________________
ननु नन्दनकाननकल्पलता प्रभवेद्धनधान्यविपोषकरी विभुता प्रसरेच्च दरिद्रगृहे कटुदैन्यकदर्थनदोषहरी । प्रतिगेहमनन्तगुणाऽतिशयोऽप्युदयेद्रघुनाथसमस्तनयः प्रतिगेहममेयविभुत्वमहो विलसेद् गुणिनां शुभदस्समयः ॥१३॥
वनमस्तु न जम्बुकमात्रवृतं न सरो बकटिट्टिभसम्भरितं वनमस्तु मृगेन्द्रनियन्त्रणगं सजलञ्च सरो वरटध्वनितम् । सुखसम्पदहो विलसेत्परिते मम राष्ट्रमिदं जयतां जयतां
कलिदण्डकमस्तु हिताय सतां सतताय हिताय च मानवताम् ॥१४|| स्थिरतामुपयान्तु बुधा गुणिनः क्षमतामुपयान्तु महाबलिनः प्रभवेत्सुरवाचि रुचिनितरां विकसेत्स्वपथे सुमतिस्सुतराम् । ननु संस्कृतिरार्यगुणैर्महिता भरतावनिकीर्तिकलापधृताऽखिलविश्वकुटुम्बमुदारधिया परिरक्षतु पालयतामभिया ॥१५।।
जलदागमशीतवसन्तनिदाघसमुच्चयसेवितराष्ट्रमिदं शिवसुन्दरसत्यतपोमहितं समतीतयुगत्रयसन्तुलितम् । बिभृयादनुकूलसमुच्छलितं यमुनातटकुञ्जदरीषु सदा
व्रजनाथमुखासवसीकरिणः प्रभवन्तु पुनर्मुरलीनिनदाः ॥१६।। कलविङ्कमयूरकपोतशुकैर्बकसारसटिट्टिभकोकमुखैः चटकापिकचातककाककुलैर्ननु तित्तिरखञ्जनहंसगणैः । प्रतिकाननमस्तु मनोरमणं प्रतिकुञ्जमपि श्रमखेदहरम् तदिदं गुणदोषविवेचनकं प्रमुदे सुविदामभिराजकृतम् ॥१७॥
सकलोदयमङ्गलसङ्घटकं भवतान्नितरामपकीर्तिहरं कलिदण्डकमेतदहो रुचिरं कविनाऽप्यभिराजिसुतेन कृतम् । पठिती बिभृयाद् व्यवहारसृतिं द्रविणञ्च यशोऽशिवपापहर्ति परिनिर्वृतिमप्यथवा त्वरितां ललितां जनतोषकटीं सुमतिम् ॥१८॥
Teacher's Colony Lower Summer Hill
SHIMLA.(H.P.)