________________
न कोऽपि जनस्तस्य शवस्य समीपं गन्तुमना आसीत् ! न कोऽपि तं शवं स्वच्छस्थानेऽप्यानेतुं प्रयतते स्म ! न कोऽपि तस्य स्नेहिजनाः के स्यु'रिति अन्वेष्टुं प्रायतत ! अन्ते, न च कोऽपि श्वभिः काकैश्च भक्ष्यमाणं शवं निरीक्ष्याऽपि तस्य शवस्याऽन्तिमक्रियां विधातुं सन्नद्धोऽभवत् !
किं वयमार्यजना उताऽनार्यजनाः ? किमस्माकं देहेष्वपि रक्तमिश्रणं जातमनार्यजनानाम् ? एते संस्कारा नाऽऽर्याणां, किन्त्वनार्याणां सन्ति । अस्माकं देशे यथा खाद्य-पेय-वस्त्र-अद्यतनसाधनेत्यादीनि सर्वाण्यपि वस्तूनि विदेशत आयान्ति तथैव किं क्रूरता-हिंसा-निष्करुणेत्यादयः कुसंस्कारा अपि आनीयन्ते ? शिक्षणस्य विकासस्य च व्याजेनाऽस्माभिः सर्वतः कुसंस्कारा एव गृह्यन्ते । आर्यजनाः संवेदनशून्याः संस्कारविहीनाश्च स्युः - इत्येकमेवाऽनार्याणां लक्ष्यमस्ति, तल्लक्ष्यं सम्मुखीभूयाऽस्माभिः सिद्धं क्रियते ।
वयमनुकरणशीलाः स्मः । अद्य चलचित्र-केश-वस्त्र-उपानद्-देहविषयिक्यो या या नूत्ना अभिरुचयो दृश्यन्तेऽस्माभिः ताः सर्वा अप्यभिरुचयोऽनुत्रियन्ते । एवमनुकरणशीलस्वभावादस्माभिः परदेशीयाः संस्कारनाशिकाः सर्वा अपि प्रणाल्य सानन्दं गृहीताः । किन्त्वाश्चर्यं त्वेतद् यदस्माभिः परदेशीयानामनुशासनं प्रामाणिकता नीतिमत्ता चेत्यादयः सत्संस्कारा न कदाऽपि स्वीकृताः । किं वयं बुद्धिहीनाः स्म: ?-इति भ्रमणोत्पद्यते । परदेशे तु प्रतिदिनमेवं भवति - कोऽपि जनो मृतः, अपघातो जातश्चेति निरीक्ष्याऽपि सर्वे जना उपेक्षन्ते । तत्र केवलं स्वस्यैव चिन्तां कुर्वन्ति सर्वेऽपि जना यतस्ते संवेदनशून्या एव भवन्ति । एषा संवेदनबधिरता आर्यदेशीयगुणहासस्य कारणं भवति ।
पूर्वमेकवर्षीयो बालकोऽपि पूज्यजनान् सेवते स्म, सन्मानयति स्म च । अद्य लघुवयस्को बालक एव पूज्यजनान् त्रासयति, मारयति, अवमानयति च । पूर्वं कीट-मत्कोटानां हनने पापं मन्यते स्म । अद्य सर्वेऽपि जना गृह-देह-शुद्ध्यर्थं देहपुष्ट्यर्थं च प्राणिघातकान्यौषधान्युपयुञ्जन्ति अद्यतनशृङ्गारसाधनानि च सेवन्ते । क्रोधाविष्टो बालकः स्वकीयभ्रातरं भगिनी चाऽपि हन्ति । एतदेव सूचयति - वयं कियन्तः संवेदनबधिरा जाताः ।
किं नाम संवेदना ? यस्य कस्यचिदपि दुःखं संवीक्ष्य हृदि वेदना, चित्ते च करुणा जायते, इति । संवेदना स्वकीयं परकीयं चेति भेदं न पश्यति, एष भेदस्तु स्वार्थ इत्युच्यते । संवेदना तु स्वार्थविरोधी भावोऽस्ति । यत्र संवेदना तत्र न स्वार्थः, यत्र स्वार्थस्तत्र न संवेदना, इति सूत्रमस्ति । वयं सर्वेऽपि न संवेदनशीला अपि तु स्वार्थयुता एव स्मः । ततः सर्वोऽपि व्यवहारः स्वार्थपर एवाऽस्माभिः क्रियते, किन्त्वेतन्नोचितमस्ति । तत्राऽपि मृतकेन सहैष व्यवहारस्तु नितरामशोभनीयोऽस्ति । यो जीवः सर्वमपि स्नेहिजनं विहायाऽपरस्मिन् लोके गतवानस्ति, तादृशं प्राणशून्यदेहं दृष्ट्वाऽपि यदि चित्ते वेदना न भवेत्तर्हि अस्मासु मानवताऽप्यस्ति न वेति प्रश्नो भवति ।
अन्ते, एतदरण्यरुदनमस्ति, इत्यहं जानामि, तथाऽपि केवलं मम मनोवेदना प्रकटीकृता ।
७७