________________
गायकाः हे गायकाः ! किमिति कर्कशरागतानैः कर्णान् निपीडयथ मुग्धधियां जनानाम् । वाद्यानि निष्ठुररवाणि च वादयित्वा । नृन् हिंसतां नरकपातभयं न किं वः ? ॥१९॥ गानं सुरागकलितं मधुरं प्रसन्नं प्रस्तुत्य संसदि जनान् इह मन्त्रमुग्धान् । कृत्वा रसानुभवमद्भुततां दधद्भ्यः सद्गायकेभ्य इयमस्तु सदा नमस्या ॥१००।। पूर्वपद्येऽस्ति निन्दाऽत्र, स्तुतिरस्ति तथोत्तरे । एवं लोकेऽत्र वीक्षन्तां, प्रतिवस्तु विपश्चितः ॥
इति नागराजविरचितं निन्दास्तुतिशतकं सम्पूर्णम् ।
90, 9th Cross, Naviluraste, Kuvempunagar, Mysuru-510023