SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ कलिसपादिकाः - प्रा. अभिराजराजेन्द्रमिश्रः गृहिणोऽसुखिनो यतयस्सुखिनो विलपन्ति बुधा विलसन्ति जडाः क्व धृतिः क्व दमः क्व विवेकबलं शुचितेन्द्रियनिग्रहसत्यकथाः ? । क्व च धर्मगुणा अपेरऽत्र कलौ वरटन्ति बकाः शरभन्ति वृकाः ननु मौकुलयोऽपि पिकन्ति मुधा जलदन्ति महानसधूमचयाः ॥१॥ भुवि सत्पुरुषन्ति शठाः कितवा धनदन्ति च तस्करदस्युगणाः किमहोऽधिकसंल्लपनेन पुनर्विपरीतमिवैव कलौ विततम् । इह भारतराष्ट्रमहापरिधौ जनतन्त्रमिदं जयते सततम् यदमोघबलेन चरित्रहता दनुजा विकसन्ति यथा दुरितम् ॥२॥ बलशम्बरवृत्रदशाननकंसकबन्धविराधखरादिसमाः दनुजप्रतिमा मनुजाः समवाप्य नु मन्त्रिपदं परुषा विषमाः । नितरां छलयन्ति जनं सरलं गुणयन्ति बलं दमयन्ति बुधान् दमयन्ति लसद्गुणसंवलितान् जरयन्ति शुभोदयकर्मरतान् ॥३॥ लघयन्ति निजाऽवनिकीर्तिकथां शमयन्ति न वा रुदितानि सतां न च ते गुणपक्षधराः सदया न च रक्षिण एव सदा महताम् । न च लोकसमाजविकासमया दुरितौघपटाः षड्यन्त्रकराः परदारयशोधनवृत्तहरा निजलाभविलीनमनःप्रसराः ॥४॥ परकृत्यविनाशसदारतयो ननु भूतपिशाचगृहीतधियः वितथीकृतदेवनृपालभियो न गृहे शमिनो न वने सुधियः । न च बन्धुजनेषु सदाशयिनो मनसाऽपि शठा वचसाऽपि शठाः कृमिकीटविनिन्दितजीवितकाः सकलोदयसौख्यदृशाऽपि शठाः ।।५।। ३५
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy