SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 'भोः ! प्रथमं मम वचनानि शृणोतु कृपया । यदि भवान् जले कूर्देत् तदा भवन्तं रक्षितुं मयाऽपि कूदितव्यमेव ननु ! । जलं चाऽधुना शीतकालत्वात् सर्वथा हिमशीतलं वर्तते, अहं चाऽचिरादेव न्युमोनियारोगात् सज्जो भूत्वोत्थितोऽस्मि' । ____ 'एतस्याऽर्थोऽवगम्यते वा ? अहं मरिष्यामि नूनं भवन्तं रक्षन् । मम परिवारे प्रिया पत्नी चत्वारश्च शिशवः सन्ति । किं भवान् सानुतापेनाऽन्तःकरणेन स्वजीवनं यापयितुमिच्छतीतः परम् ? नैव, सर्वथा नैव । अतः शृणु मद्वचनम् । स्वस्थो भव, क्षमा याचस्व, भगवान् भवन्तं क्षमयिष्यत एव । गृहं गच्छतु । तत एकान्ते सर्वेषामज्ञाततया स्वमुद्बध्नातु !!' । (३) सर्वत्र एक: कलाविद् आश्रमे प्रवचनं कुर्वाणोऽवदत् - 'कला सङ्ग्रहालये प्राप्यते, किन्तु सौन्दर्यं तु सर्वत्राऽपि सुलभम् । पवने, वने, जले - सर्वत्राऽपि प्राप्यते - निःशुल्कमेव सञ्जारहितं चाऽपि' । 'सर्वथा चैतन्यवदेव' इति गुरुरपूरयत् स्वशिष्याणां सम्मुखमनुगामिनि दिने । 'चैतन्यस्य चिह्नानि तु देवालयनामके सङ्ग्रहालये प्राप्यन्ते किन्तु तस्य तत्त्वं तु सर्वत्रैव प्राप्यते, निःशुल्कमेव, अज्ञातं सज्ञारहितं चाऽपि !!' । (४) शिक्षणम् गुरोः कश्चनाऽनुयायी, गुरुमत्यधिकादरेण मूर्तिमन्तं भगवन्तमिव पश्यन्, एकदा गुरोश्चरणयोः पतित्वोच्चैरकथयत् – 'कथयन्तु भोः पूज्या गुरवः ! भवन्तोऽत्र जगति किमर्थं समागताः ?' ___ गुरुणा तीक्ष्णस्वरेण कथितम् – 'अहं खलु गुरुपूजायामेव स्वसमयस्य दुर्व्ययं कुर्वतां भवादृशां मूर्खाणां शिक्षणार्थमत्राऽऽगतोऽस्मि !!' । (५) मार्गः एकः शिष्यो सविनयं गुरवेऽपृच्छत् – 'गुरो ! कथमहं मार्गप्रवेशं कुर्याम् ?' गुरुणोक्तं – 'किं भवान् आश्रमस्य निकषा प्रवहन्त्या नद्याः प्रवाहस्य गभीररवं शृणोति वा ?' 'आम् शृणोमि' । 'तर्हि स एव मार्गप्रवेशस्य श्रेष्ठा पद्या !!' । (६) शिरस्त्रम् एकदा मुल्ला-नासीरुद्दीनः शिरसि तुर्कदेशीयं शिरस्त्रं परिधाय विपणावटति स्म । तदैको जनो वेगेन चलन् तमाहूतवान् कथितवांश्च – 'महोदय ! अस्मिन् पत्रे तुर्कीयभाषायां किमपि लिखितमस्ति, न चाऽहं तां भाषां पठितुं जानामि । अतः कृपया तत्र किं लिखितमस्तीति पठित्वा मां कथयतु । ७२
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy