SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ संवर्द्धयितुं प्रयतन्ते स्म । तदर्थं च ते कस्यचिद् द्रोहं कुर्युः कस्यचिदकारणं प्रशंसां कृत्वा प्रलोभनं दास्ते । एवं एकस्मिन्नैव स्थाने विभाजनं कुर्युस्ते । तेषां ब्रिटीशदेशीयजनानामेकमेव सूत्रमासीत् - विभाजनं कृत्वाऽपि राज्यं क्रियेत - इति । भारतदेशेन ब्रिटीशसर्वकाराद् मुक्तिः प्राप्ता, ते ब्रिटीशदेशीयजनाः स्वदेशे गतवन्तः तथाऽपि तेषां वंशजास्तु इदानीमपि दृश्यन्ते । केचित् साधवो जनाश्च साम्राज्यवादिमानसं धारयन्ति । ते साधवोऽहर्निशं शासनस्य समाजस्य चोपरि अस्माकमेव सर्वोपरित्वं प्रभुत्वं च स्यात्तदर्थं प्रयतन्ते । ततोऽन्यसाधून निन्दन्ति, असदाक्षेपान् कुर्वन्ति ते । एवं प्रपञ्चाऽसत्य-दम्भ-प्रलोभनादिभिः शासने विभाजनं संघर्षं चाऽपि ते कुर्वन्ति । यथावसरं स्वसमुदायमहत्ता प्रस्थापयितुं शासनद्रोहकरणेऽपि तत्परा भवन्ति ते । एष शासनसम्राट-गुरुवरो न साम्राज्यवादी, अपि तु शासनप्रेमी आसीत्, तत एव सन्मुखमागच्छन्ती प्रतिष्ठाऽपि निषिद्धा । चेतन ! यः शासनप्रेमी अस्ति स एव शासनप्रभावको भवितुमर्हति । एवं, यः शासनप्रभावकोऽस्ति स निरभिमानी निर्दम्भी चैव स्यात् । अन्यथा नम्रता-सरलतारूपाञ्चलं गृहीत्वा प्रतिपदं दम्भाचरणसेवी न शासनप्रभावकः, अपि तु केवलं स्वप्रभावक एव भवति । दम्भसेवनं तु साधुताया विध्वंसकमस्ति ततोऽलं शासनप्रभावकतया, तद्दम्भाचरणसेविनां जीवने साधुताऽप्यस्ति न वेति प्रश्न उद्गच्छति । तथाऽप्यद्य केषाञ्चिद् गुरुकर्मजीवानां कृते दम्भस्तु साधुजीवनस्य पर्याय एव जातः, येषां प्रतिरोम दम्भस्तु प्रसृतोऽस्ति । ततस्तेषां जीवानां सर्वास्वपि प्रवृत्तिषु प्रच्छनतया दम्भसेवनं दृग्गोचरीभवत्येव । ___एष सूरीश्वरो यदा नाम गृहिवेषं च त्यक्त्वा संयममङ्गीकृतवान् तदैवाऽस्तित्वविकासे बाधनरूपं दम्भमहङ्कारं साम्राज्यवादितामसत्यतां महत्त्वाकाङ्क्षादिकं च व्यक्तित्वपोषकविविधाभूषणं त्यक्तवानेवाऽऽसीत् । तत एवाऽनुकूलपरिस्थित्यामपि गुरुणैतेन संयमविघातकं किमप्याचरणं न कृतं किन्तु संयमस्य परमनिष्ठया स्वात्मानं पूर्वकालीनमहापुरुषाणां चरणरजोनिभं विगणय्य ठक्कुरैः साग्रहं सानुनयं च प्रेम्णा प्रदत्ता भूमिरपि स्वनाम्ना नोररीकृता । ठक्कुराणामत्याग्रहवशेनैव आणंदजी-कल्याणजी-संस्था इति नाम्ना`चितमूल्येनैव सा भूमि: क्रीता । चेतन ! भूमिस्तु प्राप्ता, किन्त्वेतादृशे स्थाने गिरेरुपरि मन्दिरनिर्माणं करणीयं, अतीव दुष्करं कार्यम् । तथाऽपि शासनसम्राट्-पूज्यगुरुवरस्याऽमृतदृष्ट्या तीर्थोद्धारकार्य प्रारब्धम् । स कालोऽद्यतनसाधनसमूहरहितः पुरातनकाल आसीत् । तत्काले साधनसौलभ्यं न, न कुशलकर्मकरप्रापणं, न च धनप्राप्तिः सुलभाऽऽसीत् । तथाविधकालेऽपि शासनसम्राड्गुरुवरेण तीर्थोद्धारः कृतः । पर्वतोपरि नैकमपि तु जिनमन्दिराणि निर्मापितानि । बोदानानेस-ग्रामेऽपि भव्यमेकं जिनमन्दिरं निर्मापितमेतेन गुरुणा । अस्त्येष भव्य इतिहासोऽस्य तीर्थस्य । एष एक एव तीर्थोद्धारः 'तीर्थोद्धारक बिरुदं प्रमाणीकरोति । अद्य सर्वतस्तीर्थोद्धारा जीर्णोद्धाराश्च भवन्ति, किन्तु तत्र के उचिताः सन्ति, तच्चिन्तनीयमस्ति ।
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy