________________
सत्यघटना
संवेदनबधिरता
मुनिधर्मकीर्तिविजयः
अहं वटपद्रनगरतो विहृत्य कर्णावतीनगरं प्रत्यागच्छन्नासम् । 'नडियाद 'नगरसमीपस्थमेकं स्थानमासीत् । प्राय: प्रात:कालस्याऽष्टवादनसमयो जात आसीत् । तदा तन्मुख्यमार्गस्यैकस्मिन् कोणे एको मृतदेहः पतित आसीत् । तस्य मस्तकं रुधिरालिप्तमासीत्, उदरादन्त्राणि बहिर्निर्गतान्यासन्, देहस्य परितो मक्षिका उड्डयन्ते स्म, काकाः पुनः पुनस्तत्राऽऽगत्य तद्देहमभक्षयन्, कुक्कुराश्च भूमिपतितं रुधिरमास्वादयन्ति स्म ।
अनेके जनास्तन्मार्गाद् गच्छन्त आसन् । ते सर्वेऽपि जनाः पतितं तं शवं पश्यन्ति स्म । “कः स्यात् ? कथं मृत्युर्जातः ? अपघातो भवेदुत केनाऽपि हत्या कृता स्यात् ?" इत्येवं बहून् विकल्पान् मनसिकृत्य क्षणं दुःखमनुभूयाऽग्रेऽचलन् ते जनाः, किन्तु न कोऽपि वीर ( ? )जनो तन्मृतकस्योचितव्यवस्थां कर्तुं प्रयतते स्म ।
हृदयद्रावकं चित्तोद्देगकरं चाऽतीव करुणं दृश्यं संवीक्ष्य तदा मन्मानसेऽनेके विकल्पा उदगच्छन्, तत्राऽप्येकः प्रश्नस्तु दिनपर्यन्तं पुनः पुनरुद्गच्छति स्म - किं वयमेतादृशाः संवेदनबधिराः स्मः ? यतो मृतकस्याऽपि लज्जां नाऽनुभवामः इति । एष दीनोऽनाथो वनीपको विशेषतोऽपरिचितश्चाऽस्तीति कल्पनाऽस्माकमस्ति, इति स्वीकरोम्यहम्, किन्त्वेष यः कोऽपि मानव एवाऽस्तीति तु निर्विवादं सत्यमस्ति । अनेकेषां गतागतं कुर्वाणानां मुख्यमार्गस्योपरि पतितमपरिचितं शवं दृष्ट्वाऽपि यदि चित्ते करुणा न जायेत तर्ह्यस्मादृशा जडा निष्ठुराः संवेदनशून्याश्चाऽन्ये के स्युः ? नाऽऽर्यत्वेन स्वान् ख्यापयितुं योग्या वयम् ।
यस्मिन् देशे जना अपघातेन पीडितान् प्राणिनोऽपि त्रायन्ते, जातस्य बालकस्य यदि माता मृत्युमाप्नुयात्तर्हि तद्बालकस्याऽपि पोषणं कुर्वन्ति, मकरसङ्क्रान्तिपर्वदिने दवरकैः छिन्नाङ्गानां पक्षिणां रक्षार्थं चिकित्सार्थं च बहवो युवानो धावन्ति, तस्मिन्नेव देशेऽद्यैतादृशी दयनीया स्थितिर्वर्तते ? भारतदेशे पूज्यानां वृद्धानां कृते सर्वत्र वृद्धाश्रमः, अनाथजनानां कृतेऽनाथाश्रमः, भिक्षुकाणां कृते भोजनालयः (सदाव्रतम्), असुरक्षितप्राणिनां कृते च प्राणिरक्षाकेन्द्रम् (पांजरापोल) विद्यते । कीट-मत्कोट-कुक्कुरचटकादीनां जीवानां कृतेऽपि रक्षास्थानमस्ति । एवमस्यां भुवि जातानां सर्वेषामपि जीवानां कृते आश्रयस्थानं वर्तते, यत्र देशे तद्देशे एव मार्गस्योपरि पतितं मानवशवमुपेक्ष्यते ? एतत्तु महदाश्चर्यमस्ति ।
७६