SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ मर्म गभीरम् - मुनिकल्याणकीर्तिविजयः (१) अविश्वासः चीनदेशीयो महान् दार्शनिकः कन्फ्यूशियस् एकदा केनचिद् विद्यार्थिना पृष्टः – 'महोदय ! उत्तमः सर्वकारः क उच्यते ?' तेनोक्तं – 'यः सर्वकारः सर्वेभ्योऽपि प्रजाजनेभ्य आहारं संरक्षणं च सम्यक्तया ददाति, निर्वहति च प्रजाजनान् सुचारुतया, तेषां च विश्वासपात्रं भवति स सर्वकार उत्तम उच्यते' । विद्यार्थी - 'महोदय ! यद्येतस्मात् वस्तुत्रयात् (आहार-संरक्षण-विश्वासरूपात्) एकतमद्धातव्यं तदा कतमद्धातव्यम् ?' 'संरक्षणम्' । 'ततोऽप्येकं यदि मोक्तव्यं तदा ?' 'आहारः'। 'परं विनाऽऽहारं तु लोको मरिष्यति' । 'ये प्रजाजनाः सर्वकारे न विश्वसन्ति ते जीवन्तोऽपि मृता एव' । (२) सेवा एको जनः कस्माच्चित् सेतोः कूदित्वाऽऽत्मघातं यावत् करोति स्म तावता कुतश्चिदेक आरक्षको धावित्वा तत्राऽऽगत उच्चैश्च कथितवान् – 'मा भो ! मा साहसं करोतु भवान् । किमर्थं खलु भवादृशो युवा, येनाऽद्याऽपिपर्यन्तं जीवनं पर्याप्ततया नाऽनुभूतं स, आत्मघातं कुर्यात् ?' तेनोक्तं – 'नाऽहं जीवितुमिच्छामि, जीवनादेव विरक्तोऽस्म्यहम्' । ७१
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy