचारा माध्यमिकास्तथा मीमांसका अपि ।
नैयायिका मायिनश्च पञ्च ख्यातीः क्रमाज्जगुः ॥" परमनेकत्राऽष्टानां ख्यातीनामुल्लेखः । तद्यथा -
"अन्यथाख्यातिरख्यातिविवेकाख्यातिरेव च । असत्ख्यातिः प्रसिद्धार्थाख्यातिरेव च पञ्चमी । आत्मख्यातिस्तथा षष्ठी ख्यातिः सप्तम्यलौकिकी ।
अष्टम्यवाच्यताख्यातिरित्यष्टौ नामतः स्मृताः ॥" वस्तुतः प्रमाणग्रन्थेष्वितोऽपि बढ्यः ख्यातयो दृश्यन्ते । अत्र निम्नोक्तख्यातीनां निरूपणं प्रस्तूयते -
१. माध्यमिकानामसत्ख्यातिः २. योगाचारानामात्मख्यातिः ३. ब्रह्माद्वैतवादिनामनिर्वचनीयख्यातिः ४. चार्वाकाणामख्यातिः ५. न्यायटीकाकर्तादीनां विविधा असत्संसर्गख्यातयः ६. साङ्ख्यानां प्रसिद्धार्थख्यातिः ७. मीमांसकैकदेशिनामलौकिकख्यातिः ८. रामानुजाचार्यादीनां वेदान्तिनां विविधाः सत्ख्यातयः ९. प्राभाकराणां विवेकाख्यातिः १०. जैन-नैयायिकादीनामन्यथाख्यातिः
यतश्चेमासु ख्यातिष्वन्यथाख्यातिरेव बलवती प्रमाणभूता च, सा चैव जैनैर्नैयायिकैः कुमारिलादिभिश्च स्वीकृता; अतस्तामाश्रित्याऽन्यासां ख्यातीनां खण्डनमपि तत्र तत्र निरूपितम् ।
४४
Page #52
--------------------------------------------------------------------------
________________
इत: ख्यातयः क्रमशो निरूप्यन्ते - १. माध्यमिक-सौत्रान्तिकसम्मताऽसत्ख्यातिः
यस्मिन् ज्ञाने यत् प्रतिभासते तदेव तस्याऽऽलम्बनमिति स्वीकरणे प्रश्न उद्भवति यत् - भ्रमज्ञाने प्रतिभासमानं वस्तु ज्ञानात्मकं भवत्यर्थात्मकं वा ? न ज्ञानात्मकं तत् सम्भवति, यतस्तस्य ज्ञानात्मकत्वे, ज्ञानं स्वमेव तथारूपेण गृह्णातीति भ्रमप्रत्ययः 'अहं रजत मिति भवेद्, न तु 'इदं रजत मिति, न चैवमनुभव इत्यर्थात्मकमेव तदालम्बनमङ्गीकर्तव्यम् । अथ च भ्रमज्ञानस्य विषयीभूतः स बाह्यार्थो नैव सन्, तत्साध्याया अर्थक्रियायास्तत्राऽभावात् । अतः पारिशेष्याद् भ्रमस्थले वयमसत एव बाह्यार्थस्य बोधं कुर्महे इत्युररीकरणीयम् । इयमेव 'असत्ख्याति:' उच्यते ।।
अयं स्वीकारो माध्यमिकानामुभयथा लाभदायी समस्ति । तथाहि - ज्ञानं सालम्बनमिति कथयित्वाऽपि यदि ते भ्रमज्ञाने कमपि सन्तं बाह्यार्थं विषयीभूतं न मन्वते तर्हि निरालम्बनवाद एवैवं फलितः, यश्च वस्तुतो तेषामभीष्टः । अन्यच्च, असतोऽपि ज्ञानं भवतीति मनने, 'प्रमाणबलेन प्रमेयव्यवस्था' इति नियमनिषेधे सति, स्वयमेव शून्यवादः सिद्ध्यति ।
अयमत्र सारः - माध्यमिकाः सर्वमपि शून्यमसद् निःस्वभावं चैवाऽनुमन्यन्ते । ते प्रथमतः सर्वेषां व्यावहारिकी सत्तां स्वीकृत्य तानि परीक्षन्ते, अन्ततश्च तेषां सर्वेषां पारमार्थिकमसत्त्वं प्रदर्श्य तद्ग्राहकानां निखिलानां ज्ञानानां वैपरीत्यं समुद्घोषयन्ति । ज्ञानेषु यो भ्रान्ताभ्रान्तविवेको भवति, स केवलं व्यावहारिकसत्तामूलकः । पारमार्थिकदृष्ट्या तु निर्विकल्पकज्ञानादृते सर्वाण्यपि सविषयकज्ञानान्यसद्ग्राहकत्वेन भ्रमात्मकान्येव ।
वस्तुतो माध्यमिकानां दृष्टौ शुक्तरसत्त्वात्, तत्र शुक्तिज्ञानं भवेद् रजतज्ञानं वा, उभयस्याऽसदालम्बनत्वेन भ्रमत्वमेव । असत्प्रकाशनशक्तिमत्या अनादिवासनायास्तयोरुद्भवः । यदा वासनातो विपरीतसंवादजनकमसत्प्रकाशनं भवति, तदा व्यवहारे स 'भ्रमः' गण्यते, अन्यथा सम्यक्संवादकमसत्प्रकाशनं व्यावहारिकसत्यत्वपरीक्षया 'प्रमा' उच्यते । परमार्थतस्तु सर्वज्ञानानि 'भ्रम' एव ।
असत्ख्यातेः खण्डनेऽन्यथाख्यातिवादिभिरिमा तर्कपरम्परा समुपन्यस्ता -
१. न ज्ञानेऽसतः प्रतिभासः । इदमेव वस्तुनोऽसत्त्वं यत् प्रतीत्यनालम्बनत्वम् । नो चेत्, कथं न शशशृङ्गस्य प्रतिभासः ? शून्यवादे शशशृङ्गस्य शुक्तेश्चाऽसत्त्वे समाने सत्यपि, एकस्य प्रतिभासार्हत्वमन्यस्य च तदनर्हत्वमिति कथम् ?
Page #53
--------------------------------------------------------------------------
________________
२. ज्ञाने प्रतिभासितत्वं हि वस्तुनः सत्त्वम् । अथ च माध्यमिकानां मते ज्ञानमेवाऽसद्ग्राहकं भवतीति प्रमाणबलेन प्रमेयव्यवस्थाया भङ्ग एव जातः । एवञ्च ज्ञानस्याऽकिञ्चित्करत्वे ज्ञानबलेन शून्यवादस्याऽप्यसिद्धिप्रसङ्गः ।
३. ज्ञानस्याऽसद्ग्राहकत्वे भ्रान्तिगतवैचित्र्यस्याऽनुपपत्तिः । सतां स्वभावे वैविध्येन तद्ग्राहकेषु ज्ञानेषु विभिन्नत्वमुपपद्यते । असतां तु निःस्वभावत्वमेवेति तद्ग्राहकेषु वैविक्त्यं कथम् ?
४. भ्रान्तेविषयीभूतस्य बाह्यार्थस्याऽर्थक्रियाया असाधकत्वादसत्त्वमित्ययुक्तम् । तत्र विशिष्टाया अर्थक्रियाया असत्त्वेऽप्यर्थक्रियासामान्यस्य तत्राऽपि सम्भवात् । यथा रजतरूपेण ज्ञातायाः शुक्ते रजतत्वविशिष्टाया अर्थक्रियाया अभावेऽप्यभिमाप-ग्रहणमोचनाद्यर्थक्रियासामान्यं तु शुक्तितः प्रवर्तते एव । न हीदमर्थक्रियासामान्यं शशशृङ्गादिष्वसद्भूतेष्वित्यर्थक्रियासामान्यप्रवर्तकं कथं न्वसत् ? तथा च भ्रान्तरालम्बनं सदेवेति ।
इतोऽपि बहवस्तर्का असत्ख्यातेविपक्षे सम्भवन्ति । शून्यवादस्य खण्डने प्रस्तुताः सर्वेऽपि तर्का इहाऽप्यन्वियन्ति, यतः शून्यवादोऽसत्ख्यातिश्चैकस्यैव तत्त्वस्य परिमाणद्वयम् । सौत्रान्तिकानां मन्तव्यमत्र माध्यमिकमन्तव्येन तुल्यतां भजते । २. योगाचारसम्मताऽऽत्मख्यातिः
विज्ञानवादिनां बौद्धानां मते भ्रमे यत् संवेद्यते तदेव तस्याऽऽलम्बनम् । परं तदालम्बनं न विज्ञानव्यतिरिक्तम् । वस्तुतो विज्ञानवादिनां दृष्टौ विश्वस्मिन् विश्वे एकमेव तत्त्वं परिस्फूर्जते, तच्च विज्ञानमेव । तदन्तरेण नाऽन्यत् किमपि बाह्यमर्थजातम् । तद् विज्ञानं स्वयं प्रकाशयुतं ग्राह्यग्राहकभावविरहितं च । तस्याऽऽन्तरतत्त्वस्य विविधा आकारा एव बाह्यपदार्थत्वेन प्रतिभासन्ते । अत एव सविषयकं ज्ञानमात्रं भ्रान्तं, यतस्तद् बाह्यरूपेणाऽऽरोपितमन्तस्तत्त्वं साक्षात्करोति । यतश्चाऽनादिवासनोद्भवेनैव प्रतिभासवैचित्र्यसङ्गतिस्ततस्तदर्थमपि बाह्यार्थसत्तास्वीकरणमनावश्यकम् ।
एवञ्च योगाचारमतेन न केवलं शुक्त्यादौ रजतज्ञानादि, अपि तु बाह्यार्थविषयकं ज्ञानमात्रं विपर्ययः । वस्तुतः सविषयके ज्ञानमात्रे ज्ञानाकाराणामेव भानमित्यात्मख्याति: (स्वेन स्वस्यैव बोध:) एव सर्वत्र ।
इदमत्र चिन्त्यम् - विज्ञानवादे कथं भ्रान्ताभ्रान्तविवेकः ? यदि सर्वाण्यप्यन्द्रियकज्ञानानि परमार्थतो भ्रान्तान्येव भवन्ति, तर्हि शुक्तौ शुक्तिज्ञानं वा भवेद् रजतज्ञानं वा, उभयमपि भ्रान्तमेवेति कथं प्रमा-ऽप्रमाव्यवस्था ? बाह्यत्वेनाऽऽरोपितत्वहेतुतो भ्रान्तेषु ज्ञानाकारेषु कथं वा सत्यत्वाऽसत्यत्वविवेचनम् ?
४६
Page #54
--------------------------------------------------------------------------
________________
इत्थमत्र समाहितं विज्ञानवादिभिः - लोकव्यवहारेऽस्माकमिन्द्रियाणां शक्त्यनुरूपं, तन्मर्यादामनुसृत्यैव वयं संवादिज्ञानानि प्रमाणभूतानीति स्वीकुर्मः । यथा हि द्वयोर्दृष्टिरोगग्रस्तयोद्विचन्द्रदर्शने परस्परं संवादित्वादन्योन्यापेक्षं तद् दर्शनं भ्रान्तमप्यविसंवाद्यनुभूयते, तथैव वयं पृथग्जना इन्द्रियशक्तेस्तुल्यत्वेनाऽन्योन्यापेक्षं कानिचिद् ज्ञानानि भ्रान्तानि कानिचिच्चाऽभ्रान्तानीति स्वीकुर्मः । अत: पारमार्थिकदृष्ट्या सर्वेषां सविषयकज्ञानानां भ्रान्तत्वेऽपि, दृश्य-प्राप्ययोरेकत्वा-ऽनेकत्वारोपतो जन्यानां संवाद-विसंवादानामाधारेण व्यावहारिकस्तरे भ्रान्ता-ऽभ्रान्तव्यवस्था घटत्येव ।
अयमत्र भावः - वासनायाः संवादि वा विसंवादि वा सर्वमपि कार्यजातं वासनामूलकत्वेन परमार्थतो मिथ्या । तेषु सर्वेषु प्रत्ययेषु वासनोद्भूतानां ज्ञानस्य स्वीयानामाकाराणां बाह्यत्वेन प्रतीतिरित्यात्मख्यातिः सर्वत्र । विज्ञानस्यैकत्वाच्छुद्धत्वादविभागत्वाच्च न तत्र बाध्य-बाधकभावो भ्रान्ता-ऽभ्रान्तविवेको वा । व्यवहारे पुनर्यो ज्ञानाकारः पूर्वोत्तरैआनाकारैः संवादी भवति सोऽविपरीतवासनाप्रबोधमूलकत्वेनाऽभ्रान्तः परिगण्यते । यस्माच्च ज्ञानाकारादनन्तरं विपरीतस्य ज्ञानाकारस्योत्पादिकाया वासनायाः प्रबोधो जायते, स ज्ञानाकारो विसंवादित्वेन व्यवहारे 'भ्रान्त' इत्युच्यते । एवञ्च वासनाप्रसूतत्वेन प्रतिबद्धस्य मिथ्यात्वस्य सर्वेषु ज्ञानाकारेषु तुल्यत्वेऽपि, विपरीता-ऽविपरीतवासनामूलकत्वस्य निर्धारणाद् व्यवहारे भ्रान्ता-ऽभ्रान्तविवेकः सम्भवति ।
योगाचारसम्मताया अस्या आत्मख्यातेर्दार्शनिकान्तरैः प्रबलं खण्डनं विहितमस्ति । आत्मख्यातेः सिद्धान्तः पूर्णतः, बाह्यार्थानामसत्ता, एकमात्रशुद्धाविभाज्यस्य विज्ञानस्याऽस्तित्वं, वासनायाः प्रबोधेन उद्भूयमाना नाना विज्ञानाकारा - इत्येतेष्वंशेष्ववलम्बितोऽस्ति । अतो विज्ञानवादसम्मतानामेषामंशानां खण्डने जातेऽऽत्मख्यातिरपि खण्डिता भवत्येव । बाह्यप्रपञ्चस्य प्रामाणिकतायाः सिद्धावात्मख्याति: स्वयं 'भ्रम'रूपेण परिणमति ।
किञ्च, आन्तरतत्त्वरूपस्य विज्ञानस्य बाह्यार्थत्वेन ज्ञानमन्यथाख्यातिरेव भवति, न त्वात्मख्यातिः । आत्मख्यातिस्तु तदा जायेत, यदा ज्ञानं स्वीयमाकार'मिदमह'मिति 'अयं ममाऽऽकार' इति वा गृह्णीयात् । न चैवमिति कथं नामाऽऽत्मख्यातिः ?
अपरञ्च, ज्ञानस्य विषयीभूतानां ज्ञानेऽसम्भविनां छेद-भेद-दाहादीनां बाह्यार्थानां ज्ञानाकारत्वमननं नैव युक्तियुक्तम् । व्यावहारिकस्य भ्रान्ता-ऽभ्रान्तविवेकस्य कृते आवश्यकस्य वासनाया वैपरीत्या-ज्वैपरीत्ययोनियामकं तत्त्वान्तरमपि विज्ञानवादेऽसम्भवीति तत्र भ्रान्ता-ऽभ्रान्तविवेकस्य बाध्य-बाधकभावस्य वाऽसम्भवस्य न्यूनत्वं तदवस्थमेव ।
Page #55
--------------------------------------------------------------------------
________________
३. ब्रह्माद्वैतवादिसम्मताऽनिर्वचनीयख्यातिः
ब्रह्माद्वैतवादिनः कथयन्ति यत् शुक्तौ रजतज्ञानस्य विषयीभूतं रजतं नहि सत्, तथा सति तज्ज्ञानस्य मिथ्यात्वाभावात्; नाऽप्यसत्, असतः शशशृङ्गवद् ज्ञानस्य प्रवृत्तेर्वा विषयीभवनस्याऽभावात्। न च सदसदुभयरूपम्, उक्तपक्षद्वयदोषसंमीलनात् । अतो भ्रमज्ञाने प्रतिभासितस्य रजतस्य सदसद्रूपेण निर्वचनस्याऽभावादनिर्वचनीयत्वम् । तद्ग्राहकं ज्ञानं चाऽनिर्वचनीयख्यातिः । ___ शाङ्कराद्वैतमते केवलं ब्रह्म परमसत् सत्त्वेन वाच्यं च । अतोऽन्यद् निखिलमविद्याजन्यमविद्यात्मकं चेति मिथ्यैव । ततश्च ब्रह्मज्ञानातिरिक्तं ज्ञानमात्रं भ्रमः, यश्च तत्त्वज्ञानापरनामब्रह्मज्ञानेन बाध्यते । अविद्या तद्रूपा बाह्यार्थाश्च सदसद्विलक्षणास्तन्नामाऽनिर्वचनीयाः । नैव ते सन्तः, तत्त्वज्ञानबाध्यत्वात्; नाऽप्यसन्तः, अर्थक्रियाप्रवर्तकत्वात्; नोभयरूपाः, सत्त्वा-ऽसत्त्वयोरन्योन्यं विरोधादिति तेषामनिर्वचनीयत्वं तज्ज्ञानस्याऽनिर्वचनीयख्यातित्वं च । एवञ्च ब्रह्माद्वैतवादे ब्रह्मज्ञानातिरिक्तं ज्ञानमात्रमनिर्वचनीयख्यात्यभिधा भ्रान्तिरेव ।
परमियं परमभ्रमस्य चर्चा । व्यवहारे तु प्रमा-ऽप्रमा-ऽन्यतरात्मकं ज्ञानं सम्भवति । तत्राऽयं विवेकः - अविद्याया मूलभूतकार्यस्य ज्ञानं प्रमा, एकस्मिन् मौले कार्येऽपरमौलकार्यस्याऽऽरोपेण जायमानं ज्ञानमप्रमेति । तथा हि - शुक्तौ रजतज्ञानं भ्रमः । तत्राऽविद्या रजतस्योपादानं शुक्तिश्चाऽधिष्ठानम् । अधिष्ठानीभतशक्तावविद्याजन्यस्य रजतस्य दोषवशादारोपः । ततश्चाऽन्तःकरणस्य रजताकारया मिथ्यावत्त्या 'इदं रजत'मिति भ्रमः । अनन्तरं च दोषनाशेनाऽन्तःकरणस्य सम्यग्वृत्त्या जातेन शुक्तिज्ञानेन रजतज्ञानस्य बाधो निवृत्तिश्च । यथा च पूर्वं दर्शितं, ज्ञाने प्रतिभासितमिदं रजतं सदसद्विलक्षणत्वादनिर्वचनीयमिति तद्ग्राहिका प्रतीतिरप्यनिर्वचनीयख्यातिः । ___ वस्तुतो विज्ञानवादिनामात्मख्यातितोऽद्वैतवादिनामनिर्वचनीयख्यातौ नाममात्रस्य भेदः । उभये बाह्यार्थान् नैव सतः प्रतिपादयन्ति, नैवाऽसतः । उभयमतेऽन्तरङ्गस्याऽमूर्तस्य तत्त्वस्य बाह्यत्वेन प्रतिभासः सम्मतः । एके तत् तत्त्वं 'विज्ञान'मिति कथयन्त्यपरे च ‘अविद्ये'ति । एकस्मिन् मते विपरीताया वासनाया हेतुत एकरूपस्याऽपि विज्ञानस्य द्वैधीभावस्तज्जन्या ग्राह्य-ग्राहकभावप्रतीतिश्च । अपरस्मिन् मतेऽविद्याहेतुतो ब्रह्मगता चिच्छक्तिरविद्योपादानकस्य रजतस्य प्रतीतौ व्यापृणोति ।
द्वैतवादिन आचार्या अविद्याया ब्रह्मणश्च पीठिकाया उपरि विरचितमद्वैतप्रासादं कर्कशतर्कप्रहारपरम्परया समूलमुत्पाटितवन्तोऽनिर्वचनीयख्यातिं च प्रबलतया खण्डितवन्तः । अनिर्वचनीयख्यातेरात्मख्यात्या तुल्यत्वात् तत्पक्षे प्रदर्शिता दोषा अत्राऽप्यन्वियन्त्येव । ४. चार्वाकसम्मताऽख्यातिः
चार्वाकः कथयति यत् शुक्तावुत्पद्यमान 'इदं रजत मिति प्रत्ययः किं विषयीकरोति ? नैव रजतम्, तथा सति तस्य सत्यविषयकत्वेन प्रमात्वाद् भ्रमत्वाभावात्; नाऽपि रजताभाव;, रजतज्ञानस्य
Page #56
--------------------------------------------------------------------------
________________
रजताभावाविषयकत्वस्याऽसम्भवात्; नाऽपि स्वरूपेण शुक्तिः, तस्या अप्रतिभासात्; नाऽपि रजताकारेण शुक्तिस्तस्य विषयः, अन्यस्याऽन्याकारेण ग्रहणस्याऽस्वीकारात् । एवञ्च शुक्तौ रजतज्ञानस्याऽऽलम्बनरहितत्वाद् निरालम्बनत्वमेव । यतश्च भ्रान्तौ न कस्याऽप्यर्थस्य ख्यातिस्ततश्च तत्रा' ऽख्यातिः' इति परिगणनम् । विपर्ययज्ञानमपि सालम्बनं भवतीति स्वीकर्तार आचार्याः कथयन्ति यद्
-
१. यदि विपरीतप्रत्ययो निरालम्बनो भवति, न च तत्र स्वस्य परस्य वा कस्याऽपि प्रतिभास: सम्भवति, तर्हि कुतस्तेषां 'जलज्ञानं, रजतज्ञान' मित्याकारप्लावितान्यभिधानानि ?
२. किञ्च, तथा सति भ्रमज्ञानेषु मिथो भेदाभावप्रसङ्गः, निरालम्बनज्ञानेषु विषयप्रयुक्तस्य वैशिष्ट्यस्याऽभावात्, विषयातिरिक्तस्य भेदकतत्त्वस्य चाऽसम्भवात् ।
३. अपरञ्च, एवं सति स्वापे भ्रमे चोभयत्र कस्याऽपि प्रतिभासस्याऽभावात्, किंकृत उभयास्ववस्था भेदः ?
वस्तुतोऽख्यातिवादसमर्थकस्य चार्वाकशिरोमणेर्भट्टजयराशेरेकमात्रं कार्यमिदमेव यदन्यैर्दार्शनिकैः स्वस्वतर्कबलेन यद् यत् साधितं तस्य तस्य नितान्तमसिद्धेः प्रदर्शनम् । दर्शनमात्रस्य प्रयोजनमस्ति मिथ्याज्ञानस्य नाशद्वारा मोक्षप्राप्तिः । यदि च संसारे मिथ्याज्ञानमेव न भवेद्, न भवेत् तर्हि दर्शनस्य प्रयोजनमपि । अत एव दार्शनिकैर्निरूपितस्य मिथ्याज्ञानस्याऽपि खण्डनं भट्टजयराशेरभीष्टम् । स कथयति यद् ‘“मिथ्याज्ञानस्य विषयव्यवस्था सम्भवति चेदेव ज्ञानस्याऽऽलम्बनमन्यत् प्रतीतिविषयभूतं चाऽन्यदितीदं ज्ञानं मिथ्येति कथयितुं शक्यते । न चैवं, मिथ्याज्ञानस्य विषयव्यवस्थाया अभावे, विषयान्यथात्वकृतस्य मिथ्यात्वस्याऽपि ज्ञानेऽभाव इति व्यभिचारिज्ञानस्याऽसम्भव एव । "
एवं दृश्यते चेदख्यातेस्तात्पर्यं नैव भ्रमोत्पत्तेः प्रक्रियाविशेषस्य स्वरूपविशेषस्य वा वर्णने समस्ति, अपि तु भ्रमज्ञानस्योच्छेद एव तस्योद्देशः । अग्रे गत्वा तु भट्टजयराशिना ज्ञानमात्रस्याऽनालम्बनत्वसिद्धौ प्रयतितम् । यतः प्रमाणबलेन प्रमेयव्यवस्थायाः खण्डनं तस्य सिसाधयिषितमासीत् । परं प्रमेयकमलमार्तण्डकारादिभिः प्रभाचन्द्रादिभिस्तस्य प्रबलं खण्डनं विहितमस्ति ।
५. वाचस्पतिमिश्रादीनां विविधा असत्संसर्गख्यातयः
न्यायटीकाकृद्-वाचस्पतिमिश्रादीनां मते देशान्तरप्रसिद्ध-रजतनिष्ठ - रजतत्वस्य शुक्तौ योऽलीक: समवायस्तस्य 'इदं रजत 'मिति शुक्त्यालम्बनके ज्ञाने प्रतिभासः । अत्र शुक्तिरपि सती, रजतत्वमपि सत्, परं तदुभयनिष्ठस्य यस्य समवायस्य ज्ञानेऽध्यासः, तस्याऽलीकत्वादियमसत्संसर्गख्यातिरित्युच्यते । केचनाऽऽचार्यास्तु प्रतिपादयन्ति यद् रजतं तादात्म्येन रजतनिष्ठमेव परमसत् - तादात्म्यग्रहाच्छुक्तौ तस्य प्रतिभासः । इयमप्यन्यप्रकाराऽसत्संसर्गख्यातिरेव । एवमलीकसंसर्गभानजानामन्यासामसत्संसर्गख्यातीनामपि निरूपणमुपलभ्यते ।
४९
Page #57
--------------------------------------------------------------------------
________________
रजतं देशान्तरे सदेव, पुरोवर्तिन्यन्यस्मिंश्च सद्भूतेऽर्थे तस्य प्रतिभास: अयमंशोऽन्यथाख्यातावसत्संसर्गख्यातौ च समान एव । भिन्नता केवलमियत्येव यद्, असत्संसर्गख्यातौ सदुपरागेणाऽसत्सम्बन्धस्य भानं स्वीक्रियते, अन्यथाख्यातौ चैकः सदर्थोऽन्यसदर्थरूपेण प्रतिभासते ।
न ह्यसतः प्रत्यक्षं, न चाऽसतः केनचित् सम्बन्ध इत्यादयस्तर्का असत्संसर्गख्यातेः प्रतिपक्षे दीयन्ते । अपरञ्च, ‘संसर्गोऽलीक' इति स्वीकृतावपि तेन सम्बन्धेन प्रतिभासमानस्य पदार्थस्य पुरोवर्तिनि पदार्थे सत्ता तु स्वीकार्यैव । तस्याः सत्तायाः सत्यत्वे सत्ख्यातेरसत्यत्वे चाऽसत्ख्यातेरस्याः ख्यातेर्न कोऽपि भेदोऽवशिनष्टि ।
-
अथ भ्रमज्ञानस्य विषयीभूतस्य बाह्यार्थस्य सत्तां ये स्वीकुर्वन्ति तेषां दार्शनिकानां ख्यातिषु विमर्शः क्रियते । बाह्यार्थवादिषु पक्षद्वयम् । एकेषां मतेन ज्ञानेऽविद्यमानस्य प्रतिभासो न सम्भवति । अतः सर्वत्र सर्वस्य सत्ता स्वीक्रियते, ज्ञानमात्रे च सदेव प्रतिभासते । ततश्च ज्ञानमात्रं परमार्थतः प्रमैव । केषुचिद् ज्ञानेषु यो भ्रान्तताया व्यवहारो भवति, स स्थूलेन लोकव्यवहारेणैव । कथं स स्थूल लोकव्यवहार इति प्रदर्शनपराः ख्यातयः
६. साङ्ख्यसम्मता प्रसिद्धार्थख्यातिः
सत्कार्यवादिनां साङ्ख्यानां मतेन कस्याऽपि वस्तुनो न कुत्राऽप्यभावः । वस्तुन्याकाशकुसुमवत् सर्वथाऽसद्भूते सति न तस्य प्रतिभाससम्भवः । यत्र कुत्रचिदपि यदा कदापि यस्याऽर्थस्य ज्ञानं जायते, तत्र तत्र तदा तदा च सोऽर्थः प्रमाणप्रसिद्ध एव । अतो भ्रमस्थले प्रसिद्धस्यैवाऽर्थस्य ज्ञप्तेर्हेतुत: ‘प्रसिद्धार्थख्याति’रित्युच्यते ।
सत्कार्यवादेऽर्थानामुत्पादविनाशयोरसम्भवः | अर्थानां व्यक्ताव्यक्तीभाव एव तत्र स्वीकृतः । अर्थानां व्यक्तीभाव एव व्यवहारसत्त्वम् । तेषामव्यक्तीभाव एव व्यवहारेणाऽसत्त्वम् । परमार्थतस्तु वस्तु सर्वदा सर्वत्र सदेवेति ।
भ्रमकालेऽपि पुरोवर्तिन्यर्थे रजतं व्यक्तमेव । अत एव तस्य ग्रहणम् । परन्त्वनन्तरकाले कारणवश - तस्तस्याऽव्यक्तीभावे सति, लोकव्यवहारे तस्याऽनुपलब्धितः पूर्वज्ञानं वयं 'भ्रम' इति वच्मः । यत्र चाऽनन्तरकालेऽपि बाह्यार्थस्य व्यक्तीभावतस्तस्योपलब्धिस्तत्र व्यवहारतः पूर्वज्ञानमभ्रान्तमित्यभ्युपगच्छामः । वस्तुतस्तु तदुभयमप्यभ्रान्तम् । विद्युदादेः क्षणिकस्य पदार्थस्येव रजतस्योत्तरकालेऽनुपलब्धावपि ज्ञानकाले तु तस्याऽस्तित्वं प्रमाणसिद्धमेव । अन्यथा विद्युदादेर्ज्ञानमपि भ्रमात्मकमभ्युपगमनीयं भवेत् ।
५०
Page #58
--------------------------------------------------------------------------
________________
सत्कार्यवादिनां प्रसिद्धार्थख्यातेः पुरत इमाः समस्याः प्रस्तुतीक्रियन्तेऽन्यः
१. जलस्य शुष्कीभवनादनन्तरमपि तस्य पूर्वकालीनायाः सत्तायाः सूचकानि भूस्निग्धतादिचिह्नान्युपलभ्यन्ते एव । न वै जलस्य विद्युदादेरिव शीघ्रं निरन्वयविनाशस्य सम्भवः । एवं सति मरुमरीचिकासु जलस्य यद् भ्रमात्मकं ज्ञानं जायते, तत्र भूस्निग्धतादिचिह्नानामनन्तरमनुपलब्धावपि, भ्रमकाले जलस्याऽस्तित्वमासीदिति कथं नु स्वीक्रियेत ?
