________________
पशुतोऽपि विमूढगलन्मतिका धृतभङ्गभुजङ्गविषग्रहिलाः जनतासुखमङ्गलमोदलसत्तुहिनाकरराहुनिभाः कुटिलाः । धिगहो परितोऽपि गतान् विमतान् कलिकालविटान् कपिनृत्यरतान्
हितसिद्धिकरे पथि पर्यटितान् शतजातुकलानिपुणान् विगुणान् ॥६॥ नहि सम्प्रति संसदि ते महिता निगमागमशास्त्रपुराणविदः न च कोमलकान्तपदावलिमञ्जुलसत्पदबन्धसमूहयुजः । दशरूपनिरूपणशक्तिभृतः षड्दर्शनवाङ्मयनित्यजुषः परमेश्वरपादपयोजमधुप्रचुरग्रहणोन्मदभृङ्गदृशः ।।७।।
कविकोविदसाधुतपोधनिनोऽनिशमेव रुदन्ति मनोव्यथया श्लथतामुपयान्ति बृहत्कथया बत को नु शृणोति तदात्मगतं । परिपृच्छतु को नु तदीयसुखं नयनाऽश्वपनोदयतु क्व कथम् ?
परिपश्यतु को नु महाविपदं प्लुतवम विनोदयतु क्व कथम् ||८|| सुखिनस्तु कलाविह सन्त्यपरे न च संसदि ते गणिता महिताः न च शासनतन्त्रविधानवृता अनियन्त्रणकैतवसूत्रधराः । विधिमान्यनिदेशविमानकरास्तदजागलसन्निभमेव मतम् ननु दर्शनमात्रकुतूहलजं प्रतिभाति तदीयमहो चरितम् ॥९॥
जनतन्त्रमिदं वृणुते न वरान् शृणुते न वरांस्तनुते न वरान् जनतन्त्रमिदं मनुतेऽप्यवरान् छलछद्मपरायणनेतृजनान् । अधुनाऽधिकलि प्रविवेकहरं परितोऽपि तमोऽञ्चति दृष्टिहरं
तमसि क्व दिनेशमयूखकथा क्व च लोकसुखं रुचिरं प्रचुरम् ॥१०॥ जगदीश्वर ! राष्ट्रमिदं रुचिरं ननु विश्वगुरुप्रथया प्रथितं चतुराननभूरितपोमहितं हरिहारिचरित्रविभामहितम् ।। कृपया परिवारय वारय भो ! मरणादमृतं प्रति सारय भोः ! अनृताच्च ऋतं प्रति कारय भोस्तमसोऽपि दिनश्रियमानय भोः ! ॥११॥
बुधसंहतिमाशु समञ्जय भो ! जडजाल्मतति किल भञ्जय भोः ! नलरामयुधिष्ठिरकीर्तिकथा प्रसरेत्पुनरप्यवनीपरिधौ । ननु राघवशासनतन्त्रमदः स्वगृहे लसतात्-भवताच्च पुनः प्रतिगेहमुमासदृशी दुहिता प्रभवेत्परमेश्वर ! जातु पुनः ॥१२॥
३६