SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ मर्म नर्म - कीर्तित्रयी भोः ! मम पञ्चशतं रूप्यकाण्यावश्यकानि । भवान् ददाति वा ? यद्यपि मे प्रतिवेशी मे तानि धारयितुं सिद्ध एव, तथाऽपि.... तर्हि, तस्य सकाशादेव कुतो न गृह्णाति ? तादृशस्य सज्जनस्य मैत्र्यं नाशयितुं नेच्छामि... - 'मम त्रयः पुत्राः सन्ति । एकश्चिकित्सकः, द्वितीयोऽधियन्ता तृतीयश्च भ्रामं भ्रामं वस्त्राणि विक्रीणाति' । एवं वा ? तर्हि कनिष्ठस्याऽधिकं कष्टं भवेन्ननु ? आम्, द्वयोज्येष्ठभ्रात्रोरपि निर्वाहं स एव करोति !! - . + भवांस्तु प्रत्येकं प्रश्नस्योत्तरम् - आम्, अस्तु, एवं, भवतु - इत्येव ददाति खलु ! किं न, नहि, नैव - इत्यादिकं वक्तुं न शिक्षितो वा ? नैव भोः ॥ - भगवान् हँदम्प्राथम्येन पुरुषं सृष्टवान्, तत्पश्चाच्च स्त्रियमित्येवं किमिति खलु ? + स्वेन कर्तव्ये कार्ये कश्चन वारं वारं सूचनां दद्यात् - इति भगवतो नैवाऽभीष्टमासीदतः !!
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy