________________
भोः ! जीर्णोद्धारकरणे तीर्थोद्धारकरणे चाऽपि केचिन्नियमाः सन्ति, किन्तु को जानाति ? जानानोऽपि कः पालयति ? अद्य शासनेऽराजकता प्रवर्तते । सर्वेऽपि मुनयो जनाश्च स्वेच्छानुरूपं तीर्थोद्धारादिकं कारयन्ति । शासनकार्ये रममाणानां जीवनेऽपि यदि नाऽनुशासनं स्यात्तर्हि किमन्यैः सामान्यजनैः ? एतयाऽराजकपरिस्थित्याऽस्माकं भव्येतिहासः प्राचीनकलाशिल्पानि तत्तत्स्थानस्य महत्त्वं चेति विशिष्टसमृद्धिविनष्टा जाता।
अद्य तु, भव्यो जिनालयः स्यात्, तत्र न काऽपि विशेषहानिः स्यात्, बहुवर्षपर्यन्तं नाऽऽवश्यको जीर्णोद्धारः - इत्येतादृशजिनमन्दिरस्याऽपि केवलं स्वनाम्नः शिलालेखस्येच्छयैव जीर्णोद्धारः क्रियते । धनप्रभावेन सत्ताबलेनैव च सुन्दरमपि प्राचीनं जिनमन्दिरं, पुरातनकालीनेतिहासं प्राचीनशिल्पं च जनो विनाशयति । किमेष जीर्णोद्धारः तीर्थोद्धारश्चोच्यते किल? अत्र न जीर्णोद्धारोऽपि तु स्वनामोद्धार एवाऽस्ति ।
अद्य तु एतादृशी दुःखदस्थितिरस्ति यद् - जीर्णोद्धारव्याजेन मुख्यप्रतिमया सह सर्वा अपि प्रतिमा उत्थाप्यन्ते, तत्पश्चात् स्वनामाङ्कितप्रतिमा मुख्यप्रतिमा(मूलनायक)रूपेण प्रतिष्ठाप्यते तथा प्राचीनप्रतिमा मन्दिरस्य गर्भगृहे अथवा उपरितनभागे प्रतिष्ठाप्यन्ते । अत्र केवलं स्वनाम्नतुच्छमोह एव दृश्यते । एतादृशी घटनाऽनेकेषु ग्रामेषु सञ्जाताऽस्ति, तत्कार्यस्य परिणाम किम् ? इति तु तत्तद्ग्राम्यजना एव प्रष्टव्याः ।
बन्धो ! जीर्णोद्धारकरणे केवलं जिनालयस्य बाह्यदृष्ट्यैव जीर्णता न दर्शनीया चिन्तनीया चाऽस्ति, किन्तु जिनालयस्य भव्यता प्राचीनता च, शिल्पं, स्थापत्यकला, कस्मिन् काले केन च प्रतिष्ठा कारिता - इत्यादिकं सर्वमपि दर्शनीयं चिन्तनीयं चाऽस्ति । अद्य समाजे धनस्य विशेषतया प्रभुत्वं वर्तते । ततः सर्वेष्वपि कार्येषु धनेनैव तत्कार्यस्य गणना विधीयते, किन्तु तन्नोचितमस्ति । एतेन धनस्य प्रभावेन चाऽन्तिमशतके बहूनि बहूनि इतिहास-शिल्प-कलादिदृष्ट्याऽतीव महत्त्वयुतानि भव्यानि जिनमन्दिराणि नष्टानि जातानि । एषा घटना करुणाजनिकाऽस्ति । __ अस्माकं परमगुरुभगवता शासनसम्राट्सूरीश्वरेण बहवः तीर्थोद्धाराः जीर्णोद्धाराश्च कृताः किन्तु एकस्मिन्नपि स्थाने एतादृशं हीनं मलिनं च कार्यं न कृतमस्ति । तत एव स सूरीशः 'शासनसम्राट्' इत्यभिधानेन विख्यातो जातः । एतेन गुरुभगवताऽस्य तीर्थस्य तीर्थोद्धारं विधाय नष्टप्रायो भव्येतिहासः पुनर्जीवितः कृतः । एषैव महती शासनप्रभावनोच्यते ।
अन्ते, कदम्बगिरितीर्थस्य भव्येतिहासं विज्ञाय यथासमयमत्र त्वयाऽऽगन्तव्यम् । इति ॥
७०