२. विद्युदर्शकानामुत्तरकाले विद्युतोऽनुपलब्धावपि, पूर्वकाले समानायाः प्रतीतेर्बलेन, परस्परमपेक्षीकृत्य प्रामाण्यनिश्चयः सम्भवति । शुक्तिस्थले तु नैवं सर्वेषां समाना रजतप्रतीतिः, यद्बलेन रजतज्ञानस्य प्रामाण्यनिश्चयः, तज्ज्ञानकाले रजतस्य व्यक्तीभावस्य निश्चयो वा सम्भवेत् । .
३. ज्ञानभासितमात्रस्य पदार्थस्य तत्काले तत्क्षेत्रे चाऽस्तित्वस्य स्वीकारः, एकत्रैव युगपद् रजतस्य शुक्तेश्च व्यक्तीभावं साधयेत्, एकस्यामेव शुक्तौ व्यक्तिभेदेन युगपद् रजतज्ञानस्य शुक्तिज्ञानस्य च सम्भवात् । महदनिष्टं चैतद्, एकत्र युगपद् वस्तुद्वयस्य व्यक्तीभावस्य साङ्ख्यैरनङ्गीकारादिति । ७. मीमांसकैकदेशिसम्मताऽलौकिकख्यातिः
केचन मीमांसका अविद्यमानस्य प्रतिभासं नैवाऽङ्गीकुर्वन्ति । ते कथयन्ति यद् ज्ञाने 'उपस्थितमन्यत्, अन्यच्च किञ्चित् प्रतिभात'-मित्येवं विपर्यय एव न सम्भवति । किं तर्हि ? निखिलानि ज्ञानानि परमार्थतोऽवितथानि । व्यवहारस्य मतेनैव ज्ञानेषु भ्रान्ता-ऽभ्रान्तविवेकः । परं ज्ञानिनां दृष्टौ त्वेतादृशो विवेक एव भ्रान्तिः । __ तेषां मते बाह्यार्थो द्विविधो भवति : १. व्यवहारसमर्थः २. व्यवहारेऽसमर्थश्च । व्यवहारसमर्थोऽर्थो लोकसम्मतत्वाद् लौकिको गण्यते, द्वितीयश्च विकल्पबुद्धेविषयत्वाद् लोकेऽसम्मतत्वादलौकिक उच्यते । अयं च शास्त्रविद्भिर्व्यवहार्यत्वेन युक्तोऽपि लोकव्यवहारेऽकिञ्चित्करत्वादसद्रूपेण परिगण्यते । भ्रमज्ञाने चाऽयमेवाऽऽलम्बनीभूतः, अत एव तत्राऽलौकिकख्यातिः ।
अयमत्राऽऽशयः - भ्रान्तरूपेणाऽङ्गीक्रियमाणे शुक्तौ रजतज्ञाने नैव लौकिकरजतं विषयीभवति, अपि त्वलौकिकम् । परमार्थतस्तु सर्वत्र सर्वदा सर्वेषां सत्त्वं भवत्येव । तच्च लौकिकत्वेनाऽलौकिकत्वेन वेत्यन्यदेतत् । लोके लौकिकसत्त्वस्य ग्रहणं नाम प्रमा, अलौकिकसत्त्वस्य ग्रहणं च भ्रम इति व्यवस्था ।
मीमांसकैकदेशिनां दृष्टौ, भ्रमज्ञानस्य निरालम्बनत्वस्वीकारे शून्यवादस्य वा विज्ञानवादस्य वा समर्थनं भवेत् । अथ सालम्बनत्वमननेऽपि तस्याऽऽलम्बनस्याऽसत्त्वाङ्गीकारे चाऽसत्ख्यातिस्तत्पुच्छ विलग्नः शून्यवादश्चाऽऽपतत्येव । आलम्बनस्य सत्त्वे च भ्रमज्ञानानुपपत्तिरिति तैर्मार्गान्तरमाश्रितं यद्
Page #59
--------------------------------------------------------------------------
________________
भ्रमज्ञानस्याऽऽलम्बनं यद्यपि सदेव, तथापि तद् न लौकिकं, प्रत्युताऽलौकिकम् । तत इदं फलितं यद् रजतरूपेण प्रतिभासितायां शुक्तौ रजतसाध्याया अर्थक्रियाया अभावो न रजतासत्त्वहेतुकः, अपि तु रजतस्याऽलौकिकतैव तत्र कारणीभूता ।
इमान्यलौकिकख्यातेरनभ्युपगमकारणानि -
१. न ह्यलौकिकत्वस्य निर्वचनं शक्यते । व्यवहारेऽसमर्थत्वं नैवाऽलौकिकताप्रयोजकं सम्भवति । यतोऽर्थोऽसद्भूतो भवेदलौकिको वा, अर्थक्रियाकारित्वाभावस्तूभयत्राऽपि समान एवेति को वा भेदस्तत्राऽवशिनष्टि येनोभयोः पार्थक्यं विधीयेत ? । तथा चाऽलौकिकख्यातेरसत्ख्यातेश्चाऽभिधानादृते न कोऽपि भेदः ।
२. शुक्तौ रजतभ्रमो यस्य पुरुषस्य, स त्वलौकिकं रजतं लौकिकमेवाऽभ्युपगम्य तत्र प्रवर्तते । प्रवृत्तेर्वैफल्ये एव तस्याऽलौकिकताबोध इति कथं नेयमन्यथाख्यातिः ?
३. पश्चाद्भाविना 'नेदं रजत'मिति ज्ञानेन किं नु बाध्यते ? नैव रजतसामान्यं, शुक्तिस्थले सदैव तस्य सत्तायाः स्वीकारात् । न च लौकिकरजतत्वं, बाधकप्रतीत्या लौकिकत्वस्याऽविषयीकरणात् । अतोऽलौकिकख्यातौ बाध्यबाधकभावानुपपत्तिरिति । ८. रामानुजाचार्यादीनां सम्मता विभिन्नाः सत्ख्यातयः
रामानुजाचार्यादीनां वेदान्तिनां मते साङ्ख्यानामिव सर्वत्र सर्वदा सर्वेषां सत्त्वोररीकरणाद् ज्ञानमात्रं परमार्थतोऽभ्रान्तमेव भवति । व्यावहारिकभ्रमेऽपि वस्तुतः सद्भूतस्यैव ज्ञप्तितः 'सत्ख्याति'रुच्यते तत्र । व्यावहारिकस्य भ्रान्ताभ्रान्तविवेकस्य सङ्गतिस्तैरित्थं प्रदर्शिता -
रामानुजाचार्याः - 'शुक्ति'रिति नाम्ना व्यवह्रियमाणेऽर्थे शुक्तिकांशवद् रजतांशा अपि सन्त्येव । केवलं शुक्तिकांशानां बाहुल्यात् तस्य 'शुक्ति रित्यभिधानम् । अतः शुक्ता विदं रजत'मिति ज्ञानस्य तत्रस्थानां रजतांशानां ग्राहकत्वाद् यथार्थत्वमेव । तथापि तस्य मिथ्यात्वं लोकेऽङ्गीक्रियते, यतस्तस्मिन् ज्ञाने चक्षुरादीनां दोषवशात् केवलं रजतांशानां दर्शनं जायमानमस्ति, शुक्तिकांशानां बाहुल्येऽपि न तत्र तेषां ग्रहो भवतीति । अनन्तरकाले दोषनिवृत्तौ जातायां, शुक्तिकांशानां दर्शने तेषां बाहुल्ये च ज्ञाते सती'यं शुक्ति'रिति प्रत्ययो जायते रजतज्ञानं च निवर्तते ।
मध्वाचार्याः - शुक्ता विदं रजत मिति प्रतीतेरुत्तरकाले जातेन शुक्तिज्ञानेन बाधमनुभूय रजतज्ञानं निवर्तते. 'असद् रजतं पूर्व प्रतिभात'मिति बोधश्चोत्पद्यते । यद्यप्यनेन बोधेनाऽसता रजतेन चक्षुषः सन्निकर्षः सिद्ध्यति, परं न स स्वीकारार्हः, असत्ख्यातिभयादसतो भानस्याऽस्वीकारात् । किं तर्हि ? वस्तुतस्तत्र सद्भूतया शुक्त्यैव चक्षुषः संसर्गः, केवलं दोषवशात् तस्य तत्राऽसद्भूतरजतस्वरूपेणाऽवगाहनं
५२
Page #60
--------------------------------------------------------------------------
________________
भवति । एवं च माध्वमते भ्रमस्थले सत एवाऽऽलम्बनीभवनात् सत्ख्यातिरेव, केवलमिन्द्रियस्याऽधिष्ठानीभूतेऽर्थेऽसदात्मनाऽवगाहनाद् भ्रमत्वं तत्रोच्यते । तथापि माध्वानां द्वैतवादित्वात्, तैः सर्वत्र सर्वदा सर्वेषां सत्त्वस्याऽस्वीकाराच्च परमार्थतः सर्वेषां ज्ञानानामभ्रान्तत्वं तै!ररीकृतम् ।
निम्बार्काचार्याः - अस्मिन् मते जीवे ईश्वरेऽचेतनेषु च सर्वेषु परस्परं भेदाभेदः । अतः शुक्तिरजतयोः परस्परं भेदोऽभेदश्चाऽपि । शुक्ता विदं रजत'मिति प्रत्यये, शुक्तितादात्म्येन रजतप्रतिभासतः, शुक्तिरजतयोरभेदग्राहकोऽयं बोधः प्रमैव भवति । तथाऽपि तस्य भ्रमत्वं न निर्मूलं, शुक्तिरजतयोः परस्परमभेदवद् यो भेदस्तमुपेक्ष्य तेन ज्ञानेनाऽभेदमात्रग्रहणात् । पुनः शुक्तौ शुक्तेरभेदमात्रमिति शुक्ता वियं शुक्ति'रिति प्रतीतेस्तदभेदग्राहित्वात् प्रमात्वमिति ।
वल्लभाचार्याः - येषु ब्रह्मगतं चित्त्वमानन्दवत्त्वं चाऽऽवृतं भवति तादृशा ब्रह्मपरिणामा एव जडपदार्था उच्यन्ते .। एषु ब्रह्मगतं सत्त्वं त्वनुस्यूतमेव भवति । एते जडात्मकपरिणामा द्विविधाः सम्भवन्ति - १. कारणविकृतिजन्याः २. कारणस्थपरिवर्तननिरपेक्षाश्च । शुक्तिरूपो ब्रह्मपरिणामो दुग्धाद् दधीव तत्कारणेषु परिवर्तनतो जायते, रजतात्मकस्तु परिणामः शुक्तौ कारणपरिवर्तनमनपेक्ष्यैवोत्पद्यते । यद्यपि तदुभये परिणामाः सन्त एव, तेषां ग्रहणं परमार्थतोऽभ्रान्तमेव; तथाऽपि कारणगतविकृत्यविकृती अपेक्ष्य व्यावहारिकस्तरे ज्ञानेषु भ्रान्ताभ्रान्तविवेकः सम्भवति ।
एतदृतेऽचिन्त्यभेदाभेदवाद्यादीनामाचार्याणां स्वस्वतत्त्वविभावनानुकूला बढ्यः ख्यातयः सन्ति, यासां च कथञ्चित् पूर्वोक्तासु ख्यातिष्वन्तर्भावः शक्यते । ९. प्राभाकरसम्मता विवेकाख्यातिः ___पूर्वोक्तासु सत्ख्याति-प्रसिद्धार्थख्यात्यादिख्यातिषु परमार्थतो ज्ञानमात्रस्याऽभ्रान्तत्वेऽपि व्यावहारिको भ्रान्ताभ्रान्तविवेकस्तु सम्मत एव । परं मीमांसकप्रभाकरस्य तु व्यावहारिकस्तरेऽपि भ्रमज्ञानस्याऽस्तित्वममान्यम् । तन्मते ज्ञानमात्रं लोकव्यवहारदृष्टिमाश्रित्याऽपि यथार्थमेव भवति ।
मीमांसकैकदेशिभिर्योऽलौकिकख्यातेः पन्था अन्विष्टः, स दोषबहुलत्वात् प्रभाकरस्याऽसम्मत आसीत् । पुनर्वृद्धमीमांसकैः स्वीकृताऽन्यथाख्यातिरपि प्रभाकरेणाऽनभ्युपगता । कथमिति चेत् ? स कथयति यत् किञ्चिद् ज्ञानं यदि भ्रमात्मकमपि सम्भवति तर्हि मीमांसकानां मूलभूतः स्वतःप्रामाण्यरूपो सिद्धान्तः नैव सिद्ध्यति । यतस्तथा सति ज्ञानमात्रेऽयथार्थत्वस्याऽऽशङ्काया अवकाशो निराबाध एव । तदपाकरणार्थं च संवादादिना बाधकाभावादीनां निश्चय आवश्यकः । तथा चोक्तनिश्चयसापेक्षत्वात् प्रामाण्यनिश्चयस्य, परत एव प्रामाण्यज्ञप्तिः सिद्ध्यति, न तु स्वतः । एवञ्चाऽन्यथाख्यातिः स्वीक्रियते चेत् स्वतःप्रामाण्यज्ञप्त्यै दत्त एव जलाञ्जलिः ।।
५३
Page #61
--------------------------------------------------------------------------
________________
. अयमन्यश्चाऽन्यथाख्यातेविरोधे तर्कः - यद्यन्यदेशस्थितमपि रजतं शुक्तिदेशे प्रतिभासेत, तर्हि शशशृङ्गादीनामत्यन्तासतामपि कुतस्तत्र भानं न भवेत् ? यतो विवक्षिते देशे, अन्यत्र सतोऽत्यन्तासतश्चोभयस्याऽसत्त्वं समानमेव । ततश्चाऽन्यथाख्यातेरसत्ख्यातावेव पर्यवसानप्रसङ्ग इति ।
उक्तदोषेभ्यस्त्राणार्थं भ्रमज्ञानस्य सदर्थविषयकत्वाङ्गीकारे सत्ख्यातिस्तन्नाम सर्वत्र सर्वदा सर्वेषां सत्ताऽभ्युपगमनीया भवेत्, तच्च महदनिष्टमित्याकलय्य प्रभाकरेण भ्रमोत्पत्तेर्नूतना प्रक्रिया प्रदर्शिता, या च 'अग्रहणं, विवेकाग्रहणं, विवेकाख्यातिः, अख्यातिः, भेदाग्रहः, स्मृतिप्रमोष' इत्यादिभिरभिधाभिर्व्यवहियते ।
प्रभाकरमते इन्द्रियसनिकृष्टादन्यस्य प्रत्यक्षमसम्भवि । यतोऽसन्निकृष्टस्याऽपि प्रत्यक्षालम्बनत्वेऽन्धस्याऽपि शुक्तौ रजतप्रतिभासप्रसङ्गः । इदमत्र चिकथयिषितम् - चक्षुष्मतोऽन्धस्य च शुक्तिस्थले रजतासन्निकर्षस्य समानत्वेऽपि, एकस्यैव रजतभ्रमः, नाऽपरस्येति रजतबुद्धौ रजतमेव विषयत्वेन स्वीकर्तव्यं, न शुक्तिः । एवञ्च ज्ञानमात्रे प्रतिभासमानस्यैवाऽर्थस्य विषयत्वं स्वीक्रियते । न किमपि ज्ञानमालम्बनव्यभिचार्ययथार्थं चेति ।
अत्र प्रश्न उद्भवति यत् सर्वाण्यपि ज्ञानानि यदि यथार्थान्येव भवन्ति, तर्हि शुक्तौ शुक्तिज्ञानमभ्रान्तं रजतज्ञानं पुनर्धान्तमिति कथम् ? कथं वा शुक्तौ रजतज्ञानस्य भ्रमत्वोपपत्तिः ? प्रभाकरोऽत्र समादधति यद् यदा कश्चित् पुरुषो रजतसदृशां शुक्तिं पश्यति, तदा यदि स इन्द्रियादिगतदोषवशतो रजतात् शुक्तौ यद् वैलक्षण्यं तदगृहीत्वा केवलं तद्गतं सादृश्यमेव गृह्णाति, तर्हि तस्य तत्प्रत्यक्षतो रजतस्मरणमुबुध्यते । स च पुरुषो मनोवैकल्यादिना प्रत्यक्ष-स्मरणयोर्यो भेदो यश्च प्रत्यक्षीक्रियमाणशुक्ति-स्मर्यमाणरजतयोर्भेदः, तं नाऽवधारयति । स ज्ञानद्वयं वस्तुद्वयं चैकत्वेनाऽध्यवस्यति । फलतः स शुक्तिं रजतत्वेन मनुते । लोकेऽयं 'भ्रम' इत्युच्यते, परं वस्तुतः स न भ्रमः, अपि तु यथार्थज्ञानद्वयमध्ये यो भेदस्तस्याऽग्रहः, भिन्नस्वरूपज्ञानद्वयविषयीभूतयोर्वस्तुनोर्यो विवेकः(-वैलक्षण्यं) तस्याऽख्याति(-अज्ञप्ति)र्वा ।
अयमत्र सारांशः - शुक्तौ रजतस्य भ्रमात्मकं ज्ञानमन्यैर्दार्शनिकैरेकत्वेनाऽङ्गीकृतं, परं प्रभाकरेण स्वतःप्रामाण्यरक्षणार्थं स्वीकृतस्य 'सर्वाण्यपि ज्ञानानि यथार्थान्येवे'ति सिद्धान्तस्याऽनुरूपं शुक्तिप्रत्यक्षरजतस्मरणात्मकस्य यथार्थस्यैव ज्ञानद्वयस्य मिथ्यैकीकरणं भ्रमस्थलेऽभ्युपगतम् । तन्मते एवङ्करणेन नैव परतःप्रामाण्यं पुरस्कृतं भवति, न हि शून्यवादायाऽवकाशो दत्तो भवति । पुनः शुक्तिस्थले रजतस्याऽभाव एवाऽङ्गीकृत इति न सत्कार्यवादस्याऽपि प्रसङ्गः ।
अन्यैः सर्वैरपि दार्शनिकैरस्या विवेकाख्यातेः प्रबलः प्रतीकारो विहितोऽस्ति । सन्मतितर्कवृत्तावप्यस्या विस्तृतं खण्डनं समुपलभ्यते । दार्शनिकैः प्रस्तुतेष्वनेकेषु तर्केषु मुख्यभूता इमे -
५४
Page #62
--------------------------------------------------------------------------
________________
१. प्रभाकरेण परतःप्रामाण्यवादस्य शून्यवादस्य च स्वीकाराद् भीतिमाप्य विपरीतख्यातेः स्थाने विवेकाख्यातिरभिषिक्ता । परं विवेकाख्यातावपि स्मृतिः स्मृतित्वेन न, किन्त्वनुभवत्वेन गृह्यते (अत एव स्मर्यमाणं रजतमिदन्त्वेनाऽवबुध्यते) इति साऽपि विपरीतख्यातित्वेनैव परिणता किल !
वस्तुतो विवेकाख्यातावपि परतःप्रामाण्यस्वीकारस्याऽऽपत्तिस्तदवस्थैव । यतः कालान्तरे रजतज्ञाने जाते सति प्रमातुराशङ्कोद्भविष्यत्येव यदत्र स्मृतिप्रमोषात्मको मिथ्यैव रजतप्रतिभास उत सत्यरजतस्यैव प्रत्ययः ? अस्या आशङ्काया निराकरणार्थं संवादादेर्बाधकामावस्याऽन्वेषणं कर्तव्यमेव । तर्हि परतःप्रामाण्यं नन्वागतमेव । यतो यावद् न बाधकाभावनिश्चयो, न तावत् प्रामाण्यनिश्चय इति ।
किञ्च, शून्यवादस्याऽऽपत्तिरपि स्मृतिप्रमोषे आपतत्येव । यतः शुक्तौ जायमाने रजतज्ञाने यो रजताकारः प्रतिभासते, स सन्निहितरूपेण भवति । स्मृतौ पुनः प्रतिभासमानो रजताकारोऽसन्निहितरजतस्येति तस्य भ्रमज्ञाने न कोऽप्युपयोगः । तात्पर्यत: 'इदं रजत'मिति भ्रमज्ञाने प्रतिभासितं सन्निहितं रजतमसदेव सिद्धम् । एवञ्च ज्ञानस्याऽसदर्थविषयिताऽप्यङ्गीकृता भवतीति सर्वेषां ज्ञानानामसदर्थविषयकत्वे शून्यवाद एव फलित इति ।
२. भ्रमज्ञानोत्तरकाले जायमानेन ‘नेदं रजत'मिति ज्ञानेन भ्रमज्ञाने भासितस्य रजतस्याऽसद्रूपतैवाऽऽवेदिता भवति, न हि तत्र रजतप्रतिभासस्य 'रजतप्रतिभासः प्रकृतः स्मृति'रिति स्मृतिरूपताया आवेदनमिति कथं भ्रान्तेः स्मृतिप्रमोषगभितत्वम् ? ।
३. भ्रान्तेर्ज्ञानद्वयात्मकत्वे तस्याः स्वसंवेदनं केन स्वरूपेण भवेत् - प्रत्यक्षरूपेणोत स्मृतिरूपेण ? उभयात्मकरूपेण स्वसंवेदनं त्वनुभवविरुद्धमिति ।
४. युगपद् ज्ञानद्वयस्य सत्ताऽनुभवविरुद्धत्वात् स्वयं प्रभाकरेणाऽप्यस्वीकृतेति युगपद् ज्ञानद्वयस्याऽभावे कथं भेदाग्रहः ? ।
५. प्रत्यभिज्ञाया बलेनाऽपि भ्रमज्ञानस्यैकत्वमेव सिद्ध्यतीति ।
एवञ्चोपर्युक्तानां ख्यातीनामभ्युपगमानर्हतां दृष्ट्वा जैनैरन्यथाख्यात्यपराभिधाना विपरीतख्यातिरुररीकृता । या च नैयायिकैवैशेषिकैः कुमारिलभट्टादिभिरपि स्वीकृताऽस्ति । १०. जैन-नैयायिकादीनां सम्मताऽन्यथाख्यातिः
एकस्य वस्तुनोऽन्यवस्तुरूपेण प्रतीतिरन्यथाख्यातिविपरीतख्यातिर्वोच्यते । अयमेव विपर्ययो . यदन्यस्मिन्नालम्बनेऽन्यप्रत्ययोत्पादः । शुक्तौ शुक्तिप्रत्ययोऽविपरीतो रजतप्रत्ययश्च विपरीतः, यौ च क्रमश इन्द्रियादीनां गुणदोषयोर्फलभूतौ । दोषवशात् शुक्तिरात्मरूपेणाऽप्रत्यक्षीभूय रजतत्वेन प्रत्यक्षीभवति ।
Page #63
--------------------------------------------------------------------------
________________
इयमेव भ्रान्तिरुच्यते । वस्तुतः शुक्तिरपि सद्भूता, रजतमपि सदेव । भ्रमे केवलं तस्मिन् देशे काले च स्थितायाः शुक्तेः स्थानेऽन्यस्मिन् देशे काले च स्थितस्य रजतस्य दर्शनं जायते । तथाहि -
शुक्त्या चक्षुरिन्द्रिये सम्बद्धे सति कदाचित् पूर्वकालेऽन्यत्र दृष्टस्य रजतस्य सादृश्यं तत्र गृह्यते । ततश्च रजतसंस्कारोद्भवद्वारेण रजतस्य स्मृतिरुत्पद्यते । ततश्च तस्य स्मर्यमाणस्य रजतस्य प्रमात्रिन्द्रियादीनां दोषवशाद् बहिर्देशे आरोपः, आरोपितस्य प्रतिभासश्च । अर्थादुपस्थिता शुक्तिरन्यरूपेण विपरीतरूपेण वा प्रतिभासते इतीयमन्यथाख्यातिविपरीतख्यातिर्वा ।
पूर्वं कदापि रजतमदृष्टवतः पुरुषस्य नैवं भ्रम इति शुक्तौ रजतभ्रमे रजतस्मरणस्य कारणतासिद्धिः । उत्तरकालीनैर्नैयायिकैरुक्तस्मरणं ज्ञानलक्षणमलौकिकसन्निकर्षरूपमङ्गीकृत्य भ्रमज्ञानमलौकिकप्रत्यक्षं कथितम् । यद्यपि द्विचन्द्रज्ञानमलातचक्रज्ञानं शङ्खपीतत्वज्ञानमित्यादिभ्रमेषूपस्थितवस्तुनः सादृश्यस्य न काचिद् भूमिका विद्यते, तथाऽपि तत्राऽपि पुरतः स्थितस्य वस्तुनः कस्यचिद् विशिष्टस्यांऽशस्य हेतुतः स्मर्यमाणस्याऽर्थस्य दोषवशाद् बहिर्देशेऽवश्यमारोपो भवतीति ।
स्पष्टमत्र ख्यातौ पूर्वोक्ताभ्यो वैलक्षण्यम् । अस्यां ख्यातौ शुक्तौ रजतज्ञानं रजतस्मृत्या सहकृतं प्रत्यक्षात्मकमङ्गीकृतम् । न तत्र ज्ञानद्वयस्य भ्रमात्मकं संयोजनमपि त्वेककं ज्ञानम् । एवञ्च विवेकाख्यातेरस्या महान् भेदः । अथ च नाऽस्यां बाह्यार्थाः सर्वथा शून्यरूपा ज्ञानरूपाः सद्रूपा वाऽभ्युपगतास्ततोऽसत्ख्यातेरात्मख्यातेः सत्ख्यातेर्वानाऽत्राऽवकाशः । नैवाऽत्र पदार्थेषु लौकिकालौकिकविभागः, क्षणिको व्यक्ताव्यक्तविभागः, बाह्यार्थानां निर्वचनाभावः, असत्संसर्गस्य भानं वेति नैवाऽसावलौकिकख्यातिः, प्रसिद्धार्थख्यातिः, अनिर्वचनीयख्यातिरसत्संसर्गख्यातिर्वा । बाह्यार्थानामालम्बनत्वस्य भ्रमेऽप्यभ्युपगमाद् न ह्यसावख्यातिश्च । अत्र त्वेकस्य सतोऽन्यसद्रूपेण भानं स्वीकृतमस्तीति विपरीतख्यातिरेवाऽयम् ।
अन्यैदार्शनिकैविपरीतख्यातेर्खण्डने इमास्तर्काः प्रदर्शिताः -
१. भ्रमज्ञानस्य किं न्वालम्बनं भवताऽङ्गीकृतम् - रजतं वा शुक्तिर्वा ? यदि शुक्तिः, कथं स्जताकारेण तस्य ग्रहः ? यतो ज्ञाने यः प्रतिभासते, स एव वस्तुन आकारः । अन्य एवाऽऽलम्बनस्याऽऽकारः, अन्य एव प्रतिभासित इति मनने तु ज्ञानमात्रे आकारसत्यत्वाशङ्कायां ज्ञानेनाऽऽकारनिश्चयस्याऽसम्भवः । इदमपि चिन्त्यं यत् शुक्तिस्थले शुक्तिमेवाऽऽलम्बनीकुर्वाणं ज्ञानं कथं नु भ्रमो भवेत् ? .
२. यदि रजतं तस्याऽऽलम्बनीभूतमिति चिन्त्यते तर्हि शुक्तिदेशेऽसद् रजतं विषयीकुर्वाणं ज्ञानमसत्ख्यातिरेव भवति । यदि रजतस्य तत्राऽसत्त्वेऽपि, अन्यत्र सत्त्वाद् भ्रमेऽसत्ख्याति ऽङ्गीक्रियते, तीन्यत्र सतोऽपि तस्य चक्षुषाऽसन्निकृष्टत्वात् कथं चाक्षुषम् ?
५६
Page #64
--------------------------------------------------------------------------
________________
३. यदि शुक्तावसन्निकृष्टस्य रजतस्य मिथ्याऽऽरोपो भ्रमे स्वीक्रियते तीदमपि प्रष्टव्यं यत् तत्र यथा रजतमसनिकृष्टं तथैव विश्वस्याऽन्येऽपि बहवः पदार्था असन्निकृष्टा इति कथं न तेषां तत्राऽऽरोपः ?
४. 'इदं रजत'मिति प्रत्यक्षात्मकज्ञानस्य स्मृत्यनपेक्षत्वात् कथं तत्र स्मृतिस्थस्याऽर्थस्याऽवभासनम् ? इत्थमत्र समाहितं प्रभाचन्द्राचार्यैायकुमुदचन्द्रे -
असत्ख्यातावेकान्तेनाऽसतोऽर्थस्य प्रथनं, परमन्यथाख्यातावन्यत्र सतो भानं स्वीकृतमितिं महदन्तरमनयोः ।
असन्निकृष्टस्य रजतस्य दोषवशात् सन्निकृष्टत्वेन प्रत्यक्षमेव विपरीतख्यातिः । न हि ज्ञानमात्रे वस्तुनः सत्य एवाऽऽकारः प्रतिभासते इति नियमः । तत्राऽपि, सन्निकृष्टार्थगतसादृश्यादितो यस्य स्मरणं तस्यैवाऽन्यत्र सतोऽत्र मिथ्याऽऽरोप इति कथमसन्निकृष्टानां सर्वेषां मिथ्यारोपस्य प्रसङ्गः ? ।
वस्तुतो वयं जैना शुक्ता विदं रजत'मिति ज्ञानं प्रत्यभिज्ञात्मकं स्वीकुर्मः । तत्र 'इद'मंशे दृश्यमानस्य 'रजत'मित्यंशे पूर्वदृष्टस्य च सङ्कलनात् ‘स एवाऽयं देवदत्त' इति ज्ञानवत् प्रत्यभिज्ञात्वमेव । अत एव तस्य प्रत्यक्ष-स्मरणोभयापेक्षा । प्रभाकरेण भ्रमस्थले प्रत्यक्ष-स्मरणयोमिथ्यैकीभावः स्वीकृतः, वयं पुनस्तत्र प्रत्यक्षस्मरणोभयजन्यां प्रत्यभिज्ञामङ्गीकुर्मः ।
तत्र भ्रमे चाकचक्यादिना निगृहितनिजाकारा धृतरजताकारा च शुक्तिरेवाऽऽलम्बनीभूताऽस्ति । रजताकारस्य ज्ञानस्य कथं शुक्तिरालम्बनमिति चेत्, अगुल्या निर्दिश्यमानं 'अस्य ग्राहकं ज्ञान'मिति मन्यमानं च वस्त्वेव ज्ञानस्याऽऽलम्बनं स्वीक्रियते । तस्य प्रतिभासो येन केनाऽपि रूपेण जायतां, न तावता तस्य विषयत्वं निवर्तते । न वै शुक्तेरभावे रजतभ्रम इति शुक्तिरेव तस्य भ्रमस्य विषयीभूतेति ।
न हि केनाऽपि भ्रमज्ञानस्य निर्दुष्टत्वं प्रतिपादितम् । प्रत्युत सर्वैरपि दार्शनिकैः स्वस्वदृष्ट्या तत्र दोषमीमांसा विहितैव । तथाहि - __ नैयायिक-वैशेषिकाणां मतेन विपर्यये द्रष्टुः तत्साधनस्य वा दोषः कारणीभवति, नार्थस्य । तथाहि - प्रथममिन्द्रियेण मरीचिकाया निर्विकल्पप्रत्यक्षस्याऽनन्तरं सविकल्पप्रत्यक्षावसरे, मरीचिकागतस्य जलसादृश्यस्य दर्शनत उपहतं चक्षुः स्वस्य कार्य सम्यग् न निर्वहति, अतो मरीचिकायां जलस्य मिथ्या प्रतिभास उत्पद्यते । अत्र प्रमातुस्तन्मनसस्तदिन्द्रियस्य च दोषः सम्भवति, परं ज्ञानविषयीभूताया मरीचिकायाः कोऽत्र दोषः ? यदि तस्या दोषो मन्यते, तर्हि तस्याः सर्वेषां दृष्टणां कथं न विपर्ययो जायते ?
Page #65
--------------------------------------------------------------------------
________________
मीमांसकमते पुनर्भ्रमे प्रमात्रादेरिव विषयस्याऽपि दुष्टत्वं प्रतिपाद्यते । विपर्ययोत्पत्तावर्थगतानां सादृश्य-सौक्ष्म्यादीनामपि सहभागित्वमिति तेषां कथनम् ।
बौद्धमते ऐन्द्रियके प्रत्यक्षे इन्द्रियस्य मुख्यत्वाद्, मिथ्याप्रत्यये तस्यैव दोषस्य मुख्यता प्रतिपन्ना । तन्मतेऽन्ये सर्वेऽपि दोषाऽन्तत इन्द्रियमेव विकृतं विदधति ।
जैनमते तु ज्ञानव्यापारे आत्मनो मुख्यत्वम् । ते कथयन्ति यत् प्रमातुरेव दोषो भ्रमं जनयति । प्रमातरि विकृत्युत्पादने यद्यपीन्द्रियादिदोषाः सहभागित्वमावहन्ति, तथापि तत्र प्रधानं कारणं तु प्रमात्रा पूर्वसञ्चितानां कर्मणां विपाक एव ।
अद्वैतवादिभिरत्र कर्मविपाकस्य स्थानेऽविद्याऽभ्युपगताऽस्ति ।
भ्रमज्ञानस्योत्पत्त्यनन्तरं यावद् न तद्बाधकज्ञानस्फूर्तिस्तावत् तद् निर्दुष्टमेव प्रतिभासते, तद्वान् पुरुषश्च तज्ज्ञानं 'प्रमाणीभूत'-मित्याकलय्य तथा प्रवर्तते । बाधकज्ञानमेव भ्रमे मिथ्यात्वप्रतीत्युत्पादकं भवति ।
नव्यनैयायिकैरिह स्पष्टीकृतं यद् भ्रमज्ञानमपि विशेष्यांशे त्वभ्रान्तमेव भवति । यथा शुक्तौ 'इदं रजत'मिति ज्ञाने विशेष्यीभूताया अभिमुखं स्थितायाः शुक्तेरेव इदन्त्वेन यथार्थसंवेदनाद् विशेष्यांशे तद् ज्ञानं नैव भ्रमात्मकम् । तस्मिन् ज्ञाने भ्रान्तित्वं रजतत्वरूपे विशेषणांशे एव । नैयायिकैरत्रैकमेव ज्ञानं भ्रान्ताभ्रान्तोभयरूपं परिगणय्य स्याद्वाद एवाऽभ्युपगतोऽस्तीति ध्येयम् ।
जैना: पुनरितोऽपि गभीरतया विविच्य प्रतिपादयन्ति यद् भ्रमज्ञानमपि न केवलं विशेष्यांशे, अपि तु प्रमात्रंशे प्रमित्यंशे चाऽपि निर्दोषं भवति । यतो जैनसम्मते " मम 'इदं रजत 'मिति ज्ञानमुत्पन्न”मित्यात्मके प्रथमत एव स्वपरप्रकाशप्रत्यये, नैयायिकादिसम्मते व्यवसायानन्तरं जायमाने तादृशाकारेऽनुव्यवसाये च, 'ममे 'ति प्रमात्रंशे, 'इद' मिति विशेष्यांशे, 'ज्ञानमुत्पन्न'मिति प्रमित्यंशे च भ्रमज्ञानमप्यभ्रान्तमेव समस्ति । तस्य मिथ्यात्वं तु विशेषणांशे एव सीमितम् ।
स्याद्वाददृष्ट्या पुनर्विशेषणांशेऽपि प्रामाण्येतरव्यवस्था प्रायशः सङ्कीर्णैव । तथाहि - इन्द्रियदोषजन्यं चन्द्रद्वयदर्शनं सङ्ख्यांशविषये भ्रान्तमपि चन्द्रस्वरूपांशे त्वभ्रान्तमेव । किञ्च, एकचन्द्रदर्शनं सङ्ख्यांशे स्वरूपांशे च सम्यक्त्वाद् यद्यपि प्रमात्मकं, तथापि उक्तज्ञानकाले चन्द्रं यावद्दूरं वयं सम्भावयामस्ततोऽत्यधिकदूरत्वे तस्य वस्तुतः स्थितत्वादेकचन्द्रदर्शनं तस्मिन्नंशे तु मिथ्यैव । एवञ्च परमार्थतया किमप्यैन्द्रियकं प्रत्यक्षं न सर्वथा प्रमात्मकं भवति, न च सर्वथा भ्रमात्मकमिति ।
कथं तर्हि ज्ञानेषु भ्रान्ताभ्रान्तविवेक इति चेत्, शृणु - ज्ञाननिष्ठयोः संवाद - विसंवादयोः प्रकर्षाऽपकर्षावपेक्ष्य ज्ञानेषु प्रामाण्या - ऽप्रामाण्यव्यवहारः सम्भवति । यथा हि कस्तूरिकादिद्रव्येषु स्पर्शादिगुणेभ्यो
५८
Page #66
--------------------------------------------------------------------------
________________
गन्धगुणस्य मात्रायाः समधिकत्वात् तेषां गन्धद्रव्यत्वेन व्यवहारः, तथैव येषु ज्ञानेषु संवादापेक्षया विसंवादस्य मात्राऽधिकां दृश्यते तानि ज्ञानानि 'भ्रमात्मका'नीत्युच्यन्ते । विसंवादापेक्षया संवादस्याऽऽधिक्यं पुनः प्रामाण्यव्यवहारस्य निबन्धनं भवति । एवञ्च भ्रमज्ञानस्याऽपि केषुचिदंशेषु सद्भूतस्याऽर्थस्य केषुचिच्चाऽसद्भूतार्थस्य ग्राहकत्वात् सदसत्ख्यातिरेव सिद्ध्यति, या च वस्तुतो जैनानामभीष्टाऽस्ति ।
ख्यातिवादस्य निरूपणमत्र समाप्ति भजते । प्रमाणशास्त्रेष्वितोऽपि बहु बह्वस्मिन् विषये चर्चितम्; परं सारल्य-सङ्केपयोः, यौ चाऽस्यां लेखश्रेण्यां प्रमुखत उद्देश्यीभूतौ तयोः, संरक्षणार्थं प्रमाणशास्त्रेभ्यः स्वल्पमेव चित्वाऽत्रोल्लिखितमस्ति । लेखकस्य स्वकीयायाः क्षमताया मर्यादाऽपि खल्वत्र कारणीभूता । जिज्ञासवः प्रमाणशास्त्राण्यवश्यं पश्येयुरित्यनुरोधः ।
लेखश्रेण्या अस्मिन् चरणे 'न्यायावतारवातिकवृत्तिः' (क.-शान्त्याचार्यः, सं.-दलसुख-मालवणियावर्यः, प्र.-सरस्वती पुस्तकभण्डारः-अहमदाबाद) इतिग्रन्थगताभ्यः ख्यातिवादेन सम्बन्धिनीभ्यः टिप्पणीभ्यः, 'षड्दर्शन-भाग २' (क.-नगीन शाह, प्र.-युनिवर्सिटी-ग्रन्थनिर्माण-बोर्ड-गान्धीनगर) इतिपुस्तकगताद् 'भ्रान्तज्ञाने'ति प्रकरणाच्च महत् साहाय्यं गृहीतमस्ति । तदतिरिच्य न्यायकुमुदचन्द्रः (-प्रभाचन्द्राचार्यः), प्रमेयकमलमार्तण्डः (-प्रभाचन्द्राचार्यः), अष्टसहस्रीतात्पर्यविवरणम् (-यशोविजयोपाध्यायः), ख्यातिवादः (-शङ्करचैतन्यभारती) इत्यादीनामपि ग्रन्थानां सन्दर्भा अत्र सगृहीताः सन्ति । एतदर्थं लेखकस्तेषां सर्वेषां कार्तश्यमावहति ।
Page #67
--------------------------------------------------------------------------
________________
आस्वादः
ब्रह्मचर्यम्
अस्मिन् मनुजभवे सर्वेन्द्रियजयार्थं ब्रह्मचर्यं मुख्यम् । तत् कुतः ? उक्तञ्च - सङ्गात्संजायते काम: कामाल्लोभोऽभिजायते । क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥
सङ्गात् कामस्तस्मात्क्रोधः क्रोधात्मोहः मोहात्स्मृतिविभ्रमः स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशाद् विनाशो भवति । अतः कारणात् सर्वेषामनर्थाना मूलं कामः । तज्जयो ब्रह्मचर्यम् । - ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-प्रव्रज्या इति चतुर्णामाश्रमाणां मूलं ब्रह्मचर्यम्, तेषामाधारो ब्रह्मचर्यम् । तस्मिन् नष्टे सर्वे नष्टप्रायाः स्युः । ततस्तन्मुख्यम् ।
ब्रह्मचर्यं किमिति ? वीर्यरक्षणं तत् । वीर्यं तेजः । तत् तेजः - ईश्वरप्राप्तिकारणम् । तस्मिन्नष्टे सर्वं नष्टं 'मूलं नास्ति कुतः शाखा' इति न्यायेन निश्चयेन मन्तव्यं न तु सन्देहेन । वीर्यनाशात् सर्वं नष्टं कुतः ? वीर्यं तेजश्च बलं वा । अतस्तेजसो बलाद्वा - इदं शरीरम् ।
विना च ब्रह्मचर्यमिदं शरीरमपि नष्टप्रायम् । तस्मिन्नष्टे चेतराणि जन्मान्यपि नश्यन्ति । अत्र भवे कामवासनया मृतश्चेत् भवान्तरेऽपि सैव । यादृशी वासना (अन्ते) तादृशी सिद्धिरिति । "यं यं नापि स्मरन् भावं त्यजत्यन्ते कलेवरम् ।।
तं तमेवैति कौन्तेय ! सदा तद्भावभावितः" ॥ इति वचनात् । अतः सर्वेषां भावानामपि मूलं ब्रह्मचर्यम् इति ज्ञेयम् ।
कामविजय एव ब्रह्मचर्यम् । ब्रह्मचर्यात् सर्वेन्द्रियाणि मनोबुद्धिचित्तादीनि पुष्टतराणि भवन्ति । तस्मिन्नष्टे सर्वे कुमार्गे कुविचारे च प्रवर्तन्ते । अतोऽपि तन्मूलं ब्रह्मचर्यम् ।
६०
Page #68
--------------------------------------------------------------------------
________________
“असङ्कल्पाज्जयेत् कामम्
तर्हि कामविजयः कुतो लभ्यते ? इत्यत आह सेवेत ब्रह्मचारी विशेषतः ।" कामसङ्कल्प एकान्तश्च द्वौ तन्नाशकरौ । उक्तञ्च - " सुतामपि रहो जह्याद् ब्रह्मचर्यं चरेत्तु यः । बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ १॥
च
कामस्तु रजस उद्भवति । उक्तञ्च -
काम एष क्रोध एष रजोगुण-समुद्भवः । महाशनो महापाप्मा विद्धयेनमिह वैरिणम् ॥२॥
अतोऽपि महानर्थकरं महावैरिणं कामं जयेत् । तन्मूलं च सात्त्विकाहारो वोपवासादि व्रतञ्च । उक्तं
इन्द्रियाण्यनुशुष्यन्ति निराहारस्य देहिनः । इति ।
इन्द्रियाणां निर्बलत्वात् कामो न भवति । मनसाऽपि न स्मरेद् विषयम्, वाचाऽपि न वदेत् दृष्ट्याऽपि न पश्येत् । उक्तञ्च -
"स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रिया - निर्वृतिरेव च ॥ ३"
तमैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाऽष्टलक्षणम् ॥ ४ इति ।
कामः कामजयः । उक्तञ्च
-
तद् ब्रह्मचर्यम् । तस्माच्छरीरम् । तन्मूलानि इन्द्रियाणि । तन्मूलं मनः । अतो मनो वशीकृत्य तद् ब्रह्मचर्यं जिनेन्द्रं प्रापयति । मनोवशेन सद्विचारकारिणी प्रज्ञा भवति । सत्प्रज्ञया जिनेन्द्ररूपं ध्यात्वा तन्मयो भूत्वा केवलज्ञानं प्राप्नोति । अतो ब्रह्मचर्यं मोक्षप्राप्तिकारकमिति सिद्धम् ।
एकान्तं नैव
-
• विषयः तद्वासना वा । विषयस्तु व्यापारः । वासना तु मानसिकव्यापारः । अतस्तन्नाशे वासनाक्षयादेव मोक्षः ।
-
“मनो निर्विषयं कृत्वा तन्मनस्तु जिनेश्वरे ।
भूतं यदा जातं केवलं प्राप्यते तदा ॥ ५" इति ।
६१
केवला स्थितिस्तु जीवन्मुक्तिः देहे सति तद्विकाराभावः । तद्देहविनाशे मुक्तिः । अपुनर्भवः सायुज्यम् । आत्मनो यत्तेजः तत्परमात्मतेजसा सहैकीभूय तद्रूपं भवेत् सा मुक्ति: । अतो ब्रह्मचर्यं मुक्तिकारणम् । इति सिद्धान्तेन ज्ञेयम् ॥
(केनचिदज्ञातलेखकेन लिखितोऽयं लेखः ।)
Page #69
--------------------------------------------------------------------------
________________
आस्वादः
श्रावकधर्ममीमांसा
चतुरशीतिलक्षाणि जीवानां सन्ति जातयः ।
तासु जातिषु सर्वासु मानुष्यमतिदुर्लभम् ॥१॥ अत एव मानुष्यं लब्ध्वा तत्राऽपि श्रावकत्वं श्रेष्ठतरं, तत्राऽपि जिनधर्मो देवगुरुभावयुक्तः, तत्राऽपि ज्ञानदर्शनचारित्ररूपरत्नत्रययुक्तं, तेष्वपि जिनेन्द्राणां तीर्थं प्रति पूर्णभावनायुक्तमनसा सङ्घयात्रया गमनं, जिनेश्वराणां प्रासादप्रतिष्ठाकरणं, ततः पूजनसत्कारेण स्वहृदयं परमनिर्मलं कृत्वा सद्गुरोः सकाशाद् विधिवत् प्रव्रज्यामङ्गीकृत्य गुर्वाज्ञया जिनशास्त्राणां तत्त्वं सरहस्यं ज्ञात्वा जिनेन्द्राणां स्वरूपमनुभूय तस्मिन् स्वात्मानमेकीकृत्य यदा केवलज्ञानं प्राप्नोति तदा मानुष्यं श्रावकत्वं च सफलं भवति । किन्तु तत्सर्वं सद्गुरुकृपयैव भवति, न त्वन्यैः साधनैरिति ।
तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । जिननिष्ठं जिनभक्तं प्रणिपातपुरस्सरम् ॥१॥ अहिंसा सत्यमस्तेयं दयादानश्च पूजनम् । श्रद्धाऽऽस्तिक्यं क्षमाशक्तिर्देवशास्त्रे गुरावपि ॥२॥ गुर्वाज्ञापालनं नित्यं सदा देवस्य पूजनम् ।। यतीनां दानमानञ्च सत्कारः शुद्धभावतः ॥३॥ सदाचारवता भाव्यं जीवानामप्यहिंसकः । विद्याविनयसम्पन्नः पञ्च प्रतिक्रियां चरेत् ॥४॥ यात्रां प्रतिष्ठां चैत्यं च सदाचरणतत्परः । जिनोत्सवं प्रकुर्याच्च दयां सर्वेषु जन्तुषु ॥५॥ वित्तार्पणं देवगुरौ वैराग्यं सर्वजन्तुषु । जिनेन्द्रं हृदि संस्थाप्य निर्मलीकृत्य मानसम् ॥६
Page #70
--------------------------------------------------------------------------
________________
पुत्रमित्रकलत्रादिमोहमायां विजित्य च । अहम्ममेति दोषादीन् दूरतः परिवर्जयेत् ॥७॥ सद्गुरोर्ज्ञानमाश्रित्य केवले रमयेन्सनः । तथा मोक्षमवाप्नोति गुरुदेवप्रभावतः ॥८॥
अथ श्रावक-लक्षणम् सदाचारदयायुक्ता अहिंसाधर्मपालकाः । जिनेश्वरे भक्तिमन्तो धर्मश्रद्धान्विताः सदा ॥१॥ आस्तिकाः शुद्धमनसः परमार्थपरायणाः ।। देवप्रासादमन्दिर-चैत्यादीनां विधायकाः ॥२॥ सङ्घयात्रोत्सवादीनां धर्मकार्यप्रवर्तकाः । ज्ञानदर्शनचारित्र-दयादान-विधायकाः ॥३॥ विधिना च प्रतिक्रान्ति-सत्कर्मादिक्रियाकराः । जिनेन्द्रपूजका नित्यं गुरुवन्दनकारकाः ॥४॥ श्रोतारो जिनशास्त्राणां गर्वाज्ञापरिपालकाः । विद्याविनयसम्पन्नाः कामक्रोधविवजिताः ॥५॥ रागद्वेषादिरहिता ब्रह्मचर्य-प्रपालकाः । मातृवत् परदारेषु परद्रव्येषु निःस्पृहाः ॥६॥ नीतिधर्मपरा नित्यमस्तेयपरिपालकाः । साधूनां दानमानादि-सत्कारप्रवणास्तथा ॥७॥ सत्यव्रताः सत्यनिष्ठाः सत्सङ्गाः सद्विचारकाः । परोपकारनिरता परद्रोह-विवर्जिताः ॥८॥ संसारं नश्वरं मत्वा वैराग्यादिसमाश्रिताः । धनार्द्ध धर्ममार्गे च दातुं प्रीतियुताः सदा ॥९॥ देवे धर्मे गुरौ शास्त्रे विश्वस्ता दम्भवर्जिताः । निग्राहका इन्द्रियाणां मनस्तोष-विधायकाः ॥१०॥ जीवरक्षापरा नित्यं धर्मकार्य-समुत्सुकाः । कार्याकार्यविचारज्ञाः श्रावकास्ते प्रकीर्तिताः ॥११॥ ॥ इति श्रावक-लक्षणम् ॥
(केनचिदज्ञातलेखकेन लिखितोऽयं लेख:)
Page #71
--------------------------------------------------------------------------
________________
आस्वादः
मित्रस्य आवश्यकता
- उपा. विश्रुतयशविजयः
विना मित्रं जना अनाथा यथा पितरौ विना बालः । जीवनं सङ्ग्रामवद् वर्तते । विना मित्रेण संसारसङ्ग्रामे योद्धुमशक्यम् । यथा अपक्वे घटे जलं न भ्रियते । कदाचित् यदि जलं भ्रियेत तदा जलेन साकं घटोऽपि नष्टो भवति । यथा जलं भर्तुं पक्वो घटो योग्यस्तथैव संसारसङ्ग्रामे जयं प्राप्तुं समीचीनं मित्रं सदैव शोधनीयम् ।
चतुःप्रकाराणि मित्राणि सन्ति । [१] काकवत् [२] उपानद्वत् [३] वृक्षवत् [४] खड्गफलकवत् ।
प्रथमं काकसदृशमित्रं कीदृशं तत् सावधानमनसा शृणुध्वम् - काको यथा कचवरं सदा मार्गयति व्रणं वा शोधयति तथैव काकसदृशमित्रमपि भवतः स्खलनां मार्गयति । स्खलनायाश्छिद्रस्य च निरीक्षणे हि काकमित्रस्य मतिः सदा रमते । छिद्रं दृष्ट्वाऽस्थाने प्रतिपक्षपार्श्वे च छिद्रं प्रकाश्य मित्रक्लेशमुत्पाद्य स नन्दति ।
चाणक्योऽपि एतादृशं मित्रलक्षणमुक्तवान्
परोक्षे कार्यहन्तारं, प्रत्यक्षे प्रियवादिनम् ।
वर्जयेद् तादृशं मित्रं, विषकुम्भं पयोमुखम् ॥
समीचीनस्य मित्रस्याऽभावे कदाचिदपि एतादृशं काकमित्रं न कर्तव्यम् ।
द्वितीयं उपानत्तुल्यं मित्रम् ।
वर्षर्तौ कोऽपि जन उपानहौ धृत्वा चलति । तदा लोष्टादिभिस्तु तस्य संरक्षणं भवति । किन्तु पृष्ठभागे कर्दम उच्छलति, वस्त्रं मलिनं करोति । तच्चोपानद्धारकेन न ज्ञायते, यत् पृष्ठभागे मम वस्त्रं मलिनं भवति । तथैव द्वितीयं मित्रं वर्तते । अग्रे तु मधुराणि वचनानि उक्त्वा मित्रमानन्दयति । पृष्ठे च तस्यैव निन्दां करोति । अत एतादृशं मित्रं न विश्वासपात्रम् ।
६४
Page #72
--------------------------------------------------------------------------
________________
तृतीयं वृक्षसममित्रम् ।
इदं मित्रं स्वस्वार्थं पूर्णीकर्तुं तिष्ठति स्वार्थपूर्त्यन्तरं च मित्रस्य सहायं विस्मरति । वर्षत जलधारासमये पथिको जलधारया स्वशरीरस्य रक्षणहेतोर्वृक्षस्याऽधस्तिष्ठति, तदा स्वल्पकालं पथिक आर्द्रा न भवति । किन्तु कियच्चित् समयानन्तरमथवा जलधारास्थगनान्तरमपि वृक्षस्याऽधस्तिष्ठन् पथिकः क्लिन्नो भवति । पर्णैः संगृहीतं जलं पथिकस्य उपरि पतति । तथैव तृतीयं मित्रमपि प्रारम्भकाले चारुतरं सहायं करोति । पश्चात् कार्यपूर्त्यन्तरं सर्वं विस्मरति । वृक्षवद् मित्रस्य चित्तं सततं स्वार्थे एव रमते । निरपेक्षतया सहायं कर्तुं तस्मै न रोचते । अतः केनाऽपि चिन्तकेनोक्तम्
"दुर्जनस्य करुणया अलं, सुष्ठु सज्जनपीडनम् । यदा सूर्यस्तपति तदैव मेघो वर्षति ॥" "यावती अपेक्षाऽधिका तावान् मित्रतायां ह्रासः " । मित्रतां दृढीकर्तुं निःस्वार्थता निरपेक्षता चाऽत्यावश्यक्यौ ।
चतुर्थमित्रं खड्गफलकवत् ।
प्राचीनकाले युद्धसमये खड्गादिशस्त्रैर्युद्धं भवति स्म । एतादृशे युद्धे प्रतिपक्षस्य प्रहारं सोढुं फलकस्य उपयोगः क्रियते । शत्रवो यदा शस्त्राणि क्षिपन्ति तदा चर्ममयं फलकमग्रे भूत्वा प्रहारान् सहते । तथैवेदं मित्रमपि मित्रस्य सुखकाले तेन सार्धं लपनं, मिलनं, खेलनं, किमपि न करोति । किन्तु यदा आपत्तिः समागच्छति तदा विना निमन्त्रणं समेत्य प्रकर्षेण मित्रस्य साहाय्यं करोति । इदमेव प्रवरं मित्रमुच्यते ।
६५
Page #73
--------------------------------------------------------------------------
________________
पत्रम्
पत्रम
- मुनिधर्मकीर्तिविजयः
॥ नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । अत्र सातं वर्तते । तत्राऽप्येवं स्यादित्याशासे ।
सौराष्ट्रदेशे पादलिप्तनगरं भावनगरं च विहृत्य पुनः कदम्बगिरितीर्थमागतवन्तो वयमास्म । तीर्थमेतदतीव मनस्तृप्तिकरं प्रियं च स्थानमस्ति । ततोऽत्रैव कदम्बगिरितीर्थे पुनः स्वाध्यायार्थं कियत्कालं स्थिताः आस्म वयं सर्वे । ततो निर्गत्य पूज्यपादशासनसम्राटश्रीनेमिसूरीश्वराणां जन्म-समाधिस्थाने 'मधुमतीपुरि' चतुर्मास्यर्थं गुरुभगवता साकं वयं सर्वे आगच्छाम ।
गतपत्रे मया कदम्बगिरितीर्थस्य मधुरस्य नयनरम्यस्य निर्मलस्य च वातावरणस्य परिचयो दत्त आसीत् । अद्य तत्तीर्थविषयकं किञ्चिद् लिखामि । ___ यस्य गिरेः प्रतिकङ्करमनन्ता जीवाः शिवपदं प्राप्ताः स श्रीशत्रुञ्जयगिरिः पुरातनकाले सर्वतोऽतिविस्तृत आसीत् । एतत्तीर्थं तस्य शत्रुञ्जयगिरेः शृङ्गरूपमेवाऽस्ति । तीर्थेऽस्मिन् अतीतचतुर्विंशत्यां जातस्य श्रीसम्प्रतितीथङ्करस्य प्रथमगणभृत् श्रीकदम्बनामा कोटिसङ्ख्यकमुनिभिः साकमपारसंसारे बन्धनरूपाष्टकर्मकदम्बकमपास्य परमसुखस्वरूपं शिवपदं प्राप्तवान् । तत एवैतत्तीर्थं कदम्बगिरिनाम्ना प्रसिद्धं जातमस्ति ।
गिरेरस्य सर्वोच्चशृङ्गस्योपरि पूर्वं श्रीकदम्बगणधरभगवतः पादुकायुता लघुकुलिकैवाऽऽसीत् । नाऽन्यत् किमपि स्थानं मन्दिरं चाऽऽसीत् । एकदा पूज्यपादशासनसम्राट्-श्रीनेमिसूरीशः सपरिवार विहरन्नत्राऽऽगतवान् । तेन गुरुभगवताऽस्य तीर्थस्य दुःस्थिति र्णता च दृष्टा तन्मसि सन्तापश्च सञ्जातः । उद्विग्नेन तेन भगवता तदैव चित्ते सङ्कल्पः कृतः – 'अस्य तीर्थस्योद्धारः करणीय एवे'ति ।
Page #74
--------------------------------------------------------------------------
________________
न
कृतसङ्कल्पस्य सिद्धिस्त्वतीवाऽतीव दुष्कराऽऽसीत् । यत एतत्तीर्थं तद्ग्रामस्य ठक्कुराणामधीनं बभूव । ते ठक्कुरास्तु सदा मदिरापानद्यूतादिव्यसनेषु रममाणा आसन् । एवं ते हिंसकास्तथाऽज्ञानिनो दुर्बोधाश्चाऽप्यासन् । 'धर्मः कः, गुरुश्च कः' इत्यपि न ते जानन्ति स्म । केवलमादिनं व्यसनेष्वेव निमग्ना बभूवुस्ते । तत एतादृशाः ठक्कुरा यदि प्रसन्नीभवेयुस्तदैवैतत्कार्यं सरलं भवेत्, एतेषां विना साहाय्यमेषस्तीर्थोद्धारोऽशक्य एवेति गुरुभगवता ज्ञातं निश्चितं च । ततो मनसिकृत्य सपरिवारं स गुरुवरस्तस्मिन्नेव ग्रामे किञ्चित्कालं स्थितिमाप्तवान् । प्रतिदिनं ग्राम्यजनान् सम्मेल्योपदेशं ददाति स्म स गुरुवरः । तत्र गुरुप्रवचनश्रवणार्थं ग्राममुख्या: ठक्कुराश्चाऽपि सदाऽऽगच्छन्ति स्म । मृगया-द्यूतसुरापानादिव्यसनैः का का हानिर्भवेत्; एवं च - न वक्तव्यमसत्यं, चौर्यं न करणीयं, कदाऽपि हिंसा न करणीया - इति सरलभाषया तेन गुरुभगवता सदोपदेशो दीयते स्म । गुरुभगवतः सदुपदेशं संश्रुत्य तेषां दुर्बोधानां ठक्कुराणां मनःपरिवर्तनं जातम् । कैश्चिज्जनैः द्यूतं सुरापानं च त्यक्तम्, कैश्चिज्जनैश्च हिंसा परिहता । एवं ते ठक्कुरा गुरुभगवतो भक्ताः सञ्जाताः । तत्राऽपि ग्रामणीस्तु परमभक्तो बभूव ।।
एकदा स ग्रामणीगुरुभगवतोऽग्रे आगतवानुक्तवांश्च – "गुरुदेव ! भवताऽस्माकमुपरि महानुपकारः कृतोऽस्ति । ततो वयं किं कुर्याम येन किञ्चिदपि ऋणप्रत्यर्पणं स्यात् ?" । गुरुभगवता निषेधः कृतः । स ग्रामणीर्वारं वारमाग्रहं यदा कृतवान् तदा गुरुभगवता कथितम् – “यदि युष्माकं विशेष आग्रहः स्यात्तर्हि भवन्तो गिरेरुपरि कामपि भूमिम् - आणंदजी-कल्याणजी-संस्थायै उचितमूल्येन यच्छत" । ___ सर्वेऽप्यग्रण्यो जना भूमि प्रदातुं सन्नद्धा जाताः, किन्तु मूल्यं ग्रहीतुं निषेधं कृतवन्तस्ते । “वयं तु भवते उपहाररूपेणैव भूमिमेतां दास्यामः" ।
गुरुभगवतोक्तम् – “नैष आचारः साधूनामस्ति । न कदाऽपि साधवः एतादृग्रीत्योपायनं स्वीकुर्वन्ति" ।
अनभिज्ञाश्चाऽपि ते ठक्कुरा ऊचुः – “पुरा किल भवत एव महद्भिः सूरिभिर्जगद्गुरुश्रीहीरविजयसूरिभिः दिल्हीसम्राट-अकब्बरराजेन दत्तानि तीर्थानि स्वीकृतान्येव, इति श्रुतमस्माभिः । ततो भवान् कथं निराकरोति ? किं भवतस्तेषां च मध्येऽन्तरमस्ति ?" ___ गुरुदेवोऽवोचत् – “एवं मा वदन्तु । ते जगद्गुरुहीरसूरीश्वरास्तु महान्तः साधव आसन् । अहं तु तच्चरणरजोनिभः सामान्यसाधुरस्मि । ततस्तेषामनुकरणं मे उचितं नाऽस्ति" । ___ अन्ते, प्रबोधितास्ते ठक्कुरा वदन्ति स्म - "गुरुवर ! भवद्वचनमस्माभिः स्वीक्रियते । किन्तु विज्ञप्तिरेकाऽस्ति - ‘भवता वयं व्यसनेभ्यो मोचयित्वा मनुष्यरूपाः कारिताः, तत्स्मृतौ वयमेतां भूमि दद्मः' इति उल्लेखः कर्तव्यः" ।
गुरुभगवता सम्मतिर्दत्ता । सर्वेऽपि तत्र स्थिता जनाः प्रमुदिता जाताः । बन्धो ! किमेतच्छक्यमस्ति ! तीर्थोद्धारः कथं क्रियते ? शासनकार्यार्थमन्यधर्मिजनैः सह कथं व्यवहारः क्रियते ? तदत्र विशेषतो
Page #75
--------------------------------------------------------------------------
________________
ज्ञेयम् । अत्र गुरुभगवतो दीर्घदृष्टिर्बुद्धिचातुर्यं च विशेषतया प्रतिभाति । एवमस्मादृशां महत्त्वाकाङ्क्षिणां वर्तमानकालीनानां च साधूनां कृते प्रसङ्ग एष सूक्ष्मदृष्ट्या विमर्शनीयोऽस्ति । ___ एष गुरुवरो जिनशासनस्य तत्कालीनसमाजस्य च मान्योऽग्रेसरश्च सूरीश्वरो बभूव । शासनस्य समाजस्य च सर्वेऽप्यग्रणीजना विविधप्रदेशीयराजाः तत्कालीनप्रवराचार्यवर्याश्चाऽपि गुरुभगवन्तं प्रति समर्पिता आसन् । एष गुरुवरो यदिच्छति वदति च तद्भवत्येव । एवं, परिस्थितिः सर्वरीत्या सानुकूलाऽऽसीत् । तथाऽपि निःस्पृह-निरभिमानिगुरुभगवता कथितम् - अहं तु सामान्यसाधुरस्मि, तेषां पूज्यपादानां चरणरेणुसमोऽस्मि-इति । एतेन गुरुवरेण स्वजीवने न कदाऽपि पूर्वकालीनपूज्यानामनुकरणं कृतम् - एतदेव गुरुवरस्य महत्त्वमस्ति ।
चेतन ! अद्य समाजे किं प्रचलति ? बाह्यदृष्ट्या प्रसिद्धिप्रदं पुष्कलधनव्ययेन कारितमेकं कार्यम् । शिक्षितैः (पठितैः) आडम्बरकुशलैः प्रपञ्चचतुरैश्च भक्तैः स्वगुरोः सर्वतः प्रशंसा क्रियते । एवं समाजे प्राप्तप्रतिष्ठास्ते गुरव आत्मानं महान्तो मन्यन्ते । पश्चात्तु निर्बन्धतया पूर्वकालीनपूज्यानामनुकरणमपि कुर्वन्ति । अद्य 'तीर्थकरसमः सूरी' इति शास्त्रवचनं मनसिकृत्य स्वं तीर्थकरं मन्यन्ते केचित् सूरीश्वराः । ततः समवसरणरूपे सिंहासने विराजन्ते ते । तेषामन्धश्रद्धालवो दृष्टिरागान्धाश्च भक्तजनाः तत्तत्सूरीश्वरान् त्रिः प्रदक्षिणां विधाय पूजनं कुर्वन्ति, शिरसः उपरि छत्रं धरन्ति, द्वयोः पार्श्वयोः व्यजनं वीजयन्ति, एवं प्रकारेण महाडम्बरेण रचिते समवसरणे विराजमानः स सूरीशः प्रवचनं ददाति ।
भोः ! आश्चर्यं त्वेतद् - एतादृशं वर्तनं तु तीर्थकरस्याऽऽशातनरूपमस्ति, इति जानन्तोऽपि दृष्टिरागेण बद्धा भक्ताः(?) गड्डरिकाप्रवाहेण तत्रैव सदा गच्छन्ति ।
बन्धो ! चिन्तय ! एष शासनसम्राट् महापुरुष आसीत्, सङ्घमान्यः सर्वमान्यश्चाऽऽसीत् । ततः स्वेच्छानुरूपं सर्वमपि कर्तुं शक्तिमानासीत् । किञ्च ते ठक्कुरा न केनाऽपि कथनेन किन्तु सहजभावेन तस्मै गुरुवराय तां भूमिमुपहाररूपेण प्रदातुं सन्नद्धाः सञ्जाता आसन् । ततस्स गुरुवरः स्वनाम्ना तां भूमि स्वीकर्तुं समर्थो बभूव । तथाऽपि गुरुभगवता पूर्वकालीनपूज्यानां व्याजेनाऽनुकरणं न कृतं किन्तूक्तम् - अहं तु सामान्यसाधुरस्मि, पूज्यानां च चरणरजोनिभोऽस्मि, इति ।। . यस्य चित्ते प्रभुशासनं प्रस्थापितमस्ति भगवदाज्ञा भगवत्प्रणीताराधना च परिणताऽस्ति, स कदाऽप्येवं न करोति । स पूर्वजानां नाऽनुकरणमपि त्वनुसरणं करोति । स न पूर्वकालीनपूज्यानां व्याजेन स्वच्छन्दतां शासनबाधकरीतिं च पोषयति । यः शासनं गौणीकृत्य स्वप्रसिद्धिं स्वसम्प्रदायवृद्धि चाऽभिलषति तथा स्वाडम्बरं स्वदुराशयं च प्रमाणीकरोति स केवलं शासनविराधकः शासनद्रोही चैव विज्ञेयः । अद्य बहुत्रैषैव रीतिः प्रवर्तते ।
बन्धो ! इदानीमेकं पुस्तकं पठन्नस्मि । तत्र पठितं - ब्रिटीशदेशीयजनाः साम्राज्यवादिन आसन् । तेषां मनसि साम्राज्यरक्षणार्थं निरन्तरं नवीना विचाराः प्रादुर्भवन्ति स्म । येन केन प्रकारेणाऽपि ते साम्राज्यं
६८
Page #76
--------------------------------------------------------------------------
________________
संवर्द्धयितुं प्रयतन्ते स्म । तदर्थं च ते कस्यचिद् द्रोहं कुर्युः कस्यचिदकारणं प्रशंसां कृत्वा प्रलोभनं दास्ते । एवं एकस्मिन्नैव स्थाने विभाजनं कुर्युस्ते । तेषां ब्रिटीशदेशीयजनानामेकमेव सूत्रमासीत् - विभाजनं कृत्वाऽपि राज्यं क्रियेत - इति । भारतदेशेन ब्रिटीशसर्वकाराद् मुक्तिः प्राप्ता, ते ब्रिटीशदेशीयजनाः स्वदेशे गतवन्तः तथाऽपि तेषां वंशजास्तु इदानीमपि दृश्यन्ते । केचित् साधवो जनाश्च साम्राज्यवादिमानसं धारयन्ति । ते साधवोऽहर्निशं शासनस्य समाजस्य चोपरि अस्माकमेव सर्वोपरित्वं प्रभुत्वं च स्यात्तदर्थं प्रयतन्ते । ततोऽन्यसाधून निन्दन्ति, असदाक्षेपान् कुर्वन्ति ते । एवं प्रपञ्चाऽसत्य-दम्भ-प्रलोभनादिभिः शासने विभाजनं संघर्षं चाऽपि ते कुर्वन्ति । यथावसरं स्वसमुदायमहत्ता प्रस्थापयितुं शासनद्रोहकरणेऽपि तत्परा भवन्ति ते । एष शासनसम्राट-गुरुवरो न साम्राज्यवादी, अपि तु शासनप्रेमी आसीत्, तत एव सन्मुखमागच्छन्ती प्रतिष्ठाऽपि निषिद्धा ।
चेतन ! यः शासनप्रेमी अस्ति स एव शासनप्रभावको भवितुमर्हति । एवं, यः शासनप्रभावकोऽस्ति स निरभिमानी निर्दम्भी चैव स्यात् । अन्यथा नम्रता-सरलतारूपाञ्चलं गृहीत्वा प्रतिपदं दम्भाचरणसेवी न शासनप्रभावकः, अपि तु केवलं स्वप्रभावक एव भवति । दम्भसेवनं तु साधुताया विध्वंसकमस्ति ततोऽलं शासनप्रभावकतया, तद्दम्भाचरणसेविनां जीवने साधुताऽप्यस्ति न वेति प्रश्न उद्गच्छति । तथाऽप्यद्य केषाञ्चिद् गुरुकर्मजीवानां कृते दम्भस्तु साधुजीवनस्य पर्याय एव जातः, येषां प्रतिरोम दम्भस्तु प्रसृतोऽस्ति । ततस्तेषां जीवानां सर्वास्वपि प्रवृत्तिषु प्रच्छनतया दम्भसेवनं दृग्गोचरीभवत्येव । ___एष सूरीश्वरो यदा नाम गृहिवेषं च त्यक्त्वा संयममङ्गीकृतवान् तदैवाऽस्तित्वविकासे बाधनरूपं दम्भमहङ्कारं साम्राज्यवादितामसत्यतां महत्त्वाकाङ्क्षादिकं च व्यक्तित्वपोषकविविधाभूषणं त्यक्तवानेवाऽऽसीत् । तत एवाऽनुकूलपरिस्थित्यामपि गुरुणैतेन संयमविघातकं किमप्याचरणं न कृतं किन्तु संयमस्य परमनिष्ठया स्वात्मानं पूर्वकालीनमहापुरुषाणां चरणरजोनिभं विगणय्य ठक्कुरैः साग्रहं सानुनयं च प्रेम्णा प्रदत्ता भूमिरपि स्वनाम्ना नोररीकृता । ठक्कुराणामत्याग्रहवशेनैव आणंदजी-कल्याणजी-संस्था इति नाम्ना`चितमूल्येनैव सा भूमि: क्रीता ।
चेतन ! भूमिस्तु प्राप्ता, किन्त्वेतादृशे स्थाने गिरेरुपरि मन्दिरनिर्माणं करणीयं, अतीव दुष्करं कार्यम् । तथाऽपि शासनसम्राट्-पूज्यगुरुवरस्याऽमृतदृष्ट्या तीर्थोद्धारकार्य प्रारब्धम् । स कालोऽद्यतनसाधनसमूहरहितः पुरातनकाल आसीत् । तत्काले साधनसौलभ्यं न, न कुशलकर्मकरप्रापणं, न च धनप्राप्तिः सुलभाऽऽसीत् । तथाविधकालेऽपि शासनसम्राड्गुरुवरेण तीर्थोद्धारः कृतः । पर्वतोपरि नैकमपि तु जिनमन्दिराणि निर्मापितानि । बोदानानेस-ग्रामेऽपि भव्यमेकं जिनमन्दिरं निर्मापितमेतेन गुरुणा ।
अस्त्येष भव्य इतिहासोऽस्य तीर्थस्य । एष एक एव तीर्थोद्धारः 'तीर्थोद्धारक बिरुदं प्रमाणीकरोति । अद्य सर्वतस्तीर्थोद्धारा जीर्णोद्धाराश्च भवन्ति, किन्तु तत्र के उचिताः सन्ति, तच्चिन्तनीयमस्ति ।
Page #77
--------------------------------------------------------------------------
________________
भोः ! जीर्णोद्धारकरणे तीर्थोद्धारकरणे चाऽपि केचिन्नियमाः सन्ति, किन्तु को जानाति ? जानानोऽपि कः पालयति ? अद्य शासनेऽराजकता प्रवर्तते । सर्वेऽपि मुनयो जनाश्च स्वेच्छानुरूपं तीर्थोद्धारादिकं कारयन्ति । शासनकार्ये रममाणानां जीवनेऽपि यदि नाऽनुशासनं स्यात्तर्हि किमन्यैः सामान्यजनैः ? एतयाऽराजकपरिस्थित्याऽस्माकं भव्येतिहासः प्राचीनकलाशिल्पानि तत्तत्स्थानस्य महत्त्वं चेति विशिष्टसमृद्धिविनष्टा जाता।
अद्य तु, भव्यो जिनालयः स्यात्, तत्र न काऽपि विशेषहानिः स्यात्, बहुवर्षपर्यन्तं नाऽऽवश्यको जीर्णोद्धारः - इत्येतादृशजिनमन्दिरस्याऽपि केवलं स्वनाम्नः शिलालेखस्येच्छयैव जीर्णोद्धारः क्रियते । धनप्रभावेन सत्ताबलेनैव च सुन्दरमपि प्राचीनं जिनमन्दिरं, पुरातनकालीनेतिहासं प्राचीनशिल्पं च जनो विनाशयति । किमेष जीर्णोद्धारः तीर्थोद्धारश्चोच्यते किल? अत्र न जीर्णोद्धारोऽपि तु स्वनामोद्धार एवाऽस्ति ।
अद्य तु एतादृशी दुःखदस्थितिरस्ति यद् - जीर्णोद्धारव्याजेन मुख्यप्रतिमया सह सर्वा अपि प्रतिमा उत्थाप्यन्ते, तत्पश्चात् स्वनामाङ्कितप्रतिमा मुख्यप्रतिमा(मूलनायक)रूपेण प्रतिष्ठाप्यते तथा प्राचीनप्रतिमा मन्दिरस्य गर्भगृहे अथवा उपरितनभागे प्रतिष्ठाप्यन्ते । अत्र केवलं स्वनाम्नतुच्छमोह एव दृश्यते । एतादृशी घटनाऽनेकेषु ग्रामेषु सञ्जाताऽस्ति, तत्कार्यस्य परिणाम किम् ? इति तु तत्तद्ग्राम्यजना एव प्रष्टव्याः ।
बन्धो ! जीर्णोद्धारकरणे केवलं जिनालयस्य बाह्यदृष्ट्यैव जीर्णता न दर्शनीया चिन्तनीया चाऽस्ति, किन्तु जिनालयस्य भव्यता प्राचीनता च, शिल्पं, स्थापत्यकला, कस्मिन् काले केन च प्रतिष्ठा कारिता - इत्यादिकं सर्वमपि दर्शनीयं चिन्तनीयं चाऽस्ति । अद्य समाजे धनस्य विशेषतया प्रभुत्वं वर्तते । ततः सर्वेष्वपि कार्येषु धनेनैव तत्कार्यस्य गणना विधीयते, किन्तु तन्नोचितमस्ति । एतेन धनस्य प्रभावेन चाऽन्तिमशतके बहूनि बहूनि इतिहास-शिल्प-कलादिदृष्ट्याऽतीव महत्त्वयुतानि भव्यानि जिनमन्दिराणि नष्टानि जातानि । एषा घटना करुणाजनिकाऽस्ति । __ अस्माकं परमगुरुभगवता शासनसम्राट्सूरीश्वरेण बहवः तीर्थोद्धाराः जीर्णोद्धाराश्च कृताः किन्तु एकस्मिन्नपि स्थाने एतादृशं हीनं मलिनं च कार्यं न कृतमस्ति । तत एव स सूरीशः 'शासनसम्राट्' इत्यभिधानेन विख्यातो जातः । एतेन गुरुभगवताऽस्य तीर्थस्य तीर्थोद्धारं विधाय नष्टप्रायो भव्येतिहासः पुनर्जीवितः कृतः । एषैव महती शासनप्रभावनोच्यते ।
अन्ते, कदम्बगिरितीर्थस्य भव्येतिहासं विज्ञाय यथासमयमत्र त्वयाऽऽगन्तव्यम् । इति ॥
७०
Page #78
--------------------------------------------------------------------------
________________
मर्म गभीरम्
- मुनिकल्याणकीर्तिविजयः
(१) अविश्वासः चीनदेशीयो महान् दार्शनिकः कन्फ्यूशियस् एकदा केनचिद् विद्यार्थिना पृष्टः – 'महोदय ! उत्तमः सर्वकारः क उच्यते ?'
तेनोक्तं – 'यः सर्वकारः सर्वेभ्योऽपि प्रजाजनेभ्य आहारं संरक्षणं च सम्यक्तया ददाति, निर्वहति च प्रजाजनान् सुचारुतया, तेषां च विश्वासपात्रं भवति स सर्वकार उत्तम उच्यते' ।
विद्यार्थी - 'महोदय ! यद्येतस्मात् वस्तुत्रयात् (आहार-संरक्षण-विश्वासरूपात्) एकतमद्धातव्यं तदा कतमद्धातव्यम् ?'
'संरक्षणम्' । 'ततोऽप्येकं यदि मोक्तव्यं तदा ?' 'आहारः'। 'परं विनाऽऽहारं तु लोको मरिष्यति' । 'ये प्रजाजनाः सर्वकारे न विश्वसन्ति ते जीवन्तोऽपि मृता एव' ।
(२) सेवा एको जनः कस्माच्चित् सेतोः कूदित्वाऽऽत्मघातं यावत् करोति स्म तावता कुतश्चिदेक आरक्षको धावित्वा तत्राऽऽगत उच्चैश्च कथितवान् –
'मा भो ! मा साहसं करोतु भवान् । किमर्थं खलु भवादृशो युवा, येनाऽद्याऽपिपर्यन्तं जीवनं पर्याप्ततया नाऽनुभूतं स, आत्मघातं कुर्यात् ?'
तेनोक्तं – 'नाऽहं जीवितुमिच्छामि, जीवनादेव विरक्तोऽस्म्यहम्' ।
७१
Page #79
--------------------------------------------------------------------------
________________
'भोः ! प्रथमं मम वचनानि शृणोतु कृपया । यदि भवान् जले कूर्देत् तदा भवन्तं रक्षितुं मयाऽपि कूदितव्यमेव ननु ! । जलं चाऽधुना शीतकालत्वात् सर्वथा हिमशीतलं वर्तते, अहं चाऽचिरादेव न्युमोनियारोगात् सज्जो भूत्वोत्थितोऽस्मि' । ____ 'एतस्याऽर्थोऽवगम्यते वा ? अहं मरिष्यामि नूनं भवन्तं रक्षन् । मम परिवारे प्रिया पत्नी चत्वारश्च शिशवः सन्ति । किं भवान् सानुतापेनाऽन्तःकरणेन स्वजीवनं यापयितुमिच्छतीतः परम् ? नैव, सर्वथा नैव । अतः शृणु मद्वचनम् । स्वस्थो भव, क्षमा याचस्व, भगवान् भवन्तं क्षमयिष्यत एव । गृहं गच्छतु । तत एकान्ते सर्वेषामज्ञाततया स्वमुद्बध्नातु !!' ।
(३) सर्वत्र एक: कलाविद् आश्रमे प्रवचनं कुर्वाणोऽवदत् -
'कला सङ्ग्रहालये प्राप्यते, किन्तु सौन्दर्यं तु सर्वत्राऽपि सुलभम् । पवने, वने, जले - सर्वत्राऽपि प्राप्यते - निःशुल्कमेव सञ्जारहितं चाऽपि' ।
'सर्वथा चैतन्यवदेव' इति गुरुरपूरयत् स्वशिष्याणां सम्मुखमनुगामिनि दिने । 'चैतन्यस्य चिह्नानि तु देवालयनामके सङ्ग्रहालये प्राप्यन्ते किन्तु तस्य तत्त्वं तु सर्वत्रैव प्राप्यते, निःशुल्कमेव, अज्ञातं सज्ञारहितं चाऽपि !!' ।
(४) शिक्षणम् गुरोः कश्चनाऽनुयायी, गुरुमत्यधिकादरेण मूर्तिमन्तं भगवन्तमिव पश्यन्, एकदा गुरोश्चरणयोः पतित्वोच्चैरकथयत् – 'कथयन्तु भोः पूज्या गुरवः ! भवन्तोऽत्र जगति किमर्थं समागताः ?' ___ गुरुणा तीक्ष्णस्वरेण कथितम् – 'अहं खलु गुरुपूजायामेव स्वसमयस्य दुर्व्ययं कुर्वतां भवादृशां मूर्खाणां शिक्षणार्थमत्राऽऽगतोऽस्मि !!' ।
(५) मार्गः एकः शिष्यो सविनयं गुरवेऽपृच्छत् – 'गुरो ! कथमहं मार्गप्रवेशं कुर्याम् ?' गुरुणोक्तं – 'किं भवान् आश्रमस्य निकषा प्रवहन्त्या नद्याः प्रवाहस्य गभीररवं शृणोति वा ?' 'आम् शृणोमि' । 'तर्हि स एव मार्गप्रवेशस्य श्रेष्ठा पद्या !!' ।
(६) शिरस्त्रम् एकदा मुल्ला-नासीरुद्दीनः शिरसि तुर्कदेशीयं शिरस्त्रं परिधाय विपणावटति स्म । तदैको जनो वेगेन चलन् तमाहूतवान् कथितवांश्च – 'महोदय ! अस्मिन् पत्रे तुर्कीयभाषायां किमपि लिखितमस्ति, न चाऽहं तां भाषां पठितुं जानामि । अतः कृपया तत्र किं लिखितमस्तीति पठित्वा मां कथयतु ।
७२
Page #80
--------------------------------------------------------------------------
________________
मुल्ला-नासीरुद्दीनेन तत् पत्रं गृहीत्वेतस्ततश्च परावर्त्य विलोकितं, ततः कथितं – 'भोः ! मयाऽपि न ज्ञायतेऽत्र किं लिखितमिति, यतो नाऽहं तुर्कीयभाषां जानामि' ।
स जनोऽवदत् - 'अरे ! भवता तुर्कदेशीयं शिरस्त्रं परिहितमस्ति, तत् कथं तुर्कीयभाषां न जानाति ?'। ____ मुल्लाऽवदत् - 'भ्रातः ! यदि शिरस्त्रधारणेन भाषा ज्ञायेत चेत् तर्हि भवतो मस्तके शिरस्त्रमिदं स्थापयामि, पठतु भवानेव पत्रम् !!'
७३
Page #81
--------------------------------------------------------------------------
________________
काव्यानुवादः
मारी दुनियामां गूर्जरमूलम् - विजय राज्यगुरुः
त्यारे मारी दुनियामां नहोती फिकर के नहोतो डर पासे हती मा एनो पालव एनो हाथ एनो अवाज पछी शेरीमां गयो अने दूर नीकली गयो होस्टेलमा हतो त्यारे मा वात करवा वलखती हुं वात ढूंकावतो अने एम जिंदगी ढूंकी थती गइ परण्यो अने मानी पथारी गइ ओसरीमां एनी उधरसनो अवाज अने मारी वच्चे आवी गयां - पत्नी-बालको अने तेमनी जरूरियात ! आजे बालको एनी दुनियामां पत्नी बालकोना बालकोनी दुनियामां एकलवायो हुं झंखुं छु मानी हूंफ त्यारे मा ज नथी मारी दुनियामां !!
Page #82
--------------------------------------------------------------------------
________________
काव्यानुवादः
मदीये जगति
अनुवादकः - मुनिधर्मकीर्तिविजयः
तदा मदीये जगति
नाऽऽसीच्चिन्ता, न च भयं
समीपे बभूव जननी
तस्या वस्त्राञ्चलम्, तस्या हस्तौ
तस्याश्च ध्वनिः;
पश्चाद् रथ्यायां गतो
दूरं च निर्गतवान् ।
छात्रालये आसं तदा जननी वार्तालापं कर्तुमुत्कण्ठिताऽभवत्, अहं वार्तालापं लघूकरोमि स्म
एवमेव जीवनं लघूभूतम् । विवाहो जातो मातुश्च शयनं गतं गृहाङ्गणे
जनन्या: कासशब्दस्य मम च
मध्ये आगताः
पत्नी बालकास्तेषां चाऽऽवश्यकता: ! अद्य बालकाः स्वकीये जगति
पत्नी पौत्राणां जगति
एकोऽहं स्पृहयामि मातुर्वात्सल्याय तदा सा जनन्येव नास्ति मदीये जगति ।
७५
Page #83
--------------------------------------------------------------------------
________________
सत्यघटना
संवेदनबधिरता
मुनिधर्मकीर्तिविजयः
अहं वटपद्रनगरतो विहृत्य कर्णावतीनगरं प्रत्यागच्छन्नासम् । 'नडियाद 'नगरसमीपस्थमेकं स्थानमासीत् । प्राय: प्रात:कालस्याऽष्टवादनसमयो जात आसीत् । तदा तन्मुख्यमार्गस्यैकस्मिन् कोणे एको मृतदेहः पतित आसीत् । तस्य मस्तकं रुधिरालिप्तमासीत्, उदरादन्त्राणि बहिर्निर्गतान्यासन्, देहस्य परितो मक्षिका उड्डयन्ते स्म, काकाः पुनः पुनस्तत्राऽऽगत्य तद्देहमभक्षयन्, कुक्कुराश्च भूमिपतितं रुधिरमास्वादयन्ति स्म ।
अनेके जनास्तन्मार्गाद् गच्छन्त आसन् । ते सर्वेऽपि जनाः पतितं तं शवं पश्यन्ति स्म । “कः स्यात् ? कथं मृत्युर्जातः ? अपघातो भवेदुत केनाऽपि हत्या कृता स्यात् ?" इत्येवं बहून् विकल्पान् मनसिकृत्य क्षणं दुःखमनुभूयाऽग्रेऽचलन् ते जनाः, किन्तु न कोऽपि वीर ( ? )जनो तन्मृतकस्योचितव्यवस्थां कर्तुं प्रयतते स्म ।
हृदयद्रावकं चित्तोद्देगकरं चाऽतीव करुणं दृश्यं संवीक्ष्य तदा मन्मानसेऽनेके विकल्पा उदगच्छन्, तत्राऽप्येकः प्रश्नस्तु दिनपर्यन्तं पुनः पुनरुद्गच्छति स्म - किं वयमेतादृशाः संवेदनबधिराः स्मः ? यतो मृतकस्याऽपि लज्जां नाऽनुभवामः इति । एष दीनोऽनाथो वनीपको विशेषतोऽपरिचितश्चाऽस्तीति कल्पनाऽस्माकमस्ति, इति स्वीकरोम्यहम्, किन्त्वेष यः कोऽपि मानव एवाऽस्तीति तु निर्विवादं सत्यमस्ति । अनेकेषां गतागतं कुर्वाणानां मुख्यमार्गस्योपरि पतितमपरिचितं शवं दृष्ट्वाऽपि यदि चित्ते करुणा न जायेत तर्ह्यस्मादृशा जडा निष्ठुराः संवेदनशून्याश्चाऽन्ये के स्युः ? नाऽऽर्यत्वेन स्वान् ख्यापयितुं योग्या वयम् ।
यस्मिन् देशे जना अपघातेन पीडितान् प्राणिनोऽपि त्रायन्ते, जातस्य बालकस्य यदि माता मृत्युमाप्नुयात्तर्हि तद्बालकस्याऽपि पोषणं कुर्वन्ति, मकरसङ्क्रान्तिपर्वदिने दवरकैः छिन्नाङ्गानां पक्षिणां रक्षार्थं चिकित्सार्थं च बहवो युवानो धावन्ति, तस्मिन्नेव देशेऽद्यैतादृशी दयनीया स्थितिर्वर्तते ? भारतदेशे पूज्यानां वृद्धानां कृते सर्वत्र वृद्धाश्रमः, अनाथजनानां कृतेऽनाथाश्रमः, भिक्षुकाणां कृते भोजनालयः (सदाव्रतम्), असुरक्षितप्राणिनां कृते च प्राणिरक्षाकेन्द्रम् (पांजरापोल) विद्यते । कीट-मत्कोट-कुक्कुरचटकादीनां जीवानां कृतेऽपि रक्षास्थानमस्ति । एवमस्यां भुवि जातानां सर्वेषामपि जीवानां कृते आश्रयस्थानं वर्तते, यत्र देशे तद्देशे एव मार्गस्योपरि पतितं मानवशवमुपेक्ष्यते ? एतत्तु महदाश्चर्यमस्ति ।
७६
Page #84
--------------------------------------------------------------------------
________________
न कोऽपि जनस्तस्य शवस्य समीपं गन्तुमना आसीत् ! न कोऽपि तं शवं स्वच्छस्थानेऽप्यानेतुं प्रयतते स्म ! न कोऽपि तस्य स्नेहिजनाः के स्यु'रिति अन्वेष्टुं प्रायतत ! अन्ते, न च कोऽपि श्वभिः काकैश्च भक्ष्यमाणं शवं निरीक्ष्याऽपि तस्य शवस्याऽन्तिमक्रियां विधातुं सन्नद्धोऽभवत् !
किं वयमार्यजना उताऽनार्यजनाः ? किमस्माकं देहेष्वपि रक्तमिश्रणं जातमनार्यजनानाम् ? एते संस्कारा नाऽऽर्याणां, किन्त्वनार्याणां सन्ति । अस्माकं देशे यथा खाद्य-पेय-वस्त्र-अद्यतनसाधनेत्यादीनि सर्वाण्यपि वस्तूनि विदेशत आयान्ति तथैव किं क्रूरता-हिंसा-निष्करुणेत्यादयः कुसंस्कारा अपि आनीयन्ते ? शिक्षणस्य विकासस्य च व्याजेनाऽस्माभिः सर्वतः कुसंस्कारा एव गृह्यन्ते । आर्यजनाः संवेदनशून्याः संस्कारविहीनाश्च स्युः - इत्येकमेवाऽनार्याणां लक्ष्यमस्ति, तल्लक्ष्यं सम्मुखीभूयाऽस्माभिः सिद्धं क्रियते ।
वयमनुकरणशीलाः स्मः । अद्य चलचित्र-केश-वस्त्र-उपानद्-देहविषयिक्यो या या नूत्ना अभिरुचयो दृश्यन्तेऽस्माभिः ताः सर्वा अप्यभिरुचयोऽनुत्रियन्ते । एवमनुकरणशीलस्वभावादस्माभिः परदेशीयाः संस्कारनाशिकाः सर्वा अपि प्रणाल्य सानन्दं गृहीताः । किन्त्वाश्चर्यं त्वेतद् यदस्माभिः परदेशीयानामनुशासनं प्रामाणिकता नीतिमत्ता चेत्यादयः सत्संस्कारा न कदाऽपि स्वीकृताः । किं वयं बुद्धिहीनाः स्म: ?-इति भ्रमणोत्पद्यते । परदेशे तु प्रतिदिनमेवं भवति - कोऽपि जनो मृतः, अपघातो जातश्चेति निरीक्ष्याऽपि सर्वे जना उपेक्षन्ते । तत्र केवलं स्वस्यैव चिन्तां कुर्वन्ति सर्वेऽपि जना यतस्ते संवेदनशून्या एव भवन्ति । एषा संवेदनबधिरता आर्यदेशीयगुणहासस्य कारणं भवति ।
पूर्वमेकवर्षीयो बालकोऽपि पूज्यजनान् सेवते स्म, सन्मानयति स्म च । अद्य लघुवयस्को बालक एव पूज्यजनान् त्रासयति, मारयति, अवमानयति च । पूर्वं कीट-मत्कोटानां हनने पापं मन्यते स्म । अद्य सर्वेऽपि जना गृह-देह-शुद्ध्यर्थं देहपुष्ट्यर्थं च प्राणिघातकान्यौषधान्युपयुञ्जन्ति अद्यतनशृङ्गारसाधनानि च सेवन्ते । क्रोधाविष्टो बालकः स्वकीयभ्रातरं भगिनी चाऽपि हन्ति । एतदेव सूचयति - वयं कियन्तः संवेदनबधिरा जाताः ।
किं नाम संवेदना ? यस्य कस्यचिदपि दुःखं संवीक्ष्य हृदि वेदना, चित्ते च करुणा जायते, इति । संवेदना स्वकीयं परकीयं चेति भेदं न पश्यति, एष भेदस्तु स्वार्थ इत्युच्यते । संवेदना तु स्वार्थविरोधी भावोऽस्ति । यत्र संवेदना तत्र न स्वार्थः, यत्र स्वार्थस्तत्र न संवेदना, इति सूत्रमस्ति । वयं सर्वेऽपि न संवेदनशीला अपि तु स्वार्थयुता एव स्मः । ततः सर्वोऽपि व्यवहारः स्वार्थपर एवाऽस्माभिः क्रियते, किन्त्वेतन्नोचितमस्ति । तत्राऽपि मृतकेन सहैष व्यवहारस्तु नितरामशोभनीयोऽस्ति । यो जीवः सर्वमपि स्नेहिजनं विहायाऽपरस्मिन् लोके गतवानस्ति, तादृशं प्राणशून्यदेहं दृष्ट्वाऽपि यदि चित्ते वेदना न भवेत्तर्हि अस्मासु मानवताऽप्यस्ति न वेति प्रश्नो भवति ।
अन्ते, एतदरण्यरुदनमस्ति, इत्यहं जानामि, तथाऽपि केवलं मम मनोवेदना प्रकटीकृता ।
७७
Page #85
--------------------------------------------------------------------------
________________
व्यङ्गयकथा
मिश्रणम्
-- मुनिकल्याणकीर्तिविजयः
भवता पद्मश्री-पण्डितवर्य-आलोकराममहोदयस्य नाम तु श्रुतचरमेव ननु ? को वा आलोकरामः ?
भो भद्रपुरुष ! कीदृशान् प्रश्नान् पृच्छति भवान् ! आलोकरामसदृशो विद्वान् भवता न ज्ञातस्तर्हि भवतो जीवनं व्यर्थम् । एतावत्यल्पवयस्येव सार्धं शतद्वयं पुस्तकानां लिखितमस्ति तेन । समग्रसाहित्यजगत्येव तस्य नाम सादरं ससम्मानं च समुच्चार्यते । एतादृशं सारस्वतं विद्वांसमपि यदि भवान् न जानीयात् तदा भवतो ज्ञानं तु व्यर्थमेव !!
नूनं साहित्यपर्वतस्य शिखरे विराजमान आलोकरामस्तथा शोभते यथा श्रीकृष्णस्य किरीटे मयूरपिच्छम् ! पातशाहे: अकब्बरस्येव तस्याऽऽस्थान्यपि सर्वदा पार्षदैराकीर्णैव भवति । इदानीमपि बहवस्तत्रोपविष्टाः सन्ति । एकेनोक्तं -
'महोदय ! भवता लिखितं नूतनमुपन्यासं पठित्वाऽहं सर्वथाऽभिभूतो जातः । आरात्रि मम निद्रा नैवाऽऽगता । कीदृशं रोचकं वर्णनं कृतमस्ति भवता ! आ...हा...हा...हा.....!!'' . तदाऽन्येन पूर्तिः कृता – 'भोः ! पण्डितवर्यस्तु पण्डितवर्य एव । तस्य तुलां प्राप्तः साहित्यकारस्तु न कोऽप्यस्ति प्रपञ्चेऽस्मिन्, न वा भूतो न वा भविष्यति !!' ।
परित उपविष्टाः सर्वेऽपि तद्वचांस्यनुमोदितवन्तः । तावतैव द्वारघण्टिका वादिता । कश्चनोत्थाय द्वारोद्घाटनार्थं धावितः । प्रतिनिवृत्तः स स्वहस्तस्थमेकं परिचयपत्रं पण्डितवर्याय ददानोऽवदत् - 'महोदय ! केनेडादेशात् कश्चन विदेशीयो भवतः साक्षात्कारार्थमागतोऽस्ति' । आलोकरामेण तीक्ष्णदृष्ट्या परिचयपत्रं विलोक्योच्चैः कथितं - 'रिचार्ड ए. विलियम्स, संस्कृत-स्फोलर फ्रोम केनेडा !,' तत इङ्गितेन तमन्तरानेतुं ज्ञापितम् ।
७८
Page #86
--------------------------------------------------------------------------
________________
रिचार्डः पण्डितवर्यसमीपमागत्य सपादस्पर्शं प्रणामं कृतवान् शुद्धया च संस्कृतगिरा कथितवान् - 'अपि पण्डितमहोदयाः कुशलिनः सन्ति वा ?'
'कश्चन वैदेशिको विद्वान् सर्वेषां समक्षं मामेवं सम्मानयति' इति विलोक्य आलोकरामस्य शिरो गर्वेणोन्नतं जातम् । सोत्साहं सोऽवदत् - 'यस्, आई एम फाइन प्लीझ टेक योर सीट' ।
रिचार्डस्तु 'बहवो धन्यवादा:' इत्युक्त्वा सोफासनोपर्युपविष्टः ।
'पण्डितवर्याः ! मम विषये भवद्भ्यः साश्चर्यमानन्दो भवेत्, यतोऽहं केनेडाविश्वविद्यालये विद्यार्थिभ्यः संस्कृतभाषामध्यापयामि । भारतस्य संस्कृति संस्कृतभाषां चाऽत्यधिकं प्रीणाम्यहं तत् प्रेम च शब्दैर्वर्णयितुं न समर्थोऽहम्' ।
संस्कृतसम्भाषणे तस्य प्रभुत्वं वीक्ष्य सपण्डितवर्यं सर्वेऽपि विस्मिता जाता: ।
पण्डितवर्येण पृष्टं - 'बाय द वे, कृपया ज्ञापयतु मां यत्, भवान् संस्कृतलेंग्वेजमधिकृत्य विशेषतः किंविषयकं रिसर्च् करोति ?'
-
'अद्यत्वेऽहं संस्कृतभाषायां मिश्रितानन्यभाषीयशब्दानधिकृत्य संशोधनं कर्तुं प्रवृत्तोऽस्मि । अहं ज्ञातुमिच्छामि यत्, भारतदेशे संस्कृतभाषाया लेखने सम्भाषणे चेदं मिश्रणं कियदस्तीति, तथा किं सामान्या जना एवैतादृशीं मिश्रभाषां प्रयुञ्जन्ते उत सुशिक्षिता विद्वांसश्चाऽपि तथा भाषन्ते ?'
आलोकराम एतच्छ्रुत्वाऽतीव हृष्टोऽभवत् सोल्लासं चाऽवदत् - 'वंडरफुल्, वंडरफुल्, रिसर्च् -कृतेऽयं सर्वथा नूतन: सब्जेक्ट् अस्ति सहैव वेरी इन्ट्रेस्टिंग् !!'
रिचार्डः सनम्रत्वमुक्तवान् 'धन्यवादा महोदयाः ! मया चितः संशोधनविषयो भवतामुचितः प्रतिभात इत्येतदर्थं कृतज्ञोऽस्मि । तथा मन्येऽहं यदत्र संशोधनकार्ये भवताममूल्य: सहयोगोऽपि मया प्राप्स्यते' इति ।
-
‘श्योर् श्योर् मि.विलियम्स् ! भवतो हेल्पकरणे ममाऽतीव हर्षो भविष्यति । यू सी आई वि वेरी हेप्पी । परं रियालिटी त्वियं यदयं युगः एडल्ट्रेशन (मिश्रण) स्याऽस्ति । न कैवलं इण्डिया - मध्येऽपि तु वर्ल्ड- अप्येतत्प्रोब्लेम् - युतं सञ्जातमस्ति' ।
‘तत् तु सर्वत्राऽस्त्येव । परन्तु व्यवहारभाषायां यद्यन्यासां भाषाणां बहवः शब्दा बहुश: प्रयुज्येरन् तदा संस्कृताभिमानिनां चिन्ता भवत्येव खलु !'
रिचार्डोऽवदत् । तस्य वचांसि चिन्तापूर्णान्यासन् ।
'यू आर् राइट् मि. विलियम्स् ! किन्तु एडल्ट्रेशन इदं न केवलं लेंग्वेज् - क्षेत्रे लिमिटेड् अपि तु एवरीव्हेर दृश्यते । क्लासिकल म्युझिक, डान्सिंग्, पोलिटिक्स् वा, रिलिजियन् वा, एकमपि प्लेस्
-
७९
Page #87
--------------------------------------------------------------------------
________________
एडल्ट्रेशन्-पोल्युशन्रहितं नास्ति' - सोपहासमिव पण्डितवर्योऽवदत् । 'किं बहुना ? नोट ओन्ली मिल्क् अपि तु प्योर वोटर् अपि कुत्राऽपि नोपलभ्यते', 'हा...हा...हा...!' ।।
_ 'किन्तु, एतादृश्याः प्रवृत्त्या रोधने केचनोपायास्त्वन्वेषणीया एव ननु !' – रिचार्डः कथितवान् । तच्छ्रुत्वाऽऽलोकरामोऽक्षिणी निमील्य विचारणं कृतवान्, सहसा च किञ्चित् परमं ज्ञानं स्फुरितमिव कथितवान् - 'यावद्धि एज्युकेशन्-सिस्टम्मध्ये चेन्जिस् न क्रियन्ते तावत् न किमपि पोसिबल् अस्ति' । ___ 'अहं तु मन्ये यद् भवादृशा भाषाविदस्तदनुयायिनश्च यावत् प्रदूषणमिदं विरुध्य विरोधाभियानं न कुर्युस्तावत् तु न किमपि सेत्स्यति' । तत उत्तिष्ठता रिचार्डेन साञ्जलि कथितं – 'पुनरपि यथानुकूल्यं पूर्वमेव ज्ञापयित्वा भवत्पाबें आगमिष्याम्यहं, यतोऽत्र सन्दर्भे इतोऽपि बहवः प्रश्नाः सन्ति मम, येषां निराकरणं स्वल्पकालीने मेलने नैव सम्भवेत्' ।
'अरे भवान् एपोइन्टमेन्ट् गृहीत्वाऽवश्यमागच्छतु । परन्तु रिचार्ड ! लेट मी टेल् यू - भवान् इयत् परफेक्ट संस्कृतं वदति यत् आई वन्डर् अ लोट् !!', पण्डितवर्योऽवक् ।
'आश्चर्यं तु ममाऽपि भवति महोदयाः ! यद् भवन्तः संस्कृतभाषायामियतः आङ्ग्लभाषाशब्दान् कथं सरलतया मेलयन्तीति ?' रिचार्डः पृष्टवान् ।
'एतस्य रिझन् तु इदं यत्, अस्माकं इण्डियन्-जनानां फेवरिट डिश् अस्ति - खिचडी !!' - आलोकरामः सस्मितमुक्तवान् ।
'भवतु भवतु, किन्तु यदाऽऽवां पुनर्मिलावस्तदा मां खिचडी-इत्यस्याऽऽङ्ग्लपर्यायं कथयन्तु' इत्युक्त्वा सहासं रिचार्ड: निर्गतः ।।
हिन्दीमूलम् - गिरिराजशरण-अग्रवालः
गूर्जरानुवादः - आशा-वीरेन्द्रः
Page #88
--------------------------------------------------------------------------
________________
कथा
उपायनम्
- मुनिधर्मकीर्तिविजयः
जन्मदिनमहोत्सवं समाप्तीकृत्य रीवया महती कर्गजपेटिकोद्घाटिता । तत्पेटिकातो रमणीयाऽतिसुन्दरा च पुत्तलिका निर्गता । तस्या रक्तवर्णीयं वस्त्रं, रक्तौ औष्ठी, श्वेतं वदनं, नीलवर्णे नयने, सुवर्णमयाः केशाः - इत्येतत् सर्वं सा पुनः पुनर्दृष्टवती, तथाऽपि किं दृष्टमात्रेणैव सन्तोषो भवति खलु ! सा तु पुत्तलिकां वारं वारं दृढमालिङ्गितवती । तत्पश्चात् पुत्तलिकाया मश्रुणोदरस्योपरि पुनः पुनर्हस्तौ स्पृष्टवती सा । अहो ! 'एषा तु वदत्यपि !' इत्युक्तवती साऽतीव प्रसन्ना जाता ।
दिनद्वये एव सा पुत्तलिका तु मौनं धृतवती । ततस्तया रीवया तामाह्वयितुं तस्या उदरं पुनः पुनर्विमर्दितम् । क्षणान्तरं तस्या उदरं विदीर्णं जातम् । अन्त्राणि बहिरागच्छन्तीव शब्दमुद्रिका बहिर्निगता । सा तु बालरोगनिष्णातचिकित्सक इव पुत्तलिकायाः समीकरणं कुर्वत्यासीत् ।
___एतत् सर्वमपि रीवाया बालचेष्टितं तज्जनकः पश्यन्नासीत् । स उक्तवान् – 'रीवे ! अलमेतया । सा तु कृत्रिमाऽस्ति । कृत्रिमं वस्तु दर्शने एव रमणीयं स्यात्, किन्तु तच्चिरस्थायि न स्यात् कदाऽपि' ।
रीवाया जनन्यवसरं प्राप्याऽवोचत् – 'कृत्रिमं वस्तु न दीर्घकालीनं भवति । अल्पमूल्यमेतत् क्रीडनकं भवदीयभगिन्यैव दत्तम् । कस्मैचिदपि यत्किमपि उपायनं देयं स्यात्तर्हि श्रेष्ठमेव देयम्, अन्यथा नैव देयम्इत्येष व्यवहार एवोचितोऽस्ति' ।
कानिचिद् दिनानि ससुखं व्यतीतानि । एकदा सा रीवा यदा शालायाः प्रतिनिवर्तमानाऽऽसीत् तदा तस्या जननी स्वसख्या सह चर्चा कुर्वत्यासीत् – “विवाहप्रसङ्गे न केषाञ्चिदपि रूप्यकाणि स्वीकरिष्यन्ते' इत्युद्घोषितं तैः, तथाऽपि न कृतो विरोध उपायनग्रहणस्य । अतः किमपि लघूपायनं वयं दास्यामः । अन्यथा किं करणीयम् ?'
'सत्यं, तथाऽपि किं देयम् ?' इति सख्या व्यथा व्यक्तीकृता ।
Page #89
--------------------------------------------------------------------------
________________
'रे ! कृत्रिमं क्रीडनकम् ! 'Made in China', इत्युल्लेखितानि बहूनि वस्तूनि प्राप्यन्ते' इत्युवाच रीवाजननी ।
I
तत्क्षणमेवाऽपवरके प्रविशन्ती रीवाऽवोचत् - 'मातर् ! मैवं करणीयम् । कस्मैचिदपि यत्किमप्युपायनं देयं स्यात्तदा सर्वश्रेष्ठमेव देयम्, अन्यथा न देयम्' इति ।
"
Xx
८२
Page #90
--------------------------------------------------------------------------
________________
कथा
विश्लानि संस्कारमूल्यानि
__- मुनिअक्षयरत्नविजयः
(१) दुर्लभं मानुष्यम् मानवजीवनस्य मूल्यमनल्पमस्ति । यतो मानवजन्म दुःखेन लभ्यते । जैनशास्त्रकर्ता पूर्वधरमहर्षिर्भगवानुमास्वातिर्मानवजीवनस्याऽनल्पं मूल्यं दर्शयति प्रशमरतिग्रन्थमध्ये 'भवकोटिभिरसुलभं मानुष्यम्' इत्यनेन सूक्तेन ।
उत्तमं द्रव्यं यदि प्राप्यते, तर्हि तस्योपयोगेनाऽपि उत्तमेनैव भवितव्यम् । अतो प्रशस्यतमं मनुष्यजन्म प्राप्य तस्योपयोगोऽपि मोक्षसाधनादिभिः शोभनतया कर्तव्यः । परन्तु, अस्मिन् युगे जनैस्तस्योपयोगो भोगतृष्णापूर्त्यर्थं धनप्राप्त्यर्थं चाऽधिकं क्रियते ।
जगत अस्या मनःस्थितेः परिवर्तनाय रशियादेशीयः 'टोल्स्टोयः' इति नामकश्चिन्तकः प्रेरणास्पदा कथामालिखति -
एकदा नगरस्य राजा तस्मै पुरुषायैकमभीष्टं वरं दत्तवान् । स्वभावतो लोभी स जनो यथावरं द्वितीयदिने सूर्योदयादारभ्य निश्चितरेखाबिन्दोरधावत् । सूर्यास्तपर्यन्तं वर्तुलाकारेण यावत्सु क्षेत्रेषु स धावेत्, तावतः क्षेत्रस्य स्वामितां तेन प्राप्येत, इति वरदानं राज्ञा तस्मै दत्तमासीत् ।
मध्याह्नपर्यन्तं स लोभी जनः सरलायामेनाऽधावत् । निरन्तरं द्रुतगत्या स क्लान्तोऽभवत् । मनाग् विरामेण स पुनः वर्तुलाकारेण रेखाबिन्दुं प्रत्यधावत् । परमधुना सूर्योऽतितप्त आसीत् । निरन्तरं गमनेन तस्य शरीरशक्तिरपि क्षीणा सञ्जाता । तथाऽपि लोभेन स सततमधावत् । सूर्यास्तसमयोऽत्यल्पः शिष्ट आसीत्, तदा स लोभी निश्चितरेखाबिन्दोरतिदूरस्थ आसीत् । अतो नेत्रे निमील्य शक्तिहीनोऽपि सोऽतिद्रुतगत्याऽधावत् । अतस्तस्य प्राणगतिरतिशीघ्रा सञ्जाता । सूर्यास्तसमये सति महाकष्टेन निश्चितरेखाबिन्दु स्पृष्ट्वा स जनो दण्डवत् भूमौ पतितवान् ।
Page #91
--------------------------------------------------------------------------
________________
कानिचित् क्षणानि व्यतीतानि, तथाऽपि स नोत्थितवान् । अतस्तं पुरस्कर्तुं तत्राऽऽगतेन राज्ञा उक्तम् - "भोः ! उत्तिष्ठ, पश्य त्वया बहूनां क्षेत्राणां स्वामित्वं प्राप्तमस्ति । स्वीकुरु महायँ सन्मानमिदम् ।"
परं स लोभी जनो नोत्थिवान् । यत आदिनमतिपरिश्रमात् तस्य जीवनं तदा समाप्तं जातमासीत् । तस्मिन् दिने तेन बहूनां क्षेत्राणां स्वामित्वं प्राप्तम्, परमन्तिमसमये तस्योपयोगे देहमितं क्षेत्रमेवाऽऽगतम् । ___ इयं कथाऽस्मान् शितधारं प्रश्नं पृच्छति – वयमाजीवनं धनक्षेत्रादिप्राप्त्यर्थं संसारसुखप्राप्त्यर्थं च प्रयासरताः स्मः, तत् सर्वं किमर्थम् ? देहमितं क्षेत्रार्थमेव ननु, अन्यद् वा किञ्चित् ? इदं दुर्लभं मानुष्यमेतेभ्योऽसारपदार्थेभ्य एव व्ययीकर्तव्यमस्ति किम् ? ।
(२) सुखस्य रहस्यम् ___एकश्चिन्तकः कस्यचिन्नृपस्य समीपं गतः । तन्मनसि एकः प्रश्न आसीत् । तं समाधातुं स राज्ञः पार्वे समागत आसीत् । नृपस्याऽनुज्ञां प्राप्य स पृष्टवान् – “राजन् ! भवतो जीवनं नित्यं सुखपूर्ण दृश्यते । अहं तस्य कारणं ज्ञातुमिच्छामि ।" .
राजाऽपि महाँश्चिन्तक आसीत् । स कथितवान् – “उत्तरं भाविकाले प्राप्तव्यम् । अधुना एकं कार्य कर्तव्यम् । राजप्रासादस्य बहिभूमौ स्थिस्य वृक्षस्य नीचैस्त्वमुपविश । यदा वृक्षः शुष्कीभविष्यति - पर्णविहीनो भविष्यति, तदा उत्तरं दास्यामि ।
चिन्तको वृक्षस्य नीचैरुपविष्टः । वृक्षः कदा शुष्को भवेदिति चिन्तनं तेन प्रारब्धम् । नैके दिवसा व्यतीताः । दिवानिशं स एवमेव चिन्तयति – 'हे वृक्ष ! त्वं झटिति शुष्कतां याहि ।' निरन्तरं स वृक्षार्थं चिन्तयति – 'वृक्षस्य कतिपयपर्णानि पीतवर्णानि अभवन् । कतिपयपर्णानि च पतितानी'ति । एवं षड्मासा व्यतीताः । अशेषवृक्षः पर्णहीनतामयात् । अतश्चिन्तको राज्ञः पार्वे गतः, उक्तवांश्च – “राजन् ! वृक्षः शुष्कतामयात् । अत्रान्तरे षड्मासाः सञ्जाताः । अतो भवान् सुखस्य रहस्यं कथयतु ।
राजा सस्मितमुक्तवान् – “भोः ! काञ्चिदधिकां प्रतीक्षां कुरु । स वृक्षः पुनर्भव्यतां प्राप्नुयात्, तदा नूनमुत्तरं दास्यामि ।"
चिन्तक उत्तरप्राप्तये दृढमतिरासीत् । अतः पुनः स वृक्षस्य नीचैरुपविष्टवान् । मनसि सोऽविरामेण चिन्तयति स्म – 'हे वृक्ष ! त्वं पर्णफलयुक्तो भव । झटिति भव्यतां भज ।'
षड्भिर्मासैर्वृक्षः पर्णफलयुक्तोऽभवत् । अतश्चिन्तको राज्ञः समीपं गतः । चिन्तकेन राजा कथितः - "राजन् ! वृक्षः पुनर्भव्यतामाप्नोत् । अत्रान्तरेऽपि षड्मासा व्यतीताः । अथ उत्तरं देहि - भवान् केन कारणेन सुखी दृश्यते ?"
"उत्तरं तु मया दत्तम, त्वया न प्राप्तम् ?" - राज्ञा सस्मितं पृष्टम् ।
८४
Page #92
--------------------------------------------------------------------------
________________
"न, भवता कदा उत्तरं दत्तम् ? " चिन्तकः साश्चर्यमुक्तवान् ।
" तर्हि शृणु, पूर्वं षण्मासपर्यन्तं त्वया वृक्षस्याऽध उपविश्य निरन्तरं चिन्त्यते स्म - 'हे वृक्ष ! त्वं शुष्को भव, पर्णविहीनो भव' इति । तव निरन्तरविचारबलाद् वृक्षः शुष्कतामयात् । पश्चात् षण्मासपर्यन्तं त्वया दिवानिशं चिन्तितम् – 'हे वृक्ष ! त्वं पूर्णतां प्राप्नुहि । फलवान् पर्णवान् भव' इति । तव शुभेच्छासद्भावबलाद् वृक्ष: पुनर्भव्यतामाप्नोत् ।
अहं सुखपूर्णोऽस्मि, तत्राऽपि इदमेव कारणमस्ति । अहं सर्वेभ्य आशीर्वादान् गृह्णामि । सर्वेषां कृपा प्राप्येत, ईदृशानि कार्याणि मया नित्यं क्रियन्ते । तैः सत्कार्यैः सर्वेषां सद्भावः मया लभ्यते, तथा चाऽहं सुखी अस्मि । देवगुरूणां महतां जनानां च कृपया, अन्येषां च सर्वेषामस्मान् प्रति सद्भावेनैव जीवनं सुखमयं भवति तत् कदाऽपि न विस्मर्तव्यम् ।" राजा तत्त्वमुक्तवान् ।
राज्ञो जीवनस्य सुखरहस्यं श्रुत्वा चिन्तकेनाऽपि नवं विशिष्टं चिन्तनं लब्धम् । (३) विस्मयदमौदार्यम्
यस्य नाम्ना 'विक्रमसंवत्' इति व्यवहारे प्रसिद्धोऽस्ति, तस्य वीरविक्रमनृपस्याऽयं प्रसङ्गोऽस्ति । एकदा विक्रमराजो लवणसमुद्राधिष्ठायक-सुस्थितदेवस्य पूजनार्थं स्वस्य पुरोहितं प्रेषितवान् । पुरोहित: सुस्थितदेवस्य प्रसन्नतायै अष्टमतपः कृतवान् । अतो देवोऽतिप्रसन्नः सञ्जातः ।
देवेन विक्रमराजस्य प्रशस्ति कृत्वा उपहाररूपेण चत्वारि रत्नानि पुरोहितायाऽदीयन्त । रत्नानां फलमपि कथितम् -
अभीष्टधनदमाद्यं, द्वितीयं भोज्यदं तथा ।
तृतीयं सैन्यदं तुर्यं सर्वभूषणदायकम् ॥ इति ।
अतः सर्वरत्नानि बहुमूल्यानि आसन् ।
पुरोहितो राज्ञः पार्श्वे आगत्य सर्वरत्नानि नृपाय दत्तवान् तेषाञ्च फलान्यपि कथितवान् । तदा विक्रमनृपः प्राह " पुरोहित ! त्वं साधनां कृतवान्, तत इमानि रत्नानि वयं प्राप्तवन्तः स्म । तत एतेभ्योऽन्यतमद् रत्नं त्वमपि गृहाण ।"
-
नृपस्याऽतिनिर्बन्धात् पुरोहित एकं रत्नं स्वीकृतवान् । परं कीदृशं रत्नं ग्रहणीयमिति विषये स मूढतां प्राप्तवान् । पुरोहितोऽस्मिन् विषये विचारणार्थं सर्वरत्नानि गृहीत्वा गृहं गतः । तेन स्वजनेभ्यः सर्ववृत्तान्तः कथितः । अनुचिन्तनं स्वस्मै प्रथमं रत्नं ( धनदं) रुचितम्, पल्यै द्वितीयं रत्नं ( भोज्यदं) रुचितम्, पुत्राय तृतीयं रत्नं (सैन्यदं) रुचितम्, पुत्रवध्वै च तुरीयं रत्नं (सर्वभूषणदं ) रुचितम् । अतः कलहभयात् पुरोहितो राज्ञः पार्श्वे आगतः । सर्ववृत्तान्तं कथयित्वा पुरोहितः सर्वरत्नानां प्रत्यर्पणं कृतवान् ।
८५
Page #93
--------------------------------------------------------------------------
________________
विक्रमराजः सद्य उक्तवान् गृहीत्वा सुखेन गृहं प्रति गच्छ ।”
-
" मित्र ! क्लेशभयात् सर्वरत्नानां प्रत्यर्पणं न कर्तव्यम्, त्वं सर्वरत्नानि
स्तब्धलोचनः पुरोहितो विस्मयेन विक्रमनृपं दृष्टवान् । तस्याऽन्तःकरणं तदा कथयति स्म - कस्तेन तुल्यो भुवि विक्रमार्क !, त्वया परः स्याच्च परोपकारे ॥
(४) प्रामाणिकतायाः स्पर्शः
कस्यचिन्महानगरस्य मार्गस्योपरि एकं 'कार्' यानं द्रुतगत्या नियमविरुद्धं गच्छति स्म । तथे आरक्षकेण यानमवरुद्धम् । आरक्षकः स्वस्य पत्रे यानचालिकाया महिलाया नामस्थानादिपरिचयं लेखितुमारब्धवान् ।
महिला क्रोधेनोक्तवती - " श्रीमन् ! प्रथमं ज्ञातव्यम्, अत्रस्थो नगरपालो मम मित्रमस्ति । " आरक्षकेण लेखनं यथापूर्वं कृतम्, तेन महिलाया वार्ता न श्रुता ।
महिला पुनरुक्तवती – “भोः ! अत्रस्थ आरक्षकाध्यक्षोऽपि मम स्वजनोऽस्ति ।" परमारक्षकस्योपरि तस्या वार्ताया लेशोऽपि प्रभावो न दृष्टः । तस्य लेखनं यथापूर्वमेव प्रवृत्तम् ।
"अहमत्रस्थं न्यायाधीशमपि जानामि" महिला कथितवती ।
किन्तु, आरक्षकेण स्वकार्यं मनागपि नाऽवरुद्धम् ।
अथ महिला चीत्कारं कृतवती – “भोः ! अत्रस्थसंसदीयसचिवस्याऽप्यहं परिचिताऽस्मि । " तत्राऽन्तरे लेखनं पूर्णीकृत्य आरक्षको महिलां पृष्टवान् - "अथ कथय, त्वं समरचन्द - देवचन्दस्याऽपि परिचिताऽसि ?"
महदाश्चर्यम् !!! महिला विस्फारितनेत्राभ्यामारक्षकं दृष्टवती । 'न, मम तस्य तु मनागपि परिचय नास्ति ।
सा कथितवती
" तर्हि, तस्य परिचयस्य तु तव प्रथमं प्रयोजनमासीत्" - स आरक्षक: स्वस्य द्विचक्रयानस्योपरि उपविश्य कथितवान् – “अहं समरचन्द - देवचन्दोऽस्मि । "
-
-
सा महिला अस्याऽऽरक्षकस्योपरि मनसा क्रुद्धा सञ्जाता, इतस्तस्य प्रामाणिकतायाः स्पर्शोऽपि तस्या हृदयतले जातः । यतोऽस्मिन् युग एतादृशी प्रामाणिकता सुदुर्लभतमाऽस्ति, यया जनः कस्यचिदपि जनस्य प्रभावादलिप्तो भवेत् ।
८६
Page #94
--------------------------------------------------------------------------
________________
कथा
शठं प्रति शाठ्यम्
- सा.श्रीसौम्यप्रभाश्रीः
कस्मिंचित् ग्रामे एक श्रेष्ठी: अवसत् । एकदा तस्य गृहे पुत्रस्य विवाहप्रसङ्ग आगतः । प्रतिग्राममामन्त्रणपत्रिकाः प्रेषिताः । योग्येऽवसरे सर्वे स्वजना आगताः । प्रसङ्गोऽपि सुचारुतया सम्पन्नः । स्वजनाः सर्वे स्व-स्वस्थानं प्रतिनिवृत्ताः । तेषु स्वजनेषु तस्य चत्वारो जामातरो न गताः । आनन्देन ते तत्रैव स्थिताः ।
श्रेष्ठिना चिन्तितं - "केन उपायेन एतान् निष्कासयामि ? ननु मानहानिः क्रियताम् ! तेन ते गमिष्यन्ते।" इति विचार्य तेन गृहमध्ये स्वपल्यै अपि स उपायः कथितः - "अद्यप्रभृति भोजनमध्ये मिष्टभोजनं अपक्त्वा वज्रकूटस्य पाकः क्रियताम् ।" श्रेष्ठिन आदेशानुसारं प्रवर्तनं जातम् । तद् दृष्ट्वा विजयरामनामकः प्रथमो जामाता विचारयति – "अहो ! मानहानिः भवति मम; अत्र स्थातुं नैवोचितम् ।" द्वितीये दिने प्रत्यूषे स गतः । त्रयो जामातरस्त्वानन्देन तिष्ठन्ति विचारयन्ति च - "बहुदिनानि मिष्टं भोजनं भक्षितं, अधुना वज्रकूटः सुष्ठ भाति ।" इति विचार्य वसन्ति ते सानन्दम् । ___एतच्च श्रेष्ठिना दृष्ट्वा गृहे कथितं – "अद्यप्रभृति भोजनमध्ये घृतस्य स्थाने तिलतैलस्य परिवेषणं क्रियताम् ।" तत्पश्चात् भोजनमध्ये ईदृशं परिवर्तनं दृष्ट्वा माधवनामको द्वितीयो जामाता विचारयति - "अहो ! मानहानिर्भवति मम; अतो मयाऽत्र न स्थातव्यमिति ।" द्वितीय दिने स पलायितः ।
अधुना धृष्टौ द्वौ जामातरौ चिन्तयतः – “घृतेन सह मिष्टभोजनं बहूनि दिनानि आस्वादितम्; अधुना तैलेन सह भोजनं सुष्ठ भासते" ।
श्वशुरश्चित्ते विचारयति – "अधुना किं कर्तव्यं ? जामात्रोदिनानि लीलया निर्गच्छन्ति ।" तदा तस्योपायः प्रस्फुरितः । “रात्रौ शयनसमये यानि शयनसाधनानि दीयन्ते तानि न दीयताम् ।" तत्पश्चात् गृहमध्ये एवमेव प्रवर्तनं कारितम् । ततस्तौ भूमावानन्देन सुप्तौ । तदा तृतीयो मणिरामनामको जामाता प्रतिबुद्धः । 'अधुनाऽऽवाभ्यामत्र न स्थातव्यं' – स केशवमकथयत् । “चल्यताम्, अत्र वसनं नोचितम् ।" तथाऽपि
८७
Page #95
--------------------------------------------------------------------------
________________
सोऽकथयत् – “मम अत्रैव सुष्ठु प्रतिभाति । अतो अत्रैव वसनं योग्यम् ।" ततस्तृतीयो मणिरामो जामाता प्रातरुत्थाय कमपि विनाऽऽपृच्छ्य पलायितः ।
चतुर्थो जामाता केशवस्तु आनन्देन भूमौ स्वपिति । गमनस्य नामाऽपि न लाति । तस्य हृदये लेशमपि अरोचकता न प्रकटिता । श्वशुरस्य गृहं कथमपि न मुञ्चति ।
ईदृशं तस्य वर्तनं दृष्ट्वा श्रेष्ठी जामातरं बोधयितुं विचारयति ।
कतिपयेषु दिनेषु गतेषु एकदा पितापुत्रौ वाग्युद्धे लग्नौ । शनैः शनैर्मुष्टामुष्टि प्रारब्धम् । जामाता तौ पश्यति ; ततश्च "शान्तौ भवथः शान्तौ भवथः....!" इति कूजति ।
तत: पितापुत्रौ तमपि पद्भ्याम् ताडितवन्तौ प्रणोद्य च तं बहिर्निष्कासितवन्तौ द्वारं पिहितं च । ततः पितापुत्रौ शान्ति प्रापतुः ।
"वज्रकूटेन विजयरामः,
तिलतैलेन माधवः ।
भूशय्यया मणिरामः,
धक्कामुक्केन केशवः ॥
अयं लौकिको मार्गः ।
८८
Page #96
--------------------------------------------------------------------------
________________
कथा
गुणदृष्टिः
- सा.श्रीतत्त्वनन्दिताश्रीः
ग्रीसदेशे एको निर्धनो बालकः प्रतिदिनं वनं गत्वा काष्ठानि छिनत्ति स्म । सायङ्काले च काष्ठभारं बद्ध्वा ग्राममध्ये विक्रेतुमुपविशति स्म । एकल एव स बालकस्स्वस्य कुटुम्बस्य निर्वाहं करोति स्म । तस्य कृते स भृशं प्रयत्नं करोति स्म । ___ एकदा स बालको यत्र भारं विक्रेतुमुपविष्ट आसीत्, तेनैव मार्गेणैकः सज्जनो गच्छति स्म । तं बालकं स निरीक्षितवान् यत स बालकस्सम्यक्रीत्या काष्ठभारं बध्नाति स्म । परन्तु तेन सह स्थिता अन्यजना यथाकथमपि काष्ठभारं बध्नन्ति स्म । तेषां कियन्ति काष्ठानि भाराद् बहिनिर्गतानि, कियन्ति काष्ठानि च इतस्ततो विकीर्णानि आसन् । परं स बालकोऽतीव शोभनरीत्या, कुशलतया च भारं बध्नाति स्म ।
स सज्जनो बालकस्य पार्श्वमागच्छत्, तस्य कुशलतां दृष्ट्वा बालकेन सह यदा स सामान्यां चर्चामकरोत्, तदा तस्य बालको विशिष्टः प्रत्यभात् । ततस्सज्जनो बालकमपृच्छत् – “किमेतं दारुभारं त्वं बध्नासि" ?
तदा स आत्मप्रत्ययेन सहोत्तरं दत्तवान् “ओम्" अहमेवैतं भारं बध्नामि । ततः सज्जनोऽकथयत् यत् "एतं भारं पुनरुद्घाट्य बधान तावत् "।
बालकश्शीघ्रमेव काष्ठभारमुदघाटयत् । कुशलतया, सम्यगरीत्या च तं भारमबध्नात् । एष सज्जनोऽपि एतस्य बालकस्याऽऽत्मप्रत्ययं, कार्यकुशलतां च दृष्ट्वाऽत्यन्त प्रभावितो जातः, अचिन्तयच्च यदेष बालकस्सूक्ष्मातिसूक्ष्मं कार्यं सावधानतया कर्तुं निपुणोऽस्ति । यदि स शिक्षणं प्राप्नुयात्, तर्हि जीवने किमपि महत्त्वपूर्ण कार्यं कर्तुं समर्थो भवेत् । ततस्सज्जनो बालकमकथयत् - "वत्स ! यदि त्वं मया सह आगच्छे:, तर्हयहं त्वामध्यापयामि" ।
पिपठिषुः स बालकोऽपि सज्जनेन सह प्रसन्नतया गतः । स सज्जनोऽपि तं सूक्ष्मतया गणितविषयेऽभ्यासमकारयत् । अभ्यासं कृत्वा स बालो महान् गणितशास्त्री पायथागोरस-नामा जातः । यस्य पायथागोरसभिधः प्रमेयोऽद्यापि प्रचलितोऽस्ति । ___स सज्जनोऽपि ग्रीसदेशस्य तत्त्वचिन्तको डेमोक्रिट्स आसीत् । तस्य बालकं प्रति कीदृशो गुणानुराग औदार्यं च । एकस्मिन् सामान्ये निर्धने च बालकेऽपि गुणं दृष्ट्वा स सज्जनस्तं बालं महान्तमकरोत् । ___ ईदृशीं गुणदृष्टिं वयमप्यस्माकं जीवने साधयेम ।
Page #97
--------------------------------------------------------------------------
________________
मर्म नर्म
- कीर्तित्रयी
भोः ! मम पञ्चशतं रूप्यकाण्यावश्यकानि । भवान् ददाति वा ? यद्यपि मे प्रतिवेशी मे तानि धारयितुं सिद्ध एव, तथाऽपि.... तर्हि, तस्य सकाशादेव कुतो न गृह्णाति ? तादृशस्य सज्जनस्य मैत्र्यं नाशयितुं नेच्छामि...
- 'मम त्रयः पुत्राः सन्ति । एकश्चिकित्सकः, द्वितीयोऽधियन्ता तृतीयश्च भ्रामं भ्रामं वस्त्राणि
विक्रीणाति' । एवं वा ? तर्हि कनिष्ठस्याऽधिकं कष्टं भवेन्ननु ? आम्, द्वयोज्येष्ठभ्रात्रोरपि निर्वाहं स एव करोति !!
- . +
भवांस्तु प्रत्येकं प्रश्नस्योत्तरम् - आम्, अस्तु, एवं, भवतु - इत्येव ददाति खलु ! किं न, नहि, नैव - इत्यादिकं वक्तुं न शिक्षितो वा ? नैव भोः ॥
- भगवान् हँदम्प्राथम्येन पुरुषं सृष्टवान्, तत्पश्चाच्च स्त्रियमित्येवं किमिति खलु ? + स्वेन कर्तव्ये कार्ये कश्चन वारं वारं सूचनां दद्यात् - इति भगवतो नैवाऽभीष्टमासीदतः !!
Page #98
--------------------------------------------------------------------------
________________
- + -
एतानि स्वयंसञ्चालितानि यन्त्राणि सर्वमपि मनुष्यवत् कर्तुं समर्थानि, कार्यमेकं मुक्त्वा ! किं तत् ? कुत्रचिद् यदि स्खलनं जायेत तदा तानि तद् निह्नोतुं प्रयत्नं नैव कुर्वन्ति !
- +
भवान् हि स्वप्रतिवेशिनो विषये शुभं वदति, किन्तु स भवतोऽशुभमेव वदति ननु ! आवां द्वावपि सर्वथाऽसत्यं वदावः !!
- +
भोः ! भवान् यं श्वानं वने विहातुं गतः स तु भवदागमनात् पूर्वमेव गृहं समागतोऽस्ति । सत्यम् । किन्तु तस्याऽऽगमनं मम कृते सुखकरं सञ्जातं, यतोऽहं तस्य पृष्ठत एव गृहं प्रत्यागन्तुं शक्तो जातः !!
नेता (प्रवचने) अद्यतने युगे प्रामाणिकतां नीतिं च विना न किमपि हितकरमस्ति । अस्माभिस्तावत्कालं
प्रामाणिकैर्भवितव्यं यावत्... श्रोता (मध्ये एव) अस्माकमप्रामाणिकतामाचरितुमवसरो न प्राप्येत !!
- +
भवते मतदानादपि कस्मैचिद् गर्दभाय मतदानं मह्यमधिकं रोचेत । किन्तु भवतः प्रियः सुहृत् सोऽस्मिन् निर्वाचने नैव भागं गृहीतवान् !!
सुहृत्-१ भोः ! भ्रातृजायायाः कासः सर्वथा निर्मूलोऽभवत् खलु ! कस्य चिकित्सकस्यौषधं गृहीतं
तया ? सुहृत्-२ न कस्याऽपि चिकित्सकस्यौषधं गृहीतम् । केवलमहं तस्यै एवमुक्तवान् यत् - कासो वार्धक्यस्य
चिह्नमस्तीति । ततः स्वयमेव कासो निर्मूलोऽभवत् !!
Page #99
--------------------------------------------------------------------------
________________
प्राकृतविभागः
कलिकालसर्वज्ञ-श्रीहेमचन्दाचार्यविरचितं प्राकृतव्याश्रयं महाकाव्यम्
प्रथमः सर्गः (आर्या छन्दः)
अह पाइआहिँ भासाहिँ संसयं बहुलमारिसं तं तं । अवहरमाणं सिरि-वद्धमाण-सामि नमसामो ॥१॥ अत्थि अणहिल्ल-नगरं अन्ता-वेईसमाइ-निव-निचिअं । सत्तावीसइ-मुत्तिअ-भूसिअ-जुवइ-जण-पइ-हरयं ॥२॥ तिअस-वई-हर-वहु-मुह-आदरिसीहूय-फलिह-सिल-सिहरो । जस्सि पुहइ-वहू-मुह-अवयंसो सहइ पायारो ॥३॥ निव-सह-मुहावयंसा बिइया गुरुणो अबीय-गुण-निवहा । निवसन्ति अणेग-बुहा जस्सि पुहवीस-सलहिज्जे ॥४|| न हु अत्थि न वि अ हूअं इह लोए अइसएण जस्स समं । सुउरिस-ठाणमसूरिस-रहिअं सालाहण-पुरं पि ॥५॥ अस्सि नमन्त-सीसो तियसीसो वि हु तवं तवन्ताण । तेलुक्क-सज्जणाणं थुणइ स-भिक्खूण सद्धाए ॥६॥ जत्थोन्नय-थण-नीसह-वहु-दंसण-निस्सहं नरा जन्ति । दुसहाउ दुस्सहेणं मयणेण हयन्तरप्पाणो ||७|| तेअ-दुरालोएहिं अन्तो-उवरिं घराण रयणेहिं । छूढ व्व निरवसेसा सरिआहिव-संपया जत्थ ॥८॥
Page #100
--------------------------------------------------------------------------
________________
प्राकृतविभागः
कलिकालसर्वज्ञ-श्रीहेमचन्दाचार्यविरचितस्य प्राकृतव्याश्रयमहाकाव्यस्य संस्कृतानुसर्जनम् (संस्कृतपद्यानुवाद:)
-नरेन्द्रचन्द्र-झा
अथ प्राकृतभाषाभि-रार्षं बहुलं च संशयं तन्तम् । तं विदधतमतिदूरं प्रभुं नमामो महावीरम् ॥१॥ अस्ति ह्यणहिलनगरमन्तर्वेदीशमुख्यनृपनिचितम् । सप्ताविंशतिमौक्तिक-भूषितरमणीजनाधिपतिभवनम् ॥२॥ अमरावतीवधूमुख-मुकुरीभूतस्फटिकशिलाशिखरः । यस्मिन् क्षमाङ्गनामुख-सत्तिलकः शोभते सालः ॥३॥ नृपसममुखावतंसा असमा गुरवोऽद्वितीयगुणनिवहाः । निवसन्त्यनेकविबुधा यस्मिन् पृथिवीशसंश्लाघे ॥४॥ नैवाऽस्ति न खलु भूतं लोकेऽस्मिन्नतिशयेन यस्य समम् । सुपुरुषभूमिरसज्जनरहितञ्चाऽपि प्रतिष्ठानम् ।।५।। यस्मिन् प्रणमच्छीर्षः त्रिदशेशोऽपि हि सदा तपस्तपताम् । त्रैलोक्यसज्जनानां भक्त्या यतिनां सदा स्तौति ॥६।। यत्रोन्नतकुचनिःसहरमणीदर्शनसमुत्सुका यान्ति । लोका अतिदुःसहतो मदनेन हृदन्तरात्मानः ।।७।। अन्तरुपरि भवनानां तेजोदुर्दर्शनैर्महारत्नैः । क्षिप्ता इव निःशेषा सरिताधिपसम्पदो यत्र ॥८॥
. ९३
Page #101
--------------------------------------------------------------------------
________________
प्राकृतद्वयाश्रयमहाकाव्यम्
विज्जु-चलं महुर-गिरो. दितो लच्छि जणो छुहत्ताण । भिसओ खु जहा सरओ दिसाण पाउस - किलंताण ॥९॥ जत्थच्छरस-मण-हरो वहूहि रमिरो वि अच्छर - समाहिं । दीहाऊ वि अदीहाउस - माणी सइ विवेइ - जणो ॥१०॥ कुसुम-धणू धणुह-धरो कउहा - मुह - मंडणम्मि चंदंमि । रज्जं तमेग-छत्तं असंकमुवभुंजए जत्थ ॥११॥
रोमंच - कंटइल्लो संझाए वंक - जंपण - छइल्लो । जत्थ मणंसिल-तिलओ विलसइ अहिसारिआ - लोओ ॥१२॥ जत्थ भवणाण अवरिं देवं नागेहि विम्हया दिट्ठो । रमइ मणोसिल-गोरो मणसिल- लित्तो मयच्छ - जणो ॥ १३ ॥ पव्वेसु अपव्वेसुं जत्थ मुणीणं कमेण अकमेणं । काऊणं पडिवत्तिं हरिसं क़ाऊण देइ जणो || १४ ||
- गुणो तीस - गुणो कलि- कालो नूण जत्थ कय- - जुगओ । नूणं अणभुज्जंते लोए मासं स-मंसं व ॥१५॥
कलंकं व रयणी - रमणं कुणन्ति अकलङ्कं । हु सङ्खधर-संख-भङ्गोज्जलाओ भवणंसु-भंगीओ ॥१६॥ लङ्घिज्जइ नाऽलंघं वञ्चिज्जइ न हु अवंचणिज्जं च । वञ्छिज्जइ न वि जस्सि अवंछणिज्जं च केणाऽवि ॥ १७ ॥ वंजिअ - सत्ती सत्ती- अणजिओ सत्ति-वंझ - जण - वञ्झो । लुंटाय - लुण्टणो संठे सण्ठो जत्थ निव - लोओ ॥१८॥ उद्दंड - बाहु - दण्डा जस्सि कुंढासहा समयकुण्ढा कंतंगा कन्त-गुणा नय-पंथे पन्थि पुरिसा ॥ १९॥ चंदुजाण वं चन्दो फिअ - बंधूण बन्धवो जस्सि । अणुकंप-कम्पिअ-मणो विहवि - जणो वम्फर धम्मं ॥२०॥ लंबत - लुम्बि - रंभारम्भिय - तोरण-निरुद्ध-संरंभो । सरए वि पाउसम्म व न जत्थ दीसइ फुडो तरणी ॥ २१ ॥
९४
Page #102
--------------------------------------------------------------------------
________________
संस्कृतानुसर्जनन् विद्युच्चलां मधुरगीवितरल्लक्ष्मी जनः क्षुधार्तानाम् । प्रावृक्लिष्टदिशानां वैद्यः खलु शरद्यथा भाति ॥९॥ यत्राऽप्सरोमनोज्ञो बहुभी रन्ताऽपि तत्समानाभिः । दीर्घायुरप्यदीर्घायुर्मानी खलु विवेकी ना ॥१०॥ मदनः कार्मुकधारी दिगङ्गनावदनमण्डने चन्द्रे । एकातपत्रराज्यमुपभुङ्क्ते यत्र निःशङ्कम् ॥११॥ रोमाञ्चकण्टकाक्तः सन्ध्यायां वक्रजल्पनच्छेकः । 'विहितमनःशिलतिलको विलसत्यभिसारिकालोकः ॥१२॥ यत्रोपरि भवनानाममरै गैश्च विस्मयाद् दृष्टाः । मनःशिलागौराङ्गस्तल्लिप्ताश्च मृगाक्ष्यस्ताः ॥१३॥ पर्वापर्वसमानं यत्र मुनिभ्यः क्रमेण युगपद्वा । प्रविधाय च प्रतिपत्ति सुवदान्यो ददाति हर्षेण ॥१४॥ पञ्चाशद्गुणबहुलः कृतयुगतो यत्र भाति कलिकालः । नूनमनश्नति लोके लोके मांसं स्वमांसमिव ॥१५।। यस्मिन् कलङ्ककलितं विदधति चन्द्रं कलङ्कविनिवृत्तम् । शङ्खच्छेदवलक्षा भवनांशूनां चमत्काराः ॥१६।। न वाञ्छ्यतेऽपि यस्मिन् अवाञ्छनीयं जनेन केनाऽपि । न लध्यतेऽप्यलयं कोऽपि च नो वञ्च्यतेऽवञ्च्यः ॥१७॥ व्यञ्जितशक्तिश्चाऽगतशक्तिः खलु शक्तिवध्यजनवध्यः । मायाविनि मायावी नृपलोको यत्र चाऽऽभाति ॥१८॥ उद्दण्डबाहुदण्डा यस्मिन् कुण्ठासहाः स्वतोऽकुण्ठाः । रमणीयगुणावयवा नयमार्गे पूरुषाः पान्थाः ॥१९॥ . कुमुदानामिव चन्द्रः काशितबन्धुः स्वबान्धवो यस्मिन् । करुणाकम्पितचेता विभविजनः काश्ते धर्मम् ॥२०॥ फलभारानतरम्भापादिततोरणनिरुद्धसंरुद्धः । प्रावृषि यथा शरद्यपि भानुर्यत्र स्फुटो न वै दृष्टः ॥२१॥
Page #103
--------------------------------------------------------------------------
________________
प्राकृतघ्याश्रयमहाकाव्यन्
जत्थ चुलुक्क-निवाणं परिमल-जम्मो जसो कुसुम-दामं । नहमिव सव्व-गओ दिस-रमणीण सिराइ सुरहेइ ॥२२॥ सव्व-वयाणं मज्झिम-वयं व सुमणाण जाइ-सुमणं व । सम्माण मुत्ति-सम्मं व पुहइ-नयराण जं सेयं ।।२३।। चम्मं जाण न अच्छी णाणं अच्छीई ताण वि मुणीण । विअसन्ति जत्थ नयणा किं पुण अन्नाण नयणाई ॥२४॥ गुरुणो वयणा वयणाइँ ताव माहप्पमवि य माहप्पो । ताव गुणाई पि गुणा जाव न जस्सि बुहे निअइ ॥२५॥ हरि-हर-विहिणो देवा जत्थन्नाइँ वि वसन्ति देवाइं । एयाए महिमाए हरिओ महिमा सुर-पुरीए ॥२६।। । जत्थञ्जलिणा कणयं रयणाइँ वि अंजलीइ देइ जणो । कणय-निही अक्खीणो रयण-निही अक्खया तह वि ॥२७|| तत्थ सिरि-कुमर-वालो बाहाए सव्वओ वि धरिअ-धरो । सुपरिट्ठ-परीवारो सुपट्ठो आसि राइंदो ॥२८॥ तुह आणा-ओमालं सिरम्मि धरिमो जहा अणिम्मल्लं । अम्हे एत्थाऽम्हेत्थ य इअ भणिउं जो निवेहि नओ ॥२९॥ तुह हरि-पिआ जइ इमा किं पि पिआ किमवि मेइणी जइमा । ता कि ति मए त्ति रुसेव जस्स कित्ती गया दूरं ॥३०॥ जो दूसासण-रिउणो आसत्थामस्स राम-सीसस्स । वीसामिअ-जस-पसरो स-जसेणं कासवि-तलम्मि ॥३१॥ वीसुं वासा-नीसित्त-महि-अले ऊस-मालि-तेअस्स । रज्जे जस्स न कास वि नीसत्तं नीसहत्तं वा ॥३२॥ गण-सामिद्धी पयडा कला-समिद्धी वि पायडा जस्स । जो दाहिण-पवण-निहो दक्खिण्ण-निही गुणि-वणाण ॥३३।। सिविणम्मि वारण-बलं सुमिणम्मि अ आस-साहणं जस्स । दिण्ण-भयं पिच्छंता दत्त-करा रिउ-निवा जाया ॥३४॥ अंगार-पिक्क-गोल्ले खाए इंगाल-पक्क-कंदे अ । तत्त-निलाडा रिउणो जस्स णलाडं-तवे तवणे ॥३५।।
९६
Page #104
--------------------------------------------------------------------------
________________
संस्कृतानुसर्जनन्
चौलुक्यानां यस्मिन् सौरभजनकं यशःकुसुममाल्यम् । व्याप्तं दिगङ्गनानां सुरभीणि करोति शीर्षाणि ॥२२॥ वयसां मध्यमवय इव यथा सुमनसां च मालतीकुसुमम् । मुक्तिसुखं सौख्यानां यच्छेयो विश्वनगराणाम् ॥२३॥ नाऽक्षीणि चर्म येषां ज्ञानं तेषामपि ध्रुवं यमिनाम् । विकसन्ति यत्र नयनान्यन्येषां का कथाऽप्यस्मिन् ॥२४।। वचनं तावद्वचनं माहात्म्यं तावदेव माहात्म्यम् । तावद् गुणा गुरोरपि यावद् विबुधान्न वीक्षते यस्मिन् ॥२५।। हरिहरविधयो देवा यत्राऽन्येऽपि च वसन्ति देवेन्द्राः । एतेन खलु महिम्ना ह्यमरावत्यास्तिरष्कृतो महिमा ॥२६।। यत्राऽञ्जलिना कनकं कामं रत्नानि च ददाति धनिलोकः । कनकनिधिः परिपूर्णो रत्नागारोऽपि भाति सम्पूर्णः ॥२७|| तत्र हि कुमारपालो बाहौ संस्थापितावनीपालः । परिवारसुप्रतिष्ठोऽभूद् राजेन्द्रो धराधीशः ॥२८॥ भवदाज्ञानिर्माल्यं मूर्धनि कर्मो यथा ह्यनिर्माल्यम् । वयमत्र स्म इतीत्थं कथयित्वा यो नतोऽवनीपालैः ॥२९|| यदि दयिता ते लक्ष्मीः सकला पृथिवी च वल्लमा नित्यम् । तत्कि मयेति शेषान् कीर्तिर्यस्याऽगमदूरम् ॥३०॥ यो दुःशासनशत्रोरश्वत्थाम्नश्च रामशिष्यस्य । विश्रमितयशःप्रसरः स्वयशसा धरातले पूर्णे ।।३१।। वर्षानिषिक्तभूमौ विष्वग् मार्तण्डतेजसोऽरिघ्नः । राज्ये यस्य न कोऽपि निःसत्त्वो निःसहो वाऽऽसीत् ॥३२॥ गुणसुसमृद्धिः प्रकटा कलासमृद्धिः सदा तथा यस्य । यो मलयानिलकल्पो गुणिविपिनानां महासत्त्वः ॥३३॥ स्वप्ने वारणसेन्यं स्वप्नेऽपि च तुरगसाधनं यस्य । दत्तभयं पश्यन्तो दत्तकरा रिपुनृपा जाता ॥३४।। अङ्गारपक्वबिम्बीफलान्यदन्ति तत्पक्वकन्दाँश्च । तप्तललाटा रिपवो यस्य ललाटन्तपे तपने ॥३५॥
९७
Page #105
--------------------------------------------------------------------------
________________
प्राकृतद्वयाश्रयमहाकाव्यम्
कइमं मज्झिम-लोए रिऊहिँ चत्तं न छत्तिवण्ण-वणं । नव-छत्तवण्ण-परिमल - मए गए जस्स संभरिउं ||३६|| अमयमइओ व्व अहवा अमयमयाओ वि समहिओ जस्स । हर - हीर - पिआहि वि जस - गीअ - झुणी सुव्वए वीसुं ॥३७॥ असुडिअ - पडिहा-पसरस्स अग्गओ जस्स दप्प - कण्डूलं । खण्डिअ - नाण - प्पsिहं बुहं- चुडं गउअ-चण्डं व ॥३८॥ असि - पुदुमो धणु- पुढमो छुरिया - पदुमो अ सेल - पढमो य । सव्वण्णुव्व अहिण्णू जो सयल - कला - कलावस्स ||३९|| उर-सेज्जाइ वि हरिणो सुन्दर - घरम्मि सइ सिरी अथिरा । जस्स गुण-वेल्लि तरुणो थिरासि भू- वल्लि - पेरन्ते ||४०|| जस्स य दिस - पज्जन्ते अहरिअ - जोहोक्करो जसोक्रो । अच्छेर - निरीहाण वि अच्छरिअं किं व न करेइ ॥४१॥ जो आस बम्भर - गहण गुरू पइ - विओअ - विहुरस्स । रण्णन्तग्गय-रिउ-अन्तेउर - पोम्मच्छि - लोअस्स ॥४२॥ पय-पउम-नमोक्कारे परोप्परामद्द-तुट्ट-हारेहिं । जस्स सहाइ निवेहिं ओप्पिअमिव मुत्तिआहरणं ॥४३॥ जत्थप्पिअ-भू-भारो सुवइ फणी तत्थ सोवइ हरी वि । जोन्नत्थ - दिन्न - भारो न उणाइ सयालुओ न उणा ॥४४॥ जइ सक्को न उण नरो न उणो नारायणो वि सारिच्छो । जस्स पुणाइ पुणाइवि भुवणाभय - दाण- ललिअस्स ॥४५॥ रणे अरण-साणाउलम्मि लाऊ -लया-हरे रुन्नं । जस्सारि-वहूहि तहा अलाउ - कुल्ला जह कयाओ ॥४६॥ उक्खय-संठविअ निवेण जेण वच्छत्थलाओ हरिणो वि । उक्खाया भुय - दण्डे निअम्मि संठाविया लच्छी ॥४७॥ अह कइया वि दिवा - मुह - पत्थावे पत्थवोचिअं तस्स । अणुरागागय-मरहट्ठमाइ-सूएहिँ इअं पढिअं ॥४८॥ हय-मंसल-तम-पसरो सइ वामो पंसुलाण पच्चूसो । सामय-वय-दिन्नग्घो तं व पयट्टो सया पुन्नो ॥४९॥
९८
Page #106
--------------------------------------------------------------------------
________________
संस्कृतानुसर्जनम्
कतमन्मध्यमलोके रिपुभिस्त्यक्तं न चाऽश्वदलविपिनम् । नवसप्तपर्णपरिमल-मदकरिणो यस्य संस्मृत्य ||३६|| पीयूषद्रव इव वा मधुरिमबहला ततोऽपि रमणीया । शङ्करगौरीभ्यामपि परितस्ते श्रूयते यशोगीतिः ||३७|| अहतप्रसारबुद्धेः पुरतो ह्यस्याऽभिमानकण्डूलम् । खण्डितबुद्धिप्रतिभं विद्वद्वृन्दं यथा गवयवृन्दम् ॥३८॥ असिप्रथमो धनुप्रथमश्छुरिकाप्रथमश्च प्रासप्रथमश्च । सर्वज्ञ इवाऽभिज्ञो यो हि कलायाः कलापस्य ||३९|| उर:शयेऽपि च विष्णोः सौन्दर्य्यगृहे चला सदा लक्ष्मीः । यस्य च गुणवल्लितरोरचला भूवल्लिपर्य्यन्ते ॥४०॥ यस्य च दिक्पर्यन्तेऽघटितज्योत्स्नाकरो यशोव्यूहः । कौतुकशून्यानामपि किमिव न कुरुते महाश्चर्यम् ॥४१॥ मैथुनसेवनविरमणदीक्षादाता वियोगविधुरस्य । काननगतशत्रूणामन्त:पद्माक्षलोकस्य ॥४२॥
पदपद्मनमस्कारे मिथो विमर्दात् पतद्भिरपि हारैः । यस्य संभायां राजभिरर्पितमिव मौक्तिकाभरणम् ॥४३॥ यत्राऽर्पितभूमारः स्वपिति फणी तत्रं केशवः शेते । योऽन्यत्र दत्तभारो नाऽप्यलसो नाऽनपेक्षवेगोऽपि ॥ ४४ ॥ देवेन्द्रो मनुजेन्द्रो न पुनर्नारायणोऽपि सदृशोऽभूत् । यस्य हि भूयो भूयो भुवनाभयदानललितस्य ॥४५॥ विपिनश्वकीर्णविपिने रम्येऽलाबूलतागृहे रुदितम् । यदरिस्त्रीभिश्च तथाऽलाबूकुल्या यथा विहिता ||६|| नाशितरक्षितरिपुणा दैत्यारेरपि च वक्षसो येन । उत्खाता भुजदण्डे स्वस्मिन् संस्थापिता लक्ष्मीः ॥४७॥ अथ जात्वपि वैभातिकप्रस्तावेऽत्यन्तसमुचितं तस्य । रागागतमरहट्टादिकबन्दिजनैरिदं पठितम् ॥४८॥ हऩमांसलतिमिरौघो नित्यं वामोऽसताञ्च प्रत्यूषः । श्यामाकदत्तपूजस्त्वमिव प्रवृत्तः सदापुण्यः ॥४९॥
1
९९
Page #107
--------------------------------------------------------------------------
________________
प्राकृतव्याश्रयमहाकाव्यम् दिस-कुप्पिसन्त-जस-भर देवय-हरए तुमं सकुप्पासा । दिक्खाइरिआ सिक्खायरिएहि सहोवसप्पन्ति ॥५०॥ गय-थीण-तिमिर-केसे खल्लीडे नह-सिरम्मि संवुत्ते । थुवआ हवन्ति लोआ एम्हि सुण्हाल-चिन्धस्स ॥५१॥ गयणे तुहिणोसारिणि तुहिणासारं पडन्तमगणन्ता । उट्ठन्ति वहूओ पुरो अज्जूणं विणय-गेज्झाण ॥५२॥ कुट्टिम-चउ-वारेसुं सतिण्हमिहि कुणन्ति रमणीओ । देरागय-पारावय-रावोट्ठिअ-पिअ-परीरम्भं ॥५३॥ पारेवय-मणिएहिं तेत्तिअमेत्तं रमेसु वेसाओ । तेत्तिअमत्तं मग्गन्ति चलिअ-मेत्ते भुअंगम्मि ॥५४|| अद्द-नहंकाण पियाण अल्ल-आलावयाण विलयाओ । उल्लन्ति अंकमंसुअ-ओल्लीहिं ओल्ल-नक्खंका ॥५५।। निअ-ठाण-मीलणं पिक्खिऊण चिन्ता-परा मिउल्लावा । नीलप्पल-पेण्डे पिण्डिऊण भसला रुअन्ति व्व ॥५६॥ किंसुअ-कुसुमायम्बो केंसुअ-दल-सामलं विगय-मेरं । दलिऊण अन्धयारं दंसइ पुहवीइ पहमरुणो ॥५७॥ काउं महाविलं अतम-मूसयं कय-पडंसुए सूरे । लक्ख-हलद्द-बहेडय-रत्त व्व करा विअम्भन्ति ॥५८।। विरइअ-हलद्दि-कन्दाभ-दीवओ नव-हलिद्दि-रत्त-करो । अहलिद्दा-राओ कामुउ व्व पुव्वं भअइ सूरो ॥५९।। पिकंगुअं व निवडइ पिक्किंगुअ-धूसरो ससी एस । सिढिल-करो सढिलंगो तित्तिरमइल-प्फुडकलंको ॥६०।। इअ आसंसन्ति नि-सीह सिंहदत्ताइणो दिआ तुज्झ । वीसं तीसं कप्पे जयसु दुजीहारि-नीसंक ॥६१॥ अदुइअ-रवि-भा-बिइए गयणे जह पाइयम्मि दो-वयणं । कत्थ वि नत्थि तमो अहि-निवास-लोअम्मि व णुमन्नो ॥६२।। जरढोच्छु-रुई चन्दो निस-पिअ-पावासुओ व्व नो सहइ । सच्च-जहुट्ठिल सूरे भू-सग्ग-दुहाइअ-करोहे ॥६३॥
१००
Page #108
--------------------------------------------------------------------------
________________
संस्कृतानुसर्जनन् दिक्कूसियशोभरदैवतभवने सकञ्चकाः सौम्याः । दीक्षाचार्याः शिक्षाचार्यैः सह देव यान्ति त्वाम् ॥५०॥ गतसान्द्रतम:केशे खल्वाटे गगनमूनि संवृत्ते । लोकाः स्तुवन्ति सम्प्रति सास्नाललाञ्छितं देवम् ।।५१॥ गगने तुहिनासारिणि तुहिनासारं तृणाय मन्वानाः । विनयग्राह्यार्याणां जाग्रति वध्वः सदा पूर्वम् ॥५२॥ कुट्टिमचतुर्मुखेषु रामाः कुर्वन्ति तृष्णयेदानीम् । द्वारागतपारापतनादोत्थितवल्लभाश्लेषम् ॥५३॥ पारावतकूजितकैस्तावन्मानं ह्यरंसिषत वेश्याः । . तावच्च मार्गयन्ति गमनाय समुत्सुके धूर्ते ॥५४।। आर्द्रालापनखाङ्कदयितोत्सङ्गं मनोरथस्थानम् । आर्द्रनखाङ्का वनिता आर्द्र कुर्वन्ति नेत्रबाष्पौषैः ।५५।। निजवासस्थलमीलनमीक्षित्वा चिन्तिताः कृशालापाः । नीलसरोरुहकोशे मिलिता भ्रमरा रुदन्तीव ॥५६॥ किंशुकपलाशनीलं किंशुकदलमेचकं विगतमेरम् । दलयित्वा तिमिरौघं दर्शयते भूमिपथमरुणः ॥५७।। सूर्ये कृतप्रतिश्रुति महाबिलं चाऽतिमिरमूषिकं कर्तुम् । लाक्षापीतविभीतक रक्ता व करा विजृम्भन्ते ॥५८॥ विरचितपीतककन्दाभदीपो नवपीतरक्तकरः । निबिडस्नेहः कामुक इव पूर्वदिशं भजति सूर्यः ॥५९।। पक्वाङ्गुदमिव निपतति पक्वाङ्गुदधूसरः शशी चैषः । शिथिलकरः शिथिलाङ्गो लावकमलिनस्फुटकलङ्कः ॥६०॥ इति कथयन्ति च नृसिंह ! सिंहप्रमुखास्ते ते द्विजा धीराः । पञ्चाशतं नु कल्पान् जय द्विजिह्वारिनिःशङ्क ! ॥६१॥ अनुपमरविभायुक्ते गगने हि यथा प्राकृते द्वित्वम् । कुत्राऽपि नाऽस्ति तिमिरं पन्नगभुवने यथा मग्नम् ॥६२।। जरठेक्षुरुचिश्चन्द्रो यथा न सहते निशाप्रियाऽयुक्तः । सत्ययुधिष्ठिरसूर्ये भूस्वर्द्विधाकृतकरौघे ॥६३॥
१०१
Page #109
--------------------------------------------------------------------------
________________
प्राकृतव्याश्रयमहाकाव्यन्
धम्मे जहिट्ठिला दोहाइअ-पवहा दुहा वि मल-पटलं ।
ओज्झर-निज्झरिणीसुं ण्हाऊण खिवन्ति बम्हाणा ॥६४|| हय-कम्हार-हरडई-चिक्किण-तिमिरस्स गहिय-पाणीया । पाणिय-तडम्मि विप्पा अजुण्ण-सूरस्स देन्तग्धं ॥६५॥ जिण्ण-तमं मल-हीणा अहूण-तेअं विहीण-अन्न-पहं । अविहूणं तूह-दिआ थुणन्ति तित्थे रविं तं व ॥६६॥ पेऊसासण-सामिय-दिस-आमेले रविम्मि उअ तारा । केरिस-एरिसिआओ बहेडयाभाओं नह-पेढे ॥६७|| चत्तूण नेड-पीढं नीड-धरा मउलिआ मही-मउड । विद्दाय-निद्दमुड्डन्ति घरोवरिं रुक्ख-अवरिं च ॥६८|| गरुआ वि गुरुअ-भिउडीहिँ वार-वालेहि पडिखलिज्जन्ता । बहु-पोरिसा वि पुरिसा निरुद्ध-छीआ इहं एन्ति ॥६९॥ । मुसल-धर-बाहु-मूसल रइ-सूहव-सुहय तुज्झ मुह-कमलं । दटुं ऊसुअ-नयणा पुणो पुणो ऊससन्ति निवा ॥७०॥ अणउच्छनोच्छाहो रिउ-दुसहो दूसह-प्पयावेण । वोक्कन्त-निद्द-पसरो अह राया ओट्ठिओ सयणा ॥७१।। कोऊहल-कुसलेहिं कुऊहलत्थेसु कोउहल्ली वि । सण्हाण वि सुण्हयरं परमप्पं थुणिय सव्वण्णुं ॥७२।। अमलोव्वीढ-दुअल्लो उव्वूढ-दूऊल-दण्डि-दिन-करो । सो अत्थाणि पत्तो दुगुल्ल-उल्लोअ-सोहिलं ॥७३।। तस्स भुमयाइ वसगा अवाउला पेसणिक्क-हणुमन्ता । बल-कण्डुअमाण-भुआ पुरो निविट्ठा निवा नमिरा ||७४॥ पासम्मि ठिआ तस्स य महूअ-गोरीओ महुअ-महुर-गिरा । वज्जन्त-कणय-नूउर-मणि-नेउर-वइर-निउराओ ॥७५।। कोहण्डि-कुसुम-मउवीओं काम-तोणीर-थोर-कबरीओ । निम्मोल्लंगय-मण्डिअ-कोप्परया गहिअ-तम्बोला ॥७६।। विब्भम-गलोइ-मेघा रम्भा-थोणा-निहोरु-थूणाओ । तोणीहविअ सयं चिअ रइ-वइणो तूण-छड्डवणा ॥७७॥
१०२
Page #110
--------------------------------------------------------------------------
________________
संस्कृतानुसर्जनम्
युधिष्ठिराः खलु धर्मे द्विधाकृतौघा द्विधाऽपि मलपटलम् । निर्झरनिर्झरिणीषु स्नात्वा चाऽस्यन्ति सद्विप्राः ॥६४।। हतकश्मीरहरीतकिचिक्वणतिमिरस्य विधृतपानीयः । पानीयतटे विप्रा नूतनभानोर्ददत्यर्घम् ॥६५॥ मलहीना जिततमसं सत्तेजस्कं विहीनभिन्नपथम् । तीर्थद्विजाः स्तुवन्ति तीर्थे सूर्यं च नृपतिं च ॥६६।। पीयूषाशननायकदिगलङ्कारे रवौ विलोकयाणि । ईदृश्यः कीदृश्यो विभीतकाभा नभःपीठे ॥६७|| सन्त्यज्य नीडपीठं नीडगृहा मुकुलिता महीमुकुट ! । गतनिद्रं हि डयन्ते तरुगृहयोरुपरि चाऽपि ॥६८|| गुरवो गुरुभ्रकुंसैनिरुध्यमानाः सदा प्रतीहारैः । बहुशक्तयोऽपि पुरुषा रुद्धक्षुतकाः समायान्ति ॥६९॥ मुसलधरमुसलबाहो ! रतिसुभगसुन्दर ! ते नु मुखकमलम् । उत्सुकनयना द्रष्टमुच्छ्व सन्ति नृपाः सततम् ॥७०॥ अनुच्छ्निसमुत्साहो रिपुदुःखकरस्तेजसाऽत्युग्रः । व्युत्क्रान्तशयनप्रसरो नन्वथ राजोत्थितः शयनात् ॥७१॥ कौतूहलातिकुशलैः कुतूहलार्थेषु कौतुकी चाऽपि । सूक्ष्मेष्वपि सूक्ष्मतरः स्तुत्वा परमात्मसर्वज्ञम् ॥७२॥ अमलोद्व्यूढदुकूल उद्व्यूढक्षौमदण्डिधृतपाणिः । स आस्थानीं प्राप्रस्तद्वस्त्रोल्लोचरमणीयाम् ॥७३।। तस्य भ्रुवोरधीनाः सत्कार्याः प्रेषणैकहनुमन्तः । बलकण्डूलभुजाग्राः पुरो निविष्टा नृपा नम्राः ॥७४।। पार्वे स्थिता हि तस्य मधूकगौरास्तन्मधुरवचनाः । निक्वणत्कनकनूपुरमणिनूपुरवज्रनूपुरकाः ॥७५॥ कूष्माण्डकुसुममृद्ध्यो मदननिषङ्गेनसान्द्रकबरीकाः । निर्मूल्याङ्गदमण्डितकूपरका गृहीतताम्बूलाः ॥७६।। सुविलासामृतमेघा रम्भास्थूणानिभोरुजङ्घाकाः । स्वयं निषङ्गीभूय रतिपतितूणीरमोचनिकाः ॥७७॥
१०३
Page #111
--------------------------------------------------------------------------
________________
प्राकृतश्याश्रयमहाकाव्यम्
सरउग्गय-मय-लंछण- सरिच्छ-वयणाओ वार- - जुवईओ । चामर - दप्पण - हत्था अकास - कन्ती किसंगीओ ॥७८॥ मत्तेभ-मउअ-गमणे तस्सि माउक्क - आसणासीणे । माउक्के अमउत्ते वि सुइ-गिराणं फुड - गिरेहिं ॥ ७९ ॥ आसंसिअं दिएहिं किवालु - हिअओ हवेहि महि-वट्ठे । तुह पिट्ठ-चरा देवा हवन्तु नागा वि पट्ठ- चरा ॥८०॥ अह खग्गि- सिङ्ग - पत्ते मसिणे मसणेण चन्दणेण गहे । अच्चि राय-मयंको अकासि तिलयं मिअंक- निहं ॥८१॥ मिच्चु - अवमच्चु - हरणे दिजे विसज्जिअ निसामिआ तेण । रिउ - संग-भंजणेणं धिट्ठाधट्ठाण विन्नती ॥८२॥
पुहवीस- उउ - वसन्तो निवुत्त-तिलय क्खाणो कलि- नित्तो । वन्दारय- वुन्दारय- समो पयट्टो तिहिं सोउं ॥ ८३ ॥ निव-उसहो दिय-वसहे पिउ - कम- माउ-हर- आगए तत्तो । दाणेण तप्पिऊणं संपत्तो माइ - हरयम्मि ॥८४॥ माईण अमोसासीसयाण राया अमूस - परिवारो । अमुसा - वाई वुट्ठो धण- वुट्ठी- रयण-विट्ठीहिं ॥८५॥ विट्ठ-घणनिम्मलेणं देवाणं पिहय पुहय देवीणं । तेणादिट्टं गीअं मुइंगि-कर-ताडिय-मिइंगं ॥८६॥ कुल- जरईणं नत्तिअ-नत्तुअ - सहिआण सो वसु अदासि । धरणि- बिहप्फइ - सीसो बुहप्फइ - सरिच्छ - गुरु- पुरओ ॥८७॥ सो कुसुम - विण्ट- तिक्ख-प्पण्णाइ बहप्फइ व्व लच्छीए । काही पूअं सह-वेण्ट-फलेहिँ स- वोट- फुल्लेहिं ॥८८॥ रिद्धि-हय- अणत्त - रिणो राय - रिसी धणुह - वेअ - राम- इसी । रिज्जू सहुज्जुएहिं नर-उसहेहि चलिओ निवइ - रिसहो ॥ ८९ ॥ सो वसन्त- रिउ - सरि- विलासओ तह य गिम्ह - उउ - सरिस - लीलओ । महुर-तिव्व- तेआसरिच्छओ सम-हरं दरिअ - आढिअंगओ ॥९०॥
१०४
Page #112
--------------------------------------------------------------------------
________________
संस्कृतानुसर्जनन् शरदुद्गतमृगलाच्छननिभवदना वारवनितास्ताः । चामरदर्पणहस्ता अनुपमकान्त्यः कृशाङ्योऽपि ॥७८।। मत्तेभमृदुकगमने तस्मिन्नतिकोमलासनासीने । अमृदुत्वेऽपि मृदुत्वे श्रुतिवाक्यानां प्रकटशब्दैः ॥७९॥ आशंसितश्च विप्रैः कोमलहृदयो भवतु महीपृष्ठे ।। तव पृष्ठचरा देवाः सर्पा अपि सन्तु पृष्ठस्थाः ॥८०।। गण्डकविषाणपात्रे चन्दनकुसुमैर्ग्रहांश्च ननु मुख्यान् । राजमृगाकोऽर्चित्वा कृतवान् तिलकं मृगाङ्काभम् ॥८१।। मृत्यपमृत्योर्हरणान् विप्रान् संप्रेष्य श्रावितास्तेन । विज्ञप्तयश्च धृष्टाधृष्टानां रिपूत्कर्षसंहा ॥८२।। पृथिवीशर्तुवसन्तोऽन्तीकृततिलकक्षणः कलेर्हर्ता । वृन्दारकवृन्दारक-समः प्रवृत्तस्तिथिं श्रोतुम् ॥८३।। नृपवृषभो द्विजवृषभान् परम्परातः समागतान् पश्चात् । दानेन तर्पयित्वा सम्प्राप्तो मातृकुलभवने ॥८४।। सत्यवचनमातृभ्योऽमृषपरिवारः समस्तपृथिवीशः । अमृषावादी वृष्टो धनवृष्टिरत्नवर्षाभिः ॥८५।। वृष्टाब्दनिर्मलेन देवानां पृथक् पृथक् च देवीनाम् । तेनाऽऽदिष्टं गीतं वादकताडितमृदङ्गाभम् ॥८६।। नप्तृकनप्तृकसंवृतकुलजरतीभ्यो ददौ धनं कामम् । धरणिबृहस्पतिशिष्यो गुरुतुल्यपुरोधसः पुरतः ॥८७|| स च कुसुमवृन्ततीव्रशेमुष्या सुरगुरोर्यथा लक्ष्म्याः । पूजां व्यधात् सन्तफलैः सवृन्तैः कुसुमजालैः ॥८८।। ऋद्धिहतऋणार्तऋणो राजर्षिर्धनुर्वेदरामर्षिः । सरलमनोभिः सरलो नरऋषभैश्चलितो नृपतिऋषिः ॥८९।। स वसन्तऋतुसदृशविलासको-प्यथ निदाघऋतुतुल्यविभ्रमः । मधुरतीव्रतेजोभिरनुपमो श्रमहरं मदभरादृतं गतः ॥१०॥
॥ इति प्रथमः सर्गः ॥
१०५
Page #113
--------------------------------------------------------------------------
________________
प्राकृतविभागः कथा
पाइयविनाणकहा
-आ.विजयकस्तूरसूरीश्वराः
(१) भावविसुद्धीए आणंदसावगस्स कहा गिहिणो वि विसुद्धीए, हवइ ओहिनाणयं । इहाणंदो जहा सडो, महावीरस्सुवासगो ॥
वाणिज्जगामे जियसत्तू राया, आणंदसावगो, तस्स सिवाणंदा भज्जा । दूइपलासचेइए सिरिवीरो समोसरिओ । मड्डिीए आणंदस्स गमणं, धम्मो सुओ, साहुधम्मपालणे असत्तो सावगधम्मं गिण्हइ । परिग्गहे चत्तारि य दम्माण कोडीओ निहाणे, चत्तारि कलंतरे, चत्तारि ववहारे, दस दस गोसहस्साणि चत्तारि गोउलाणि, पंच हलसयाणि, पंच सगडसयाणि, पाणियाइवहणत्थं चत्तारि वहणसयाणि; एवं गिण्हित्ता घरे आगओ सिवाणंदं भणेइ - पिए ! जहा हं सावगो तहा तुमंपि सावगधम्म पडिवज्जसु । सावि पइव्वयत्तणओ तव्वयणाणंतरमेव सपरियणा भगवंतिए साविगा संजाया ।
तद्दिणाओ दोहिंपि दाण-सील-तव-भावणामओ चउद्दसवरिसाणि निक्कलंको सावयधम्मो पालिओ। पण्णरसंमि य वरिसे जेट्टपुत्तं गिहनायगं ठवित्ता वाणियगामस्स पच्चासण्णे कोल्लागसंनिवेसे परमसावएहिं सह पोसहसालं कराविय चिट्ठइ । परिचत्तारंभो सामिसुस्सूसणपरो निरवज्जाहारकयपाणवित्ती सावगधम्मसारं आराहेइ । एवं तत्थ वि तहेव सुट्ठ तवोनिरयस्स समुप्पण्णं ओहिनाणं । तेण य पेच्छइ सव्वभरहखेत्तं, भरहखेत्तसंबंद्धं लवणसमुदं च पंचजोयणसयं, उटुं च सोहम्मदेवलोग, हेट्ठा पुण पढमनरयपुढवीए पढमपत्थडं जाव पेच्छइ ।
विविहतवविसेसेहिं च छ संवच्छराणि सोसियसरीरो पयं पि गंतुमसमत्थो कुणंतो धम्मजागरियं चिंतेइ - जाव भरहखित्ते सामी विहरेइ ताव अणसणं पडिवज्जामि । पभाए अणसणं पडिवण्णो ।
१. सुवर्णनिष्काणाम् ॥ २. कलान्तरे - वृद्धया धनप्रदाने ॥
१०६
Page #114
--------------------------------------------------------------------------
________________
सिरिमहावीरो समोसरिओ । भिक्खट्ठाए नयरं पविट्ठो गोयमो आणंदस्स अणसणं बहुसो जणाओ सुणेइ । गोयमो तत्थेव आगच्छइ । सीसे कयकरंजली आणंदो भणेइ - आगंतुं असमत्थोऽहं, तओ मम सण्णिहिया होह । तिवारं चरणं फासिअ वंदेइ, पुच्छइ य - सावगस्स ओहिनाणं उप्पज्जइ किं? गोयमो आह - समुप्पज्जइ । सो कहेइ - मम एव इयं ओहिनाणं समुप्पण्णं । अदिण्णोपयोगो गोयमो भणइ - गिहत्थस्स न तावइयविसयं ओहिनाणं, अओ असब्भूयभासणस्स मिच्छा दुक्कडं दाऊण आलोएहि, तव पायच्छित्तं लग्गं । तओ आणंदो भणइ - भयवं ! सच्चमवि भासियं किं आलोइज्जइ ? गोयमो - न त्ति । आणंदो - जइ एवं ता तुब्भेहिं चेव पमायपरूवणाए आलोइयव्वं, मम पुण नत्थेत्थ विसए को वि संसओ।
आणंदभासियं सोऊण गोयमो संकिओ सामिसगासे आगंतूण भत्तपाणं दंसिऊण वंदित्ता पुच्छइ - कस्स सच्चं ? 'आणंदभणियं सच्चं' ति भयवं कहेइ । पुण भणिओ य गोयमो - नियमणुवओगभणियं आलोएहि, गंतुं च आणंदं खामेहि । भगवदुत्तं सम्म पडिवज्जित्ता तहेव कयं । वीरो विहरिओ । आणंदो वि वीसं वरिसाणि जाव सावयत्तं अणुपालित्ता मासखवणं काऊण सोहम्मकप्पे अरुणाभे विमाणे चउपलिओवमाऊ देवो जाओ, तओ चुओ महाविदेहे सिज्झिस्सइ, जहा कामदेवो । उवएसो -
सुणिऊणं इहाणंद-सावगस्स नियंसणं । भव्वा भावविसुद्धीए, जत्तं कुणेह सव्वया ॥ एवं भावविसुद्धीए आणंदसावगस्स कहा समत्ता ॥
- कहावलिगंथाओ
(२) वयविराहणाए नंदमणियारसेट्ठिणो कहा पाखंडिजणसंसग्गा, पत्तधम्मो वि नस्सइ । वीराओ लद्धसम्मत्तो, मणियारो जहा इह ॥
एगया रायगिहनयरम्मि सिरिवद्धमाणजिणीसरो समवसरिओ। सेणिगाइणो सद्धालुजणा वंदणाय समागया। तया सोहम्मकप्पवासी दड्रंकनामो देवो चउसहस्ससामाणियदेवपरिवरिओ जिणवंदणत्थं तत्थ आगओ। सूरियाभदेवो इव सिरिवीरपुरओ बत्तीसविहं नहें विहाय सत्थाणं गओ । तया गोयमेण पुढे - हे भयवं ! अणेण देवेण एरिसी रिद्धी केण पुण्णेण लद्धा ? भयवंतो आह - एयम्मि चेव नयरे एगो महिड्डिओ नंदमणियारसेट्ठी वसित्था । सो एगया मज्झ मुहाओ धम्म सोच्चा सम्मत्तसहियदुवालसवयरूव
१. नृत्यम् ॥
१०७
Page #115
--------------------------------------------------------------------------
________________
सड्डधम्मं अंगीकुणीअ । तओ तेण सड्ढधम्मो चिरं पालिओ । अह कयाइ दइव्वजोगेण कुदिट्ठिसंसग्गाओ तहाविहसुसाहुसंजोगाभावाओ य तस्स मणंसि मिच्छत्तबुद्धी पवुढेि उवागया, सुबुद्धी कमेण मंदीभूआ । तओ मीसपरिणामेहिं कालखेवं कुणंतो स सेट्ठी एगया गिम्हकाले पोसहवयजुअं अट्ठमं तवं कासी । तत्थ तइयदिणस्स मज्झरत्तीए पिवासापीलिअत्तणाओ समुप्पण्णट्टज्झाणो संतो एत्थं विचिंतित्था -
धण्णा ते च्चिअ संसारे, कराविति बहूणि जे । वावीकूवतडागाई, परुवयारकारणं ॥१॥ धम्मुवएसकारेहिं, वुत्तो धम्मो परो इमो । दोसं वयंति जे एत्थ, णेयं तव्वयणं वुहा ॥२॥ गिम्हकाले हि जे जीवा, तिसट्टा वाविगाइसु । समागच्च जल पिच्चा, भवंति सुहिणो जओ ॥३॥ अओ अहं पि पच्चूसे, वाविमेगं महत्तरं । कारयिस्सामि तत्तो मे, सव्वया पुण्णसंभवो ॥४॥
एवं दुज्झाणं कुणंतो सो सेट्ठी सेससव्वरत्तिं अइक्कमित्ता पभाए पारणं किच्चा सेणिअनिवस्साऽणुण्णं घेत्तूणं वेभारगिरिसमीपे एगं महापुक्खरिणि कारवेइ । तीए चउदिसासु विविहतरुवरसोहियदाणसालामढ-मंडव-देवकुलाइमंडिआई वणाइं च कारवेइ । एत्यंतरे बहुयरकुदिट्ठिसंसग्गाओ सव्वहा चत्तधम्मस्स तस्स किलिट्ठकम्मोदयाओ सरीरे सोलस महारोगा समुवण्णा ।
तन्नामाइंकासे सोसे जैरे दाहे, कुच्छिसूले भगंदरे । हरसो अंजीरए दिट्ठि-पिट्ठसूले अरोअएं ॥१॥ कंडू जलीयरे सीसे-कन्नवेयण-कुट्टए । सोल एए महारोगा, आगमम्मि वियाहिया ॥२॥
रोगकंतदेहो स सेट्ठी महापीलं अणुभविअ मरणं पप्प तीए चेव वावीए दद्दुरत्तणेण समुववण्णो । तत्थ य तस्स नियवावीदंसणाओ जाईसरणं उप्पण्णं । तओ सो ददुरो धम्पविराहणाफलं नच्चा संजायसुहभावो 'अज्जदिणाओ मए निच्चं छट्ठतवो कायव्वो, पारणगे वावीतडे जणसिणाणपासुकीभूअं जलमट्टिगाई चिय भक्खणिज्जं' ति अभिग्गहं गिण्हित्था । अह स तम्मि समये वावीए सिणाणाइनिमित्तं आगच्छंताणं जणाणं
१. वृथा ॥
१०८
Page #116
--------------------------------------------------------------------------
________________
मुहाओ अम्हाणं आगमणसमायारं सोच्चा पुव्वभवधम्मायरिअं मं मण्णित्ता वंदणत्थं निग्गच्छंतो लोगेहिं करुणाबुद्धीए पुणो पुणो अंतो पक्खिज्जमाणो वि वंदणिक्कमणो जाव वावीए बाहिरं निग्गओ ताव भत्तिभरुल्लसिअमाणसो बहुपरिवारजुओ सेणिअनरिंदो मम वंदणाय समागच्छंतो तत्थ संपत्तो । तओ दइव्वजोगाओ स दद्दरो मग्गे सेणिअनिवतुरंगखुरेण खुण्णो तत्थ च्चिय सुहज्झाणेण मरिऊण सोहम्मदेवलोगे दडुरंकनामो देवो समुववण्णो। उप्पत्तिसमयाणंतरं ओहिनाणेण नियपुव्वभववुत्तंतं नच्चा मं एत्थ समवसरिअं विण्णाय सज्जो समागंतूण वंदिऊण नियरिद्धि दंसिऊण य नियट्ठाणं गओ । अणेण सुहभावणाए एरिसी रिद्धी संपत्ता । सो य महाविदेहे सिद्धिं पाविस्सइ ।
उवएसो - नंदस्स मणियारस्स, वयविराहणाफलं । सोच्चा दुज्जणसंसग्गं, दूरओ परिवज्जए ॥ वयविराहणाए नंदमणियारस्स कहा समत्ता ॥
- अप्पपबोहाओ (आत्मप्रबोधात)
(३) महापुरिसदसणम्मि रण्णुंदुरस्स कहा महापुरिसमाहप्पं, अप्पमेज्जं सिया जओ। धम्मजिणीसरेणेह, तारिओ मूसगो भवा ॥
एगया भगवया गणहरदेवेण धम्मजिणवरो पुच्छिओ - भगवं ! इमीए महईए महालयाए परिसाए पढमं को सिद्धिवसहिं पाविहिइ ? त्ति । भगवया भणियं - देवाणुप्पिया !
एसो जो तुह पासेण, मूसगो एइ धूसरच्छाओ । संभरियपुव्वजम्मो, संविग्गो णिब्भरपयारो ॥ मह दंसणपरितुट्ठो, आणंदभरंतबाहनयणिल्लो । तड्डवियकण्णजुयलो, रोमंचुच्चइय-सव्वंगो ॥ अम्हाणं सव्वाण वि, पढमं चिय एस पावरयमुक्को । पाविहिइ सिद्धिवसहिं, अक्खयसोक्खं अणाबाहं ॥
१. बाष्पः - अश्रु ॥ २. ततः - विस्तीर्णकर्णयुगलः ॥
१०९
Page #117
--------------------------------------------------------------------------
________________
एवं भगवया भणियमेत्ते सयलसुरासुरनरवरिंदाणं दिछीओ रण्णुंदुरस्स उवरिं निवडिआओ । सो य आगंतूण भत्तिभरनिब्भरो भगवओ पायवीढसंसिओ महियलट्ठवियमत्थओ किं किंपि णियभासए भणिउं पवत्तो। तियसनाहेण च भणियं - भगवं ! महंतं मम कोऊहलं जं एसो अहमतुच्छजाइओ रण्णथलीनिवसिरो रण्णुंदरो सव्वाणं चेव अम्हाणं पढमं सिद्धिसिरिं पाविहिइ त्ति, कहं वा इमिणा थोवकम्मेण होइऊण एसा खुद्दजाई पाविय त्ति ?
भगवया भणियं - विंझो नाम महीहरो अस्थि । तस्स कुहरे विंझवासो नाम संनिवेसो । तत्थ महिंदो नाम राया, तस्स तारा णाम महादेवी, तीए पुत्तो ताराचंदो अट्ठवरिसमेत्तो । एयम्मि अवसरे कोसलेण रण्णा ओक्खंदं दाऊण तं संणिवेसं अक्तं । तहिं निग्गओ महिंदो जुज्झिउं पयत्तो, जुझंतो च विणिवाइओ । हयं सेण्णं पलाइउं पयत्तं, सव्वो च जणो जीवसेसो पलाइओ । तया तारा वि महादेवी तं पुत्तं ताराचंद अंगुलीए लाइऊण जणेण समयं पलायमाणी च भरुयच्छं णाम नयरं तत्थ संपत्ता । तओ तत्थ वि कस्स सरणं पवज्जामु त्ति ? ण जाणए । कयाइ वि कस्सइ खलजणस्स मुहं न दिटुं । तओ तण्हाछुहापरिस्समुव्वेय-वेवमाणहियया - 'कत्थ वच्चामि ? कत्थ न वच्चामि ? किं करोमि? किं वा न करोमि ? कत्थ पविसामि? कं पुच्छामि ? कहं वा वट्टियव्वं?' ति चिंतयंती सुण्णमणा रण्णकुरंगबाला इव कायरहियया एक्कम्मि नयरचच्चरमंडवे पविसिउं पयत्ता । खणेण च गोयरग्गणिग्गयं साहुणीणं जुगलयं दिटुं, तं च दट्ठण तीए चिंतियं – 'अहो एयाओ साहुणीओ महाणुभागाओ धम्मनिरयाओ वच्चंतीओ य पुरा मम पेइयम्मि गेहम्मि पूयणिज्जाओ, ता इमाओ जइ सरणं उवगच्छामि तया वरं' ति चिंतयंती पुत्तं अंगुलीए घेत्तूणं उट्ठिऊण साहुणीओ वंदियाओ । ताहिं च आसासिआ, साणुणयं पुच्छिया - 'कत्तो आगया सि' ? तीए भणियं - भगवईओ ! विंझपुराओ । ताहिं भणियं – 'कस्स पाहुणिओं' ? तीए भणियं - 'इमं पि न याणामि' ।
तओ तीए रूवलायण्ण-लक्खणाइसयं पेच्छंतीणं तारिसं च कलुणं भासियं सुणंतीणं साहुणीणं अणुकम्पा जाया । ताहि भणियं - 'जइ तुह इह नयरे कोइ णत्थि, ता एहि पवत्तिणीए पाहुणी होहि' । तीए वि 'अणुग्गहो' त्ति भणंतीए पडिवण्णं । गंतुं च पयत्ता । मग्गाणुलग्गा सा पवत्तिणीए दिट्ठा । चिंतियं च पवत्तिणीए - एसा का वि दुहिआ। असरिसरूवलायण्णरूवजोव्वणलक्खणविलासेहिं लक्खियं च जहा - का वि रायदारिय त्ति, इमो य से अइसुंदरो पासे पुत्तओ त्ति । तीए वि उवगंतूण वंदिया पवत्तिणी । आसासिया पुच्छिया च – कत्तो आगया ? साहियं च णिययवुत्तंतं पवत्तिणीए । तओ सेज्जायरघरे समप्पिया । सेज्जायरेहिं पि निययपुत्ति व्व विगयसमा सा कया । सो च रायपुत्तो मज्जिय-जिमियपरिहिओ कओ, सुहनिसण्णो य । समयंतरे एगया पवत्तिणीए भणिया – 'वच्छ ! तए संपयं किं कायव्वं?
१. अवस्कन्दम्, सैन्येन नगरवेष्टनम् ।। २. पैतृके ।। ३. प्राघुर्णिकः - अतिथि: ४. विगतश्रमा ।
११०
Page #118
--------------------------------------------------------------------------
________________
तीए भणियं – ‘भगवइ ! जो मह नाहो सो रणम्मि विणिवाइओ | विंझपुरं विणट्टं, णट्ठो परियणो ।
-
कोसलनरिंदो चंडो, बालो पुत्तो अपरियणो, ता नत्थि रज्जासा । अह उण एत्थ पत्तकालं तं करेमि, जेण
पुणो वि ण एरिसीओ आवईओ पावेमि त्ति । सव्वहा तुमं जं आदिससि तं चेय करेमि त्ति ।
तओ पवत्तिणीए भणियं - वच्छे ! जइ एवं ते निच्छओ, तओ एसो ताराचंदो पुत्तो आयरियाणं समप्पियव्वो । तुमं पुण अम्हाणं मज्झे पव्वयाहि त्ति, एवं कए सव्वसंसारवासदुक्खं छिण्णं होहि त्ति । तीए तह त्ति पडिवण्णं । ताराचंदपुत्तो भगवओ अणंतजिणवरतित्थे अणुवट्टमाणे सुणंदस्स आयरियस्स समप्पिओ । तेण वि सो जहाविहिणा पव्वाविओ, सा वि दिक्खिया ।
तओ किंचि कालंतरं अइक्वंतं । जोव्वणवसविलसंतरायपुत्तसहावो खग्गाइसत्थ-नट्ट-वाइयाइविलासो उम्मग्गं काउं आढत्तो । तओ आयरिएण पण्णविओ, भणिओ गणावच्छेएण, सासिओ उवज्झाएण, साहुजणेण सण्णविओ । एवं चोइज्जमाणो य ईसि परिणामभंगं काउमाढत्तो । एगया आयरिया बाहिरभूमिं गया, सो य पिट्ठओ गओ । तत्थ च तेण वर्णमि कीलंता रण्णुंदुरा दिट्ठा । तओ चितिअं तेण - अहो ! धण्णा इमे, पेच्छ, खेलंति जहिच्छाए, फैरुसं णेव सुणंति, णेव पणमंति, हिययरुइयं वियरंति । अम्हाणं पुण परायत्तजीवियाणं मयसमं जीवियं, जेण एक्को भणेइ - एवं करेहि, अण्णो पुणो - अण्णं करेसु । इमं भक्खं, इमं अभक्खं, एत्थ पायच्छित्तं, एयं आलोएसु, वंदणं विणयं कुणसु, पडिक्कमसु । ता सव्वहा एक्कं पि खणं नत्थि ऊसासो, तेण अम्हेहिंतो रण्णुंदुरा धण्णा । इअ चिंतयंतो वसहि उवगओ ।
तारिसं नियाणसल्लं तेण गुरूणं पुरओ न आलोइयं, न णिदियं, न पायच्छित्तं चिणं ।
I
दिवसेसु वच्चंतेसु अकालमच्चुणा मरिऊण णमोक्कारेण जोइसियाणं मज्झे किंचिऊणपलियाउओ देवत्ताए उववण्णो । तत्थ वि भोगे भुंजिऊण चंपाए दाहिणदिसाए रण्णम्मि रण्णुंदुरसुंदरी कुच्छिसि उंदुरत्तणेण उववण्णो । कमेण च जोव्वणं पत्तो समाणो अणेगरण्णुंदुरसुन्दरीए सह रममाणो अच्छिउं पवत्तो। गया बाहिरं उवगयस्स तस्स समवसरणकुसुमवुट्ठिगंधो आगओ । तेण अणुसारेण अणुसंरतो तहाविहकम्मचोइज्जमाणो एत्थ समवसरणे संपत्तो । मह वयणं च सोउं समाढत्तो । जीवाइपयत्थे सुणेंतस्स साहुलोगं च पेच्छंतस्स, ईहापोहं कुणंतस्स एरिसवयणं णिसुयपुव्वं, पुणो एवं वेसो अणुभूयपुव्वो त्ति चिंतयंतस्स तस्स कम्मखओवसमेण जाईसरणं उववण्णं । 'अहं संजओ आसि, पुणो जोइसिओ देवो, पुणो एस रण्णुंदुरो जाओ' त्ति एवं सुमरिऊण 'अहो ! एरिसो णाम संसारो त्ति, जेण देवो वि होऊण तिरियजाईए अहं उववण्णो त्ति, ता भगवओ पायमूले गंतूण भगवंतं वंदामि, पुच्छामि च किं मए उंदुरतणं पत्तं, किंवा पाविहामि इओ अग्गे'? त्ति चिंतयंतो एस मम सयासं आगओ त्ति, सबहुमाणो थुणिउं समादत्तो
१. परुषम् ॥
-
१११
Page #119
--------------------------------------------------------------------------
________________
'भगवं ! जे तुह आणं, तिहुयणणाहस्स कहवि खंडंति । ते मूढा अम्हे विव, दूरं कुगईसु वियरंति ॥
ता भगवं ! किं पुणो मए कयं ? जेणाऽहं एरिसो जाओ मि' एवं एसो पुच्छइ । तित्थयरो आह - भो ! भो ! महासत्त ! तम्मि काले तए चिंतियं 'जह रण्णुंदुरा धण्ण'त्ति तेण नियाणसल्लदोसाणुभावेण देवत्तणे वि रण्णुदुरत्तणे आउयगोत्ताइं णिबद्धाइं । एत्यंतरे गणहरेण भगवं पुच्छिओ - भगवं ! किं सम्मदिट्ठी जीवो तिरियाउयं बंधइ ण व त्ति । भगवया भणियं च 'सम्मदिट्ठी जीवो तिरियाउयं वेदेइ, ण उण बंधइ । भण्णइ य -
सम्मत्तम्मि उ लद्धे, ठइयाइं णरयतिरियदाराई । जइ य ण सम्मत्तजढो, अहव ण बद्धाउओ पुट्विं ॥
अणेण देवत्तणम्मि वट्टमाणेण सम्मत्तं वमिऊण तिरियाउयं बद्धं' ति । इंदेण भणियं - भगवं ! कहं पुण संपयं एसो सिद्धि पाविहिइ ? त्ति । भगवया भणियं - इओ एस वणे अप्पणो ठाणे वच्चंतो हियए चिंतिहिइ - 'दुरंतो संसारो, ण सुंदरं नियाणसल्लं, अहमा उंदुरजोणी, दुल्लहो जिणवरमग्गो । ता एत्थ णमोक्कारसणाहो मरिऊण जत्थ विरइं पावेमि तत्थ जाओ वरं' ति चिंतयंतो अत्तणो बिलिक्कदेसे भत्तं पच्चाइक्खिऊण मम वयणं चिंतयंतो णमोक्कारपरो य अच्छिहिइ त्ति । तत्थ वि अणुकूल-उवसग्गेहिं रण्णुंदुरसुंदरीहिं खोहिज्जमाणो 'अच्चंतदुक्खदाइभोगेहिं अलं, हे जीव ! संपयं पुण्णो भत्तपरिच्चाएण जं संसारतरंडयं पावसु त्ति चिंतयंतो तओहुत्तं न पुलएही। हियए जिणेसरं झायंतो तइयदिवसे खुहासोसियसरीरो मरिऊण मिहिलाए मिहिलरण्णो चित्ताणामाए महादेवीए कुच्छिम्मि गब्भत्ताए उववज्जिहिइ । गब्भगएण तेण देवीए सव्वसत्ताणं उवरि मित्तभावो भविस्सइ, तेण जायस्स तस्स णामं 'मित्तकुमारो' कीरिहिइ । तहिं परिवड्डमाणो बालो कुक्कुड-मक्कडाईहिं सह कीलिहिइ । एवं कीलंतस्स अट्ठवरिसाइं पुण्णाइं । तया वासारत्तो समागओ। तयाणि सो मित्तकुमारो नयरबाहिरं गओ समाणो तत्थ सउण-सावयगणेहिं बंधणबद्धेहिं अच्छिहिइ । तइया तेण पएसेण ओहिणाणी मुणी वच्चिहिइ । तं कीलंतं दट्ठणं ओहिणाणेण तस्स ताराचंदसाहूरूवं पेच्छिहिइ, पुणो जोइसदेवो, पुणो रण्णुंदुरओ, तओ इह समुप्पण्णो । तस्स बोहणटुं -
भो साहू देवो विय, रण्णुंदुरओ सि किं न सुमरासि ?। णियजोणिवासतुट्ठो, जेण कयत्थेसि तं जीवे ॥
एयं गाहं कहेही । तं च सोच्चा ईहापोहमग्गणगवेसणं कुणंतस्स तस्स जाईसरणं उववज्जिहिइ । णाहिइ य जहा - अहं सो ताराचंदो साहू, तओ देवो, तओ रण्णुंदुरो जाओ । तत्थ णमोक्कारेण मओ
१. विचरन्ति - भ्रमन्ति ।। २. मिथिलाभिख्यनरेन्द्रस्य ।
११२
Page #120
--------------------------------------------------------------------------
________________
इहाऽऽगओ त्ति । तं च जाणिऊण चिंतिहिइ - 'अहो धिरत्थु संसारवासस्स । निंदणिज्जो एस जीवो, जं महादुक्खपरंपरेण कह कह वि दुल्लहं जिणधम्मं पाविऊण पमाओ कीरइ । ता सव्वहा संपयं तहा करेमि जहा ण एरिसाई दुहाई पावेमि । इमस्स मुणिणो सगासे पव्वइउं इमाइं तवोविहाणाई, इमाइं अभिग्गहविसेसाई, इमं चरियं करेमि' त्ति चिंतयंतस्स अपुव्वकरणं खवगसेढी अणंतकेवलवरणाणदंसणं समुप्पज्जिहिइ । एत्थंतरम्मि तस्स आउयकम्मं पि खीणं । एवं च तक्खणं च तत्तियमेत्तकालओ अंतगडकेवली होहिइ त्ति । तेण भणिमो जहा एस अम्हाण सव्वाण वि पढमं सिद्धिं पाविहिइ । अम्हाणं पुण दसवासलक्खाउयाणं को वच्चइ' त्ति ।
इमं रण्णुंदुरक्खाणयं णिसामिऊण सव्वेसिं इंदाईणं मणुयाणं च महंतं कोउयं समुप्पण्णं । भत्तिबहुमाणपुव्वयं सुरिंदेण सो रण्णुंदुरो णियकरयले आरोविओ, भणियं च वासवेण -
तं चिय जए कयत्थो, देवाण वि तं सि वंदणिज्जो सि । अम्हाण पढमसिद्धो, जिणेण जो तं समाइट्ठो ॥ भो भो पेच्छह देवा, एस पहावो जिणिंदमग्गस्स । तिरिया वि जं सउण्णा, सिझंति अणंतरभवेण ॥
एवं वासवेण सव्वसुरिंदेहिं नरवइसएहिं हत्थाहत्थि घेप्पमाणो रायकुमारो विव पसंसिज्जमाणो उववूहिज्जंतो वण्णिज्जंतो परिवंदिओ पूइऊण पसंसिओ - अहो ! धण्णो, अहो ! पुण्णवंतो, अहो ! कयत्थो, अहो ! सलक्खणो, अहो ! अम्हाण वि एस संपुण्णमणोरहो त्ति जो अणंतरभवे सिद्धिं पाविहिइ, ण अण्णहा जिणवरवयणं ति ।
उवएसो - रण्णुंदुरस्स दिटुंतं, नच्चा इंदपसंसियं । सिग्धं हि भवनित्थारो, होज्ज जत्तं तहा कुण ॥ महापुरिसदंसणपहावम्मि रण्णुंदुरस्स कहा समत्ता ।
- कुवलयमालाओ
१. सपुण्या ॥
११३
Page #121
--------------------------------------------------------------------------
Page #122
--------------------------------------------------------------------------
________________ स्पर्श दई पाणी वही जातुं हशे त्यारे कंईक.... आ पत्थरोने कंईक तो थातुं हशे! - रमेश पारेख स्पर्श दत्त्वा यदा जलं वहति किल तदा किञ्चित्... किञ्चित् तु पाषाणा एतेऽनुभवेयुरेव खलु !!! Kirit Graphics: 09898490